कादम्बरी /13
This page has been fully proofread twice.
र्यामवश्यं न्यूनता विलोक्येत । रचनायाः प्रौढिः, परिपाकश्च वयःक्रमेणैव जायते । श्रीमतो ब्राणस्यैव हर्षचरिते या रचना तदपेक्षया कादम्बर्यामसाधारण्येव प्रौढि:, प्रौढताप्रकर्षेपि अभूतपूर्वमेव माधुर्यम्, प्रतिपदं प्रस्फुरन्प्रसादश्चाप्यवलोक्येत । एष किल परिपाकोऽनुभवेन वयसा च समुत्पद्यते, यौवने न तस्योद्भवः सुसंभवी । अत एवैतत्कृता त्रुटिर्न किञ्चिद् गणनीया । तस्मादेव – 'अपि चेदानीमानीतस्यापि कुमारस्य०' इत्यादिः प्रारम्भिक एव वाक्यसंदर्भ: परस्परमन्वयेऽर्थांशसंघटने च वाचयितुः काठिन्यमु-
त्पादयति । किन्तु सर्वतो विकीर्णा विच्छिन्ना च कथा ह्यनेन तथा संघटिता यथा तत्प्रवाहपतिताः सर्वा अपि त्रुटयो न सहृदयस्य मनस्यास्खलन्ति ।
वर्तमानकालिका: 'उपन्यास 'कारा घटनावैचित्र्यस्याभिमानमावहन्ति । किन्तु कादम्बरीकथायां घट-
नागतं तादृशमाश्चर्यं यस्य हि पूर्वापरसंघटनपूर्वकं मार्मिकतयाऽऽलोचने कृते संघटनचतुरस्यापि चेतश्चित्रीयेत । यः शुको यश्च शूद्रकः कथायाः प्रारम्भिके दृश्येऽस्मत्संमुखमायाति, एतदेव दृश्यमन्तिमतया परिणमति । शुकपञ्जरमादाय या 'चाण्डालदारिका' राजसभां प्रविशति तस्या वर्णने-'किरातवेषामिव
भवानीम्, नारायणदेहप्रभाश्यामलितामिव श्रियम्, रुधिररक्तचरणामिव कात्यायनीम्' इत्यादीनि पूज्य-
देवतासाम्यसूचकानि चाण्डालकन्यकाविशेषणानि हृदये किञ्चिदाश्चर्यम्, कवीनां निरङ्कुशतां च निर्विशङ्कमङ्कुरयन्ति । किन्तु सत्यमेव सा अन्ते लक्ष्मीः परिणमति ! किं वर्तमानकालिकोपन्यासघटनातो 'न्यूनमिदम् ? एवंकथा- निर्माणपाटवेऽपि कवयितुर्विनयः पितृभक्तिश्च किञ्चिदालोच्यतां यत् कृतिसमाप्तौ स्वस्य नामपर्यन्तमपि न निर्दिष्टम् । 'बाणतनयः' इति संकेतेनैव स्वपरिचयो दत्तः ।
बाणस्य वंशश्चरित्रं च
कान्यकुब्जप्रदेशे शोणनदस्य पश्चिमतटे प्रीतिकूटनामा ग्रामो बाणभट्टस्य पारम्परिको वासः । वात्स्यगोत्रजातो वैदिक- क्रियाकुशलो वैदिकप्रवरः कुबेरनामा पण्डितः सर्वतः पूर्वमिमं ग्राममध्यवात्सीत् । तस्य पुत्रः पाशुपतः, तत्तनयश्चार्थपतिरासीत् । अर्थपतेरेकादश पुत्रा अभूवन् । तेषामष्टमाच्चित्रभानो: राजदे-
व्यभिधानायां भार्यायामस्माकं चरितनायकस्य महाकविशिरोमणेः श्रीमतो बाणस्य जन्माऽभवत् । बाणस्य जननी शैशव एव परलोकमगात् । चित्रभानुरेव तनयं बाणं मातृवत्परमप्रेम्णा परिपोषयन्, उपाध्यायवदावश्यकं पाठ्यजातं शिक्षयन्, पौगण्डं प्रापयामास । यथाविधिसंस्कारोत्तरं बाणस्य चतुर्दशे वर्षे चित्रभानुर्लोकान्तरमगात् । यौवनसमये संगदोषेण बाणस्य चरित्रे स्वातन्त्र्यमधिकमुदियाय । एतस्य ये ये सहचराः समभवम् तेषां नाम-परिचयादिकं पूर्वं सूचितवानस्मि । तैः साकं स्वदेशानिर्गतोऽयं नानाविधान्देशान्पर्यटन्, बहूनां नरपालानां सभामुपतिष्टमानः, नानाविधैः पण्डितैश्च सह सख्यं च संवादं
च संबध्नन्नयं बहुतरमेवानुभवं ज्ञानं चोपार्जयामास ।
मध्ययौवने देशाटनजन्यं बहुतरं लाभमुपार्ज्यं सोयं स्वदेशं प्रत्याववृते । पितृपरम्परातो बाणस्याश्रयदाता कान्यकुब्जेश्वरो हर्षवर्धनो बाणस्यागमनं परिज्ञाय दूतमुखेन तमाजुहाव । लोकानां मुखाद्बाणस्य स्वातन्त्र्यादिविगुणचरितानि पूर्वत एव श्रुतवान् कान्यकुब्जाधिपतिः 'महाभुजङ्गः खल्वयमागतः' इति
समीपस्थं सदस्यं प्रति व्याजहार । अतीव मार्मिको बाणो निभृतजल्पितमपि तदाकर्ण्य ज्ञानगौरवान्निजापमानमाकलयन् मनसि परमं चुकोप । 'निजविचारेण निर्णीयतामखिलम्' इति जल्पन् मनस्वी सोयं सगौरवं संभामिमामातस्थौ । अथ प्रसङ्गेन सभास्थितैः परमप्रगल्भैरपि पण्डितैः सह शास्त्रविचारे सर्वा-
धिक वैचक्षण्यं ख्यापयन् सोयं कान्यकुब्जेश्वरस्य हृदि परमं गौरवमास्थापयामास । राजा बाणं प्रधानोपाध्यायपद- मध्यारोपयामास ।
हर्षवर्धनस्य सभायाम् 'मयूरभट्ट - मातङ्गदिवाकर'नामानावन्यावपि राजकवी आस्ताम् । शनैः शनैराभ्यां सह बाणस्य सुदृढः संबन्धोऽभूत् । एनयोरनुरोधेन बाणो हर्षवर्धनस्य चरितं 'हर्षचरित' नाम्ना आख्यायिकाकाव्येन मधुरं निबबन्ध । वयसोऽन्तिमभागे 'कादम्बरी'नामिकामिमां कथामारेभे, यां हि अर्धमात्रा-
मेव निर्माय बाणः परलोकपथिको बभूव । तत्तनयेन 'भूषणभट्टेन' पूरिता साऽस्माकं संमुखगा वर्तते ।