2023-11-10 11:21:01 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

९८
 
कादम्बरी ।
 
[ कथामुखे--
दूरतः परिहरति तपोनम् । एते च पवनलो [^१]लपुञ्जीकृत-
शिखाकलापा रचिताञ्जलय इवात्र
मन्त्रपूतानि हवींषि [^२]गृह्णन्त्येतत्त्- तत्प्रीत्याशुशुक्षणयः । तरलितदुकूलवल्कलोऽयं चाश्रमलताकुसुम-

सुरभिपरिमलो [^३]मन्दमन्दचारी सशङ्क इवास्य समीपमुपसर्पति गन्धवाहः । प्रायो महाभूता
नामपि दुरभिभवानि भवन्ति [^४]तेजां- सि । सर्वतेजस्विनामयं चाग्रणीः द्विसूर्यमिवाभाति
जगदनेनाधिष्ठितं महात्मना । [^५]निष्कम्पेव क्षितिरेतद्द [^६]वष्टम्भात् । एष प्रवाहः करुणारसस्य,
संतरणसेतुः संसारसिन्धो:, आधार : र्[^७]क्षमाम्भ- साम्, परशुस्तृष्णालतागहनस्य, सामरः
संतोषा [^९]मृतरसस्य, उपदेष्टा सिद्धिमार्गस्य, अस्तगिरिरेंस [^१०]सद्ग्रहकस्य, मूलमुपशम- तरोः, नी[^११]नाभिः
प्रज्ञाचक्रस्य, [^१२]स्थितिवंशो धर्मध्वजस्य,
[^१३]
तीर्थं सर्वविद्यावताराणाम्, वॅ[^१४]वडवानलो लोभार्णवस्य,

निकषोपल: शास्त्ररत्नानाम्, दावानलो रागपल्लवस्य, [^१५]मंत्रः [^१६]क्रोभुजंगस्य, दिवसकरो मोहा-

 
[ टि ]--
एते चेति । एते समीपवर्तिन आशुशुक्षणयो वह्नयः । पवनेति । पवनेन वायुना लोलश्चपलः पुञ्जी-
कृतः समूहीकृतः शिखाकलापो ज्वालासमूहो येषां ते तथा । तथा रचिताञ्जलय इव विहिताञ्जलय इव ।
एतत्प्रीत्यैतन्मुनिस्नेहेन मन्त्रपूतान्यृचापवित्राणि हवींषि होतव्यानि गृह्णन्ति स्वीकुर्वन्ति । 'अग्निर्वैश्वानरो
वह्निः शिखावानाशुशुक्षणिः' इत्यमरः । गन्धेति । गन्धवाहो वायुरस्य मुनेः समीपं पार्श्वं सशङ्क इव भीताशय
इवोपसर्पति गच्छति । अथ साशङ्कत्वे हेतुं प्रदर्शयन्नाह - तरलितेति । तरलितानि कम्पितानि दुकूलवल्क-
लानि येन स तथा । अयमिति स्पार्शनप्रत्यक्षः । आश्रमेति । आश्रमलताकुसुमानां सुरभिः परिमलो यस्मि-
V
न्नत एव मन्दमन्दचारी शनैः शनैः संचरमाणः । प्राय इति । प्रायो बाहुल्या- र्थेऽव्ययम् । महाभूतानामपि
पृथिव्यादीनामपि तेजांसि महांसि दुरभिभवानि दुःखेनाभिभवितुं शक्यानि भवन्ति । अयं चेति । अयं च
मुनिः सर्वतेजस्विनां समग्रधामवतामग्रणीमुख्यः । अनेनेति । अनेन मुनिना महात्मना प्रकृष्टस्वरूपेणाधिष्ठि-
तमाश्रितं जगद्द्वि- सूर्यमिव द्वौ सूर्यौ यत्र तद्वदिव । निष्कम्पेति । एतस्य मुनेरवष्टम्भा- दालम्बात्क्षितिर्व-
सुधा निष्कम्पेव निर्वेपथुरिव । अथ च कियन्ति विशेषणानि रूपकालंकृतिद्वारा प्रदर्शयन्नाह - एषेत्यादि । एष

मुनिः करुणारसस्य प्रवाह ओघः । संसारसिन्धोर्भवाम्भोधेः संतरणे सेतुः सेतुबन्धः । क्षमाम्भसां क्षान्तिसलि-
लानामाधारोऽम्भसां बन्धः । तृष्णैव लता तद्गहनस्य परशुः कुठारः । संतोष एवामृतरसः पीयूषद्रवस्तस्य
सागरः समुद्रः । सिद्धिमार्गस्य मोक्षपदव्या उपदेष्टोपदेशकः । अस [^1]द्ब्ग्रहकस्याशुभग्रहस्यास्तगिरि- रस्ताचलः । उप
शमतरोः शमद्रुमस्य मूलं बुध्नः । प्रज्ञाचक्रस्य प्रतिभाचक्रस्य नाभिर्मध्यप्रदेशः । धर्मध्वजस्य सुकृतकेतोः

स्थितिवंशोऽवस्थानवेणुः । सर्वविद्यावताराणां समग्रविद्याप्रवेशानां तीर्थं घट्टः । लोभार्णवस्य लिप्सासमुद्रस्य
डवानल और्वः । शास्त्ररत्नानां सिद्धान्तमणीनां निकषोपलः कषणपट्टः । रागपल्लवस्थे- स्येच्छाकिसलयस्य दावानलो
वनवहिःह्नि: । क्रोधभुजंगस्य कोपसरी- सृपस्य मन्त्रः । मोहान्धकारस्याज्ञानतिमिरस्य दिवसकरः सूर्यः । नरकद्वाराणां
बु
दुर्गतिद्वाराणामर्गलाबन्धः प्रतिबन्धः । आचाराणां चरितानां कुलभुवनं मूलगृहम् । मङ्गलानां श्रेयसामायतनं
 
टिप्प० -

 
[^
1]F. 'असद्ग्रहस्य' इत्येव कविसंमतः पाठः ।
 
पाठा०-
-

 
 
[^
]G. पुञ्जित शिखाकलापाः शिखाजटिला.
[^
]G. प्रतिगृह्णन्त्याशुशुक्षणयः; प्रतिगृह्णन्त्येतत्प्रदत्तान्याशुशुक्ष-
णयः.

[^३]G. मन्दसंचारी; मन्दमन्दसंचारी; मन्दमन्दसंचार:.
[^४]G. तेजांसि यतः.
[^
]G. निष्कण्टकेव.
[^
]G. अवष्टम्भादेव;
 
३ मन्दसंचारी; मन्दमन्दसंचारी; मन्दमन्दसंचार:• ४ तेजांसि यतः.
अवष्टम्मेभेन.
[^
]G. प्रभवः.
[^
]G. कृपाम्भताम्.
[^
]G. अमृतस्य .
[^
१०]G. असद्ग्रहस्य.
[^
११
]G.नेमिः.
[^१२]G. प्रसाद:.
[^१३]G. तीर्थ:.
[^
१४ बा]G. वाडवानल:.
[^
१५]G. महामन्त्रः .
[^
१६]G. भुजंगमस्य.
 
नेमिः . १२ प्रसाद:. १३ तीर्थ:.