This page has not been fully proofread.

जाबालिः ]
 
पूर्वभागः ।
 
चतुर्वेदैः सुचिरादिवेदमपरमुचितमासादितं स्थानम् । एनमासाद्य शरत्कालमिव केलिजलदस-
मयकलुषिताः प्रसादमुपगताः पुनरपि जगति सरित इव सर्वविद्याः । नियतमिह सर्वात्मना
कृतावस्थितिना भगवता परिभूतकलिकालविलसितेन धर्मेण न स्मर्यते कृतयुगस्य । धरणित-
लमनेनाधिष्ठित मालोक्य न वहति नूनमिदानीं सप्तर्षिमण्डलनिवासाभिमानमम्बरतलम् ।
अहो महासत्त्वेयं जरा याऽस्य प्रलयरैविरश्मि निकरदुर्निरीक्ष्ये रजनिकर किरणपाण्डुशिरोरुहे
जटाभारे फेनपुञ्जधवला गङ्गेव पशुपतेः क्षीराहुतिरिव शिखाकलापे विभावसोनिपतन्ती न
भीता । बहलाज्यधूमपटलमलिनी कृती श्रमस्य भगवतः प्रभावाद्वीतमिव रविकिरणजालमपि
 
रिति । चत्वारि यानि मुखकमलानि तत्र वासिभिः स्थायिभिश्चतुर्वेदैर्ऋग्यजुः प्रभृतिभिः सुचिरादिव चिरकालादि-
वेदमपरं द्वितीयम् । कमलस्य कदाचित्संकोचसंभवात् । उचितं योग्यं स्थानमासादितं प्राप्तम् । एनमिति । एनं
मुनिं शरत्कालमिव घनात्यय समयमिवासाद्य प्राप्य जगति लोके पुनरपि द्वितीयवारमपि सर्वविद्याश्चतुर्दशविद्याः
प्रसादं नैर्मल्यमुपगताः प्राप्ताः । का इव । सरितो नद्य इव । यथा शरत्कालं प्राप्य ता इव नैर्मल्यं भजन्ति । उभ-
योरेकविशेषणमाह – कलीति । कलिरेव कलौ वा यो जलदसमयो मेघकालस्तेन कलुषिता मलिनीकृताः । निय-
तमिति । नियतं निश्चितमिहास्मिन्नाश्रमे सर्वात्मना सर्वप्रकारेण कृतावस्थितिर्येन स तथा तेन भगवता माहा-
त्म्यवता । परीति । परिभूतं न्यकृतं कलिकालस्य विलसितं चेष्टितं येनैवंभूतेन धर्मेण न स्मर्यते । कृतयुगस्येति
कर्मणि षष्ठी 'मातुः स्मरति' इतिवत् । धरणीति । नूनं निश्चितमनेन मुनिना धरणितलमधिष्ठितमाश्रितमालोक्य
निरीक्ष्याम्बरतलं व्योमतलमिदानीं सांप्रतं सप्तर्षिमण्डलनिवासाभिमानमिति, सप्तर्षीणां कश्यपप्रभृतीनां यन्मण्डलं
समूहस्तस्य यो निवासोऽवस्थानं तेन योऽभिमानोऽहंकारस्तं न वहति न धत्ते । अत्र बहूनामृषीणां सत्त्वात् । अहो
इत्याश्चर्ये । महासत्त्वा महाधैर्येयं जरा विसा यास्य मुनेर्जटाभारे सटासमूहोपरि निपतन्ती पतनं कुर्वती न भीता
न त्रस्ता । अत्रार्थं उपमानद्वयं प्रदर्शयति
- पशुपेति । पशुपतेरीश्वरस्य जटाभारे सटासमूहे गङ्गेव स्वर्ण-
दीव । क्षीरेति । विभावसोर्वहे: शिखाकलापे ज्वाला समूहे क्षीराहुतिरिव क्षीरस्य दुग्धस्याहुतिः । वहौ प्रक्षेप
इवेत्यर्थः । गङ्गां विशिनष्टि – फेनेति । फेनस्य डिण्डीरस्य यः पुजः समूहस्तेन धवलोज्ज्वला । इयमपि धवला
भवति । जटां विशिनष्टि - प्रलयेति । प्रलयः कल्पान्तस्तस्मिन्यो रविः सूर्यस्तस्य यो रश्मिनिकरः किरणसमूह-
स्तद्वत् दुर्निरीक्ष्ये विलोकयितुमशक्ये । रजनीति । रजनिकरश्चन्द्रस्तस्य किरणा मयूखास्तद्वत्पाण्डूनि श्वेतानि
शिरोरुहाणि केशा यस्मिन् । बहलेति । बहलं निबिडं यदाज्यं सर्पिस्तस्य धूमपटलं तेन मलिनीकृतः
श्यामतां प्रापित आश्रमो यस्यैवंविधस्य भगवतो मुनेः प्रभावान्माहात्म्यागीतमिव त्रस्तमिव रविकि-
रणजालं सूर्यरश्मिसमूहस्तपोवनं मुनिस्थानं दूरतः परिहरति दूर एव त्यजति । मालिन्यस्य तमः-
प्रतिनिधीभूतस्य सूर्यरश्मिभिर्विरोधात् मालिन्याश्रयाश्रमाधिपतेर्मुनेः प्रभावाद्धीतिरुचितैवेति भावः ।
 
टिप्प० - 1 अत्रापि कलिर्जलदसमय इव इत्युपमितसमासो योग्यः, अन्यथा 'सरित इव'
इत्युपमाया: संगतिर्न स्यात् । 2 ' रविकरनिकरदुर्निरीक्ष्ये' इत्येतान्येवाक्षराणि कवेः संमतानि
प्रमाणं च सहृदयहृदयम् ।
 
पाठा० – १ चतुर्मिंदै:. २ कालिकालजलधर. ३ आलक्ष्य; अवलोक्य ४ सप्तर्षिनिवास, ५ रविकरनिकरदुर्निं-
रीक्षे. ६ निकरपाण्डुरे जटाभारे ७ पाण्डुर. ८ निष्पतन्ती. ९ आश्रमपदस्य. १० भीतभीतमिष. ११ जालकम्.
 
का० १३