कादम्बरी /129
This page has not been fully proofread.
कादम्बरी ।
[ कथामुखे-
भगवतामेवंविधानामघक्षयकारिणाम् । पुण्यानि हि नामग्रहणान्यपि मेहामुनीनाम्, किं
पुनदर्शनानि । धन्यमिदमाश्रमपदमयमधिपतिर्यत्र । अथवा भुवनतलमेव धन्यमखिलमनेना-
धिष्ठितमवनितलक मलयोनिना । पुण्यभाजः खल्वमी मुनयो यदहर्निशमेनमपरमिव नलि-
नासनमपगतान्यव्यापारा मुखावलोकननिश्चलदृष्टयः पुण्याः कथाः शृण्वन्तः समुपासते ।
सरस्वत्यपि धन्या यास्य तु सततमतिप्रसन्ने करुणाजलनिस्यन्दिन्यगाधगाम्भीर्ये रुचिरद्वि-
जपरिवारा मुखकमलसंपर्कमनुभवन्ती निवसति हंसीवे मानसे । चतुर्मुखकैमलवासिभि-
९६
दर्शनानि तेषामवलोकनानि
।
ज्ञानलोचनेनाखिलं समग्रं जगद्विष्टपमालोकयतां पश्यतां भगवतां माहात्म्यवतामेवंविधानां पूर्वोक्तगुणविशि-
ष्टानाम् । हि निश्चितम् । अघक्षयकारिणां पापविनाशकानाम् । महामुनीनामिति । महातपस्विनां नाम-
ग्रहणान्यप्यभिधानोञ्चारणमात्राण्यप्यायुर्घृतमितिवत्कारणकार्योपचारात्पुण्यानि पुण्यजनकानि । दर्शनानीति ।
समग्रपापापहारकाणीत्यर्थे किं पुनर्भण्यते । अवश्यं तदपहारकाणीत्यर्थः ।
धन्यमिति । इदं प्रत्यक्षमाश्रमपदं मुनिस्थानं धन्यं कृतपुण्यम् । अत्रार्थे हेतुमाह — यत्रेति । यस्मिन्ना-
श्रमपदेऽयं महान्मुनिरधिपतिर्नेता । अथवेति पक्षान्तरे । अवनीति । अवनितलकमलयोनिना भुवन-
तलब्रह्मणानेन प्रत्यक्षोपलभ्यमानेन मुनिनाधिष्ठितमाश्रितं भुवनतलमेव जगतीतलमेव धन्यं कृतपुण्यम् ।
'सुकृती पुण्यवान्धन्यः' इति हैमः । आश्रमस्य तदन्तः पातित्वादिति भावः । तच्छिष्याणां धन्यतां प्रति-
पादयन्नाह – पुण्येति । खलु निश्चयेन । अमी मुनयः पुण्यभाजः सुकृतभाजः । यदिति हेत्वर्थे । अहर्निशं
प्रत्यहमपरमिवान्यमिव नलिनासनं कमलयोनिं समुपासते सेवां कुर्वते । तानेव शिष्यान्विशिनष्टि — अपेति ।
अपगतो दूरीभूतोऽम्यव्यापारस्तदितरकार्यं येभ्यस्ते तथा । मुखेति । मुखस्य वदनस्य अर्थान्मुनेरिति शेषः ।
तस्य यदवलोकनं निरीक्षणं तेन निश्चला निमेषरहिता दृष्टिर्येषां ते तथा । किं कुर्वन्तः । पुण्याः पवित्राः
कथाः किंवदन्तीः शृण्वन्त आकर्णयन्तः । तद्वदनगतायाः सरस्वत्याः श्लाघां कुर्वन्नाह - सरस्वतीति ।
सरस्वत्यपि भारत्यपि धन्या श्लाघ्या । तु पुनरर्थे । या अस्य मुनेर्मुखमेव कमलं नलिनं तस्य संपर्क संबन्ध-
मनुभवन्ती साक्षात्कुर्वन्ती मानसे मनसि निवसति निवासं करोति । उभयोः साम्यमाह - हंसीति । यथा
मानसे सरसि हंसी मराली निवसति तथेयमपीत्यर्थः । अत्र प्रसन्नेत्यादिविशेषणानि मानसे मनसि सरसि च
स्वबुद्ध्या योजनीयानि । अतीति । अतिशयेन प्रसन्ने प्रसाद गुणयुक्ते । करुणेति । करुणा परदुःखप्रहाणेच्छा
सैव जलं तस्य तयोर्वा निस्यन्दिनि स्राविण । अगाधेति । अगाधमतलस्पर्श गाम्भीर्यं गम्भीरता यस्मिन् ।
रुचिरेति । रुचिरा मनोज्ञा ये द्विजा दन्तास्त एव परिवारः परिच्छदो यस्याः सेति भारत्या विशेषणम् । चतु-
"
टिप्प० - 1 अमरकोष एव प्रसिद्धोयं पाठः । 2 मुखं कमलमिव इत्युपमितसमासो योग्यः ।
मयूरव्यं सकसमासे तु उत्तरपदार्थस्य कमलस्य प्राधान्ये रूपकं स्यात् । तथा सति च ' हंसीव' इति कवेर-
भीष्टा प्रधानभूतोपमा न संगच्छेत । तस्मात् - "रुचिराः सुन्दराः द्विजाः शिष्यभूता ब्राह्मणाः पक्षिणश्च
( हंसाद्याः ) परिवारा यस्याः सा, या सरस्वती राजहंसीव, मुखं कमलमिव तस्य संपर्क सुखमनुभवन्ती
सती अतिप्रसन्ने अत्यन्तानुग्रहकारके अतिशयनिर्मले च, करुणा जलमिव तस्य निस्यन्दिनि स्राविणि, अ.
गाधम् इयत्तारहितम् अतलस्पर्श च, गाम्भीर्य दुरवगाहस्वभावत्वं गभीरता च यस्य तस्मिन् अस्य
( जाबाले: ) मानसे मनसि मानससरोवरे च, सततं निवसति" इति व्याख्यया पूर्णोपमालंकारो नि-
वह्यः ।
9
घाठा० -१ कारणानि पुण्यानि नाम; करणानि पुण्यानि नाम २ मुनीनाम् ३ मुखकमलावलोकन. ४ पर्यु-
पासते. ५ यदस्मिन्; या तु. ६ परिवारे; कुलपरिचये. ७ कमले. ८ संपर्कसुखम् ९ राजहंसीव १० मुखकमल.