This page has not been fully proofread.

कादम्बरी ।
 
[ कथामुखे-
मृणालकलापाशङ्किभिः शैशिकरधवलं सटाभारमामीलितलोचनो बहु मन्यते द्विरदेंकलभैरा-
कृष्यमाणं भृगपतिः । इदमिह कपिकुलमपगतचापलमुपनयति मुनिकुमारकेभ्यः स्नातेभ्यः
फलानि । एते च न निवारयन्ति मदान्धा अपि गण्डस्थलीभाजि मदजलपान निश्चलानि
मधुकरकुलानि संजातदया: कर्णतालैः करिणः । किं बहुना, तापसाग्निहोत्रधूमलेखाभिरु-
रसर्पन्ती भिरनिशमुपपादितकृष्णाजिनोत्तरासङ्गशोभाः फलमूलभृतो वैल्कलिनो निश्चेतनास्तर-
वोऽपि सनियमा ईव लक्ष्यन्तेऽस्य भगवतः । किं पुनः सचेतनाः प्रोणिनः' इति ।
 
१००
 
एवं चिन्तयन्तमेव मां तैस्यामेवाशोकतरोरधश्छायायामेकदेशे स्थापयित्वा हारीतः
पादावुपगृह्य कृताभिवादनः पितुरनतिसमीपवर्तिनि कुशासने समुपाविशत् । आलोक्य तु माँ
सर्व एव मुनयः 'कुतोऽयमासादितः शुकशिशुः' इति तमासीनमपृच्छन् । असौ तु तानत्र-
वीत् 'अयं मया स्नातुमितो गतेन कमलिनीर्संरस्तीरतरुनी डॅनिपतितः शुकशिशुरातप-
वर्ती । मृणेति । मृणालानां बिसानां कलापं समूहमाशङ्कत इत्येवंशीलास्तैः । द्विरदेति । द्विरदा गजास्तेषां
कलभा बालकास्तैराकृष्यमाणमवकृष्यमाणं शशिकरश्चन्द्रस्तद्वद्धवलं शुभ्रं सटाभार केसरकलापम् । आमी-
लीति । आ ईषन्मीलिते लोचने येनैवंभूतो बहुमन्यते सुखत्वेन जानातीत्यर्थः । इदमिति । इहास्मिस्तपो-
वन इदम् । अपेति । अपगतं चापलं चाञ्चल्यं यस्यैवंभूतं कपिकुलं वानरयूथम् । स्नातेभ्यः कृताप्लवेभ्यः ।
मुनीति । मुनीनां तपस्विनां कुमारका बालास्तेभ्यः फलानि सस्यान्युपनयति ढोकयति । एते चेति । एते
करिणो हस्तिनो मदान्धा अपि मदोन्मत्ता अपि गण्डस्थलीभाजि । करटस्थलभाजि । मदेति । मदजलस्य
दानवारिणः पानं प्राशनं तेन निश्चलानि स्थिराणि मधुकराणां भ्रमराणां कुलानि समूहान् संजातदया:
समुत्पन्नकरुणाः कर्णतालैः श्रवणचपेटैर्न निवारयन्ति न दूरीकुर्वन्ति । किं बहिति । किं बहुना किं बहु-
जल्पितेन । स्तोकेनैवोच्यत इति भावः । तापसेति । उत्सर्पन्तीभिरुर्ध्वं व्रजन्तीभिस्तापसानां यदग्निहोत्रं तस्य
या धूमलेखा दहनकेतनराजयस्ताभिरनिशं निरन्तरम् । उपेति । उपपादिता विहिता कृष्णं श्यामं यदजिनं
चर्म तस्योत्तरासङ्गो वैकक्ष्यं तस्य शोभा येषां ते तथा फलमूलभृतो वल्कलिनो निश्चेतना ज्ञानरहिता अस्य
भगवतस्तरवोऽपि वृक्षा अपि सनियमा इव व्रतिन इव लक्ष्यन्तेऽवलोक्यन्ते । सचेतना ये प्राणिनो मनुजाद-
यस्तेषां किं पुनः किं भण्यते किं कथ्यते । ते त्वेतादृशा भवन्त्येवेति भावः ।
 
अथ हारीतः किं कृतवानित्याह – एवमिति । एवं पूर्वोक्तप्रकारेण चिन्तयन्तं विचारयन्तं मां तस्या-
मेवाशोकतरोरधश्छायायामेकदेश एकस्मिन्प्रदेशे स्थापयित्वा संस्थाप्य हारीतः हारीतनामा मुनिः । पादा-
विति । पादौ चरणावुपगृह्य पादयोः पतित्वा । कृतेति । कृतं विहितमभिवादनं येनैवंभूतः पितुर्जनका
नतिसमीपवर्तिनि नातिनिकटवर्तिनि कुशासने दर्भविष्टरे समुपाविशदुपविष्टवान् । आलोक्येति ।
आलोक्य निरीक्ष्य । तु पुनरर्थे । मां सर्व एव समग्रा एव मुनयो ऋषयः कुतः कस्मात्प्रदेशादयं शुकशि -
शुरासादितः प्राप्त इति तमासीनमुपविष्टं हारीतं मुनिमपृच्छन्नप्राक्षुः । असौ हारीतः । तु पुनरर्थे । तान्मु-
नीनब्रवीदुवाचेत्यर्थः । किमुवाचेत्याह – अयमिति । अयं शुकशिशुर्मया स्नातुं स्नानार्थमितोऽस्मात् प्रदेशात्
गते प्राप्तेन । कमलिनीति । कमलिनीसरः पद्मसरस्तस्य तीरतरुः प्रतीरवृक्षस्तस्मिन्यो नीडः कुलायस्त-
स्मानिपतितः स्रस्तः । आतपेति । आतपेनालोकेन जनितोदिता क्लान्तिः श्रमाधिक्यं यस्य स तथा ।
 
पाठा० -१ मृणालशङ्किभि: २ शिशिरकर; शिशिरकलापकर. ३ जटा. ४ कलभकैः . ५ कुमारेभ्यः. ६ जातदयाः .
७ तपसा. ८ उत्सर्पन्तीभिरुपपादित; सर्पन्तीमिरहर्निशमुपपादित ९ शोभनाः १० वल्कलिनस्तरवः. ११ इवास्य भग-
वतः समीपवर्तिनोऽत्र लक्ष्यन्ते; इव लक्ष्यन्तेऽस्य भगवतः समीपवर्तिनः १२ प्राणिन एवम्. १३ तस्यैव रक्ताशोकतरो-
इछायायाम्. १४ मां ते. १५ मुनयः सर्व एव १६ शिरस्तर; सरसस्तीरतरु. १७ नीडपतितः,
 
;