This page has not been fully proofread.

जाबालि: ]
 
पूर्वभागः ।
 
.9
 
न्धकारस्य, अर्गलाबन्धो नरककाराणाम् कुलभवनमांचाराणाम्, आयतनं मङ्गलानाम्,
अभूमिर्मदविकाराणाम्, दर्शक: सत्पथानाम्, उत्पत्तिः साधुतायाः, नेमिरुत्साहचक्रस्य,
आश्रयः सरवस्य, प्रतिपक्षः कलिकालस्य, कोशस्तपसः, सखा सत्यस्य, क्षेत्रमार्जवस्य, प्रभवः
पुण्यसंचयस्य, अदत्तावकाशो मस्सरस्य, अरातिर्विपत्तेः, अस्थानं परिभूते: अनंनुक्कूलोऽभि-
मानस्य, असंमतो दैन्यस्य, अनायत्तो रोषस्य, अनभिमुखः सुखानाम् । अस्य भगवतः
प्रसादादेवोपशान्तवैरमपगतमत्सरं तपोवनम् । अहो प्रभावो महात्मनाम् । अन्न हि शाश्व-
तिक्रमपहाय विरोधमुँपशान्तात्मानस्तिर्यञ्चोऽपि तपोवनवसति सुखमनुभवन्ति । तथा हि-
एष विकचोपलवनरचनानुकारिणयुत्पतञ्चारुचन्द्रकशतं हरिणलोचनद्युतिशबलमभिनवशा-
द्वलमिव विशति शिखिनः कैलापमा तपाहतो निःशङ्कमहिः । अयमुत्सृज्य मातरमैजातकेसरैः
केसरिशिशुभिः सहोपजातपरिचयः क्षैरत्क्षीरधारं पिबँति कुरङ्गशावकः सिंहीस्तनम् । एष
 
-
 
गृहम् । मदविकाराणामहंकारवृत्तीनामभूमिरूषरक्षेत्रम् । सत्पथानां शोभनमार्गाणां दर्शक उपदेष्टा । साधुतायाः
शुभावस्थोत्पत्तिः । उत्साहः प्रगल्भता स एव चक्रं तस्य नेमिर्धारा । सत्त्वस्य धैर्यस्याश्रय आधारः । कलि-
कालस्य कलियुगस्य प्रतिपक्ष ः शत्रुः । तपसः प्रसिद्धस्य कोशो भाण्डागारम् । सत्यस्य सखा मित्रम् । आर्जवस्य
मार्दवस्य क्षेत्रं सस्योत्पत्तिस्थलम् । पुण्यसंचयस्य धर्मसमूहस्य प्रभव उत्पत्तिस्थलम् । मत्सरस्येर्ष्याया अदत्ताव-
काशः विपत्तेरापदोऽरातिः शत्रुः । परिभूतेः पराभवस्यास्थानमपदम् । अभिमानस्याहंकृतेरननुकूलोऽहितकारकः ।
दैन्यस्यास॑मतोऽस्वीकृतः । रोषस्यानायत्तोऽनधीनः । सुखानामनभिमुखः पराङ्मुखः । अस्येति । अस्य भग-
तो मुनेः प्रसादादेव माहात्म्यादेव उपशान्तं शान्ति प्राप्तं वैरं विरोधो यस्मिन् । अपेति । अपगतो
दूरीभूतो मत्सरः परगुणोत्कर्षासहनं यस्मिन्नेवंभूतं तपोवनम् । वर्तत इति क्रियाध्याहारः । अत्रार्थे साधारणं
कारणमाह - अहो इति । अहो इत्याश्चर्ये । महात्मनां महानुभावानां प्रभावो माहात्म्यम् । एतदेव विशे-
षतो दर्शयन्नाह - अत्रेति । हि निश्चितम् । अत्र तपोवने शाश्वतिकं सदातनं विरोधं वैरमपहाय दूरीकृत्यो-
पशान्तात्मानः प्रशान्तात्मानस्तिर्यञ्चोऽपि पशवोऽपि तपोवनवसतिसुखं मुनिस्थाननिवाससातमनुभवन्त्यनुभ-
वविषयीकुर्वन्ति । तदेव दर्शयन्नाह
– तथेति । तथा हि । एषोऽहिः सर्पो विकचं विकसितं यदुत्पलं नील-
कमलं तस्य वनं तस्य या रचना निर्मितिस्तदनुकरोत्येवंशीलं तत्तथा । उत्पतदिति । उत्पतदूर्ध्वं गच्छ-
श्वारु मनोहार चन्द्रकशतं मेचकशतं यस्मिन् । हरिणेति । हरिणस्य मृगस्य या लोचनद्युतिर्नेत्रकान्तिस्त-
इच्छबलं कर्बुरमेवंभूतं शिखिनो मयूरस्य कलापं प्रचलाकमातपेन सूर्यालोकेनाहतः पीडितो निःशङ्कं निर्भयं
विशति प्रविशति । कमिव । अभिनवः प्रत्यग्रः शादाः शष्पाणि सन्त्यत्रेति शाइलो हरितप्रदेशस्तमिव ।
अयमिति । अयं कुरङ्गशावको मातरमम्बा मुत्सृज्य विहायाजातके सरैरनुत्पन्नसटैः केसरिशिशुभिरिभारिबा-
लकैः सह समुपजातः समुत्पन्नः परिचयः संस्तवो यस्यैवंभूतः सिंहीस्तनं पिबति पानं करोति । क्षर-
न्तीति । क्षरन्ती सवन्ती क्षीरधारा यस्मिन् । 'गोस्त्रियोरुपसर्जनस्य' इति हखः । एष इति । एष समीप-
टिप्प० - 1 बईभारमित्यर्थः ।
 
सर्वविद्यानामुत्पत्तिः• ३ प्रसवः;
 
प्रभावः. ४ अवशो
 
पाठा०१ नरकपुरद्वाराणाम्. २ आदर्श: ;
विषयाणा मनमिमुखः; अनवकाशो विषयाणामनभिमुखः.
 
५ प्रभावात्. ६ एतदपि.
 
७ उपशान्तान्तरात्मानः•
 
८ उत्पलिनीवनानुकारिणम् ९ अधिवसति; आवसति. १० कलापमाहव:० ११ अनुपजात. १२, प्रक्षरत्.
१३ आपिबाते.