कादम्बरी /13
This page has not been fully proofread.
कादम्बरी ।
र्यामवश्यं न्यूनता विलोक्येत । रचनायाः प्रौढिः, परिपाकश्च वयःक्रमेणैव जायते । श्रीमतो ब्राणस्यैव
हर्षचरिते या रचना तदपेक्षया कादम्बर्यामसाधारण्येव प्रौदिः, प्रौढताप्रकर्पपि अभूतपूर्वमेव माधुर्यम्,
प्रतिपदं प्रस्फुरन्प्रसादश्चाप्यवलोक्येत । एष किल परिपाकोऽनुभवेन वयसा च समुत्पद्यते, यौवने न
स्योद्भवः सुसंभवी । अत एवैतत्कृता त्रुटिर्न किञ्चिद् गणनीया । तस्मादेव – 'अपि चेदानीमानीतस्यापि
कुमारस्य ० ' इत्यादिः प्रारम्भिक एव वाक्यसंदर्भ: परस्परमन्वयेऽर्थांश संघटने च वाचयितुः काठिन्यमु-
स्पादयति । किन्तु सर्वतो विकीर्णा विच्छिन्ना च कथा ह्यनेन तथा संघटिता यथा तत्प्रवाहपतिताः सर्वा
अपि त्रुटयो न सहृदयस्य मनस्यास्खलन्ति ।
0
वर्तमानकालिका: 'उपन्यास 'कारा घटनावैचित्र्यस्याभिमानमावहन्ति । किन्तु कादम्बरीकथायां घट-
नागतं तादृशमाश्चर्यं यस्य हि पूर्वापरसंघटनपूर्वकं मार्मिकतयाऽऽलोचने कृते संघटनचतुरस्यापि चेतश्चि-
त्रीयेत । यः शुको यश्च शूद्रकः कथायाः प्रारम्भिके दृइयेऽस्मत्संमुखमायाति, एतदेव दृश्यमन्तिमतया
परिणमति । शुकपअरमादाय या 'चाण्डालदारिका' राजसभां प्रविशति तस्या वर्णने-'किरातवेषामिव
भवानीम्, नारायणदेहप्रभाश्यामलितामिव श्रियम्, रुधिररक्तचरणामिव कात्यायनीम्' इत्यादीनि पूज्य-
देवतासाम्यसूचकानि चाण्डालकन्यकाविशेषणानि हृदये किञ्चिदाश्चर्यम्, कवीनां निरङ्कुशतां च निर्विश
कमरयन्ति । किन्तु सत्यमेव सा अन्ते लक्ष्मीः परिणमति ! किं वर्तमानकालिकोपन्यासघटनातो
'न्यून-
मिदम् ? एवंकथा निर्माणपाटवेऽपि कवयितुर्विनयः पितृभक्तिश्च किञ्चिदालोच्यतां यत् कृतिसमाप्तौ स्वस्
नामपर्यन्तमपि न निर्दिष्टम् । 'बाणतनयः' इति संकेतेनैव स्वपरिचयो दत्तः ।
.
बाणस्य वंशचरित्रं च
कान्यकुलप्रदेशे शोणनदस्य पश्चिमतटे प्रीतिकूटनामा ग्रामो बाणभट्टस्य पारम्परिको वासः । वात्स्य
गोत्रजातो वैदिक क्रियाकुशलो वैदिकप्रवरः कुबेरनामा पण्डितः सर्वतः पूर्वमिमं ग्राममध्यवात्सीत् । तस्य
पुत्रः पाशुपतः, तत्तनयश्चार्थपतिरासीत् । अर्थपतेरेकादश पुत्रा अभूवन् । तेषामष्टमाच्चित्रभानो: राजदे-
व्यभिधानायां भार्यायामस्माकं चरितनायकस्य महाकविशिरोमणेः श्रीमतो बाणस्य जन्माऽभवत् ।
बाणस्य जननी शैशव एव परलोकमगात् । चित्रभानुरेव तनयं बाणं मातृवत्परमप्रेम्णा परिपोषयन्, उपा-
ध्यायवदावश्यकं पाठ्यजातं शिक्षयन्, पौगण्डं प्रापयामास । यथाविधिसंस्कारोत्तरं बाणस्य चतुर्दशे
वर्षे चित्रभानुर्लोकान्तरमगात् । यौवनसमये संगदोषेण बाणस्य चरित्रे स्वातन्त्र्यमधिक मुदियाय । एतस्य
ये ये सहचराः समभवम् तेषां नाम-प
- परिचयादिकं पूर्व सूचितवानस्मि । तैः साकं स्वदेशानिर्गतोऽयं नाना-
विधान्देशान्पर्यटन्, बहूनां नरपालानां सभामुपतिष्टमानः, नानाविधैः पण्डितैश्च सह सख्यं च संवाद
च संबभन्मयं बहुतरमेवानुभवं ज्ञानं चोपार्जयामास ।
मध्ययौवने देशाटनजन्यं बहुतरं लाभमुपायं सोयं स्वदेशं प्रत्याववृते । पितृपरम्परातो बाणस्याश्रय-
दाता कान्यकुजेश्वरो हर्षवर्धनो बाणस्यागमनं परिज्ञाय दूतमुखेन तमाजुहाव । लोकानां मुखाद्वाणस्य
स्वातन्त्र्यादि विगुणचरितानि पूर्वत एव श्रुतवान् कान्यकुलाधिपतिः 'महाभुजङ्गः खल्वयमागतः' इति
समीपस्थं सदस्यं प्रति व्याजहार । अतीव मार्मिको बाणो निभृतजल्पितमपि तदाकर्ण्य ज्ञानगौरवान्नि-
जापमानमाकलयन् मनसि परमं चुकोप । 'निजविचारेण निर्णीयतामखिलम्' इति जल्पन् मनस्वी सोयं
सगौरवं संभामिमामातस्थौ । अथ प्रसङ्गेन सभास्थितैः परमप्रगल्भैरपि पण्डितैः सह शास्त्र विचारे सर्वा
धिक वैचक्षण्यं ख्यापयन् सोयं कान्यकुलेश्वरस्य हृदि परमं गौरवमास्थापयामास । राजा बाणं प्रधानोपा-
ध्यायपदमध्यारोपयामास ।
हर्षवर्धनस्य सभायाम् 'मयूरभट्ट - मातङ्गदिवाकर' नामानावन्यावपि राजकवी आस्ताम् । शनैः शनैराभ्यां
सह बाणस्य सुदृढः संबन्धोऽभूत् । एनयोरनुरोधेन बाणो हर्षवर्धनस्य चरितं 'हर्षचरित' नाम्ना आख्यायि
काकाव्येन मधुरं निबबन्ध । वयसोऽन्तिमभागे 'कादम्बरी'नामिकामिमां कथामारेभे, यां हि अर्धमात्रा-
मेव निर्माय बाणः परकोकपथिको बभूव । तत्तनयेन 'भूषणभट्टेन' पूरिता साऽस्माकं संमुखगा वर्तते ।