कादम्बरी /131
This page has not been fully proofread.
९८
कादम्बरी ।
[ कथामुखे--
दूरतः परिहरति तपोबनम् । एते च पवनलोलपुजीकृतशिखाकलापा रचिताञ्जलय इवात्र
मत्रपूतानि हवींषि गृह्णन्त्येतत्त्रीत्याशुशुक्षणयः । तरलितदुकूलवल्कलोऽयं चाश्रमलताकुसुम-
सुरभिपरिमलो मन्दमन्दचारी सशक इवास्य समीपमुपसर्पति गन्धवाहः । प्रायो महाभूता
नामपि दुरभिभवानि भवन्ति तेजसि । सर्वतेजस्विनामयं चाग्रणीः द्विसूर्यमिवाभाति
जगदनेनाधिष्ठितं महात्मना । निष्कम्पेव क्षितिरेतद्वष्टम्भात् । एष प्रवाहः करुणारसस्य,
संतरणसेतुः संसारसिन्धो:, आधार : र्क्षमाम्भसाम्, परशुस्तृष्णालतागहनस्य, सामरः
संतोषामृतरसस्य, उपदेष्टा सिद्धिमार्गस्य, अस्तगिरिरेंसग्रहकस्य, मूलमुपशमतरोः, नीभिः
प्रज्ञाचक्रस्य, स्थितिवंशो धर्मध्वजस्य, तीर्थ सर्वविद्यावताराणाम्, वॅडवानलो लोभार्णवस्य,
निकषोपल: शास्त्ररत्नानाम्, दावानलो रागपल्लवस्य, मंत्रः क्रोभुजंगस्य, दिवसकरो मोहा-
एते चेति । एते समीपवर्तिन आशुशुक्षणयो वयः । पवनेति । पवनेन वायुना लोलश्चपलः पुञ्जी-
कृतः समूहीकृतः शिखाकलापो ज्वालासमूहो येषां ते तथा । तथा रचिताञ्जलय इव विहिताअलय इव ।
एतत्प्रीत्यैतन्मुनिस्नेहेन मन्त्रपूतान्य चापवित्राणि हवींषि होतव्यानि गृह्णन्ति स्वीकुर्वन्ति । 'अग्निर्वैश्वानरो
वह्निः शिखावानाशुशुक्षणिः' इत्यमरः । गन्धेति । गन्धवाहो वायुरस्य मुनेः समीपं पार्श्व सशङ्क इव भीताशय
इवोपसर्पति गच्छति । अथ साशकत्वे हेतुं प्रदर्शयन्नाह - तरलितेति । तरलितानि कम्पितानि दुकूलवल्क-
लानि येन स तथा । अयमिति स्पार्शनप्रत्यक्षः । आश्रमेति । आश्रमलताकुसुमानां सुरभिः परिमलो यस्मि-
Vत एव मन्दमन्दचारी शनैः शनैः संचरमाणः । प्राय इति । प्रायो बाहुल्यार्थेऽव्ययम् । महाभूतानामपि
पृथिव्यादीनामपि तेजांसि महांसि दुरभिभवानि दुःखेनाभिभवितुं शक्यानि भवन्ति । अयं चेति । अयं च
मुनिः सर्वतेजस्विनां समग्रधामवतामग्रणीमुख्यः । अनेनेति । अनेन मुनिना महात्मना प्रकृष्टस्वरूपेणाधिष्ठि-
तमाश्रितं जगद्विसूर्यमिव द्वौ सूर्यौ यत्र तद्वदिव । निष्कम्पेति । एतस्य मुनेरवष्टम्भादालम्बात्क्षितिर्व-
सुधा निष्कम्पेव निर्वेपथुरिव । अथ च कियन्ति विशेषणानि रूपकालंकृतिद्वारा प्रदर्शयन्नाह - एषेत्यादि । एष
मुनिः करुणारसस्य प्रवाह ओघः । संसारसिन्धोर्भवाम्भोधेः संतरणे सेतुः सेतुबन्धः । क्षमाम्भसां क्षान्तिसलि-
लानामाधारोऽम्भसां बन्धः । तृष्णैव लता तद्गहनस्य परशुः कुठारः । संतोष एवामृतरसः पीयूषद्रवस्तस्य
सागरः समुद्रः । सिद्धिमार्गस्य मोक्षपदव्या उपदेष्टोपदेशकः । असद्ब्रहकस्याशुभग्रहस्यास्तगिरिरस्ताचलः । उप
शमतरोः शमद्रुमस्य मूलं बुध्नः । प्रज्ञाचक्रस्य प्रतिभाचकस्य नाभिर्मध्यप्रदेशः । धर्मध्वजस्य सुकृतकेतोः
स्थितिवंशोऽवस्थानवेणुः । सर्वविद्यावताराणां समग्रविद्याप्रवेशानां तीर्थं घट्टः । लोभार्णवस्य लिप्सासमुद्रस्य
बडवानल और्वः । शास्त्ररत्नानां सिद्धान्तमणीनां निकषोपलः कषणपट्टः । रागपल्लवस्थेच्छाकिसलयस्य दावानलो
वनवहिः । क्रोधभुजंगस्य कोपसरीसृपस्य मन्त्रः । मोहान्धकारस्याज्ञानतिमिरस्य दिवसकरः सूर्यः । नरकद्वाराणां
बुर्गतिद्वाराणामर्गलाबन्धः प्रतिबन्धः । आचाराणां चरितानां कुलभुवनं मूलगृहम् । मङ्गलानां श्रेयसामायतनं
टिप्प० -1 'असद्ग्रहस्य' इत्येव कविसंमतः पाठः ।
पाठा०-
-१ पुजित शिखाकलापाः शिखाजटिला. २ प्रतिगृह्णन्त्याशुशुक्षणयः; प्रतिगृह्णन्त्येतत्प्रदत्तान्याशुशुक्षणयः.
५ निष्कण्टकेव. ६ अवष्टम्भादेव;
३ मन्दसंचारी; मन्दमन्दसंचारी; मन्दमन्दसंचार:• ४ तेजांसि यतः.
अवडम्मेन. ७ प्रभवः. ८ कृपाम्भताम्. ९ अमृतस्य १० असग्रहस्य. ११
१४ बाडवानल:. १५ महामन्त्रः १६ भुजंगमस्य.
नेमिः . १२ प्रसाद:. १३ तीर्थ:.