2023-11-09 17:24:31 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

पूर्वभागः ।
 
जाबालि: ]
मिव [^१]रुद्राक्षवलयग्रहणनिपुणम्, शिशिरसमयसूर्यमिव कृतोत्तरासङ्गम् वर्, [^२]वडवानलमि
व [^३]संततपयोर्भे[^४]भक्षम्, शून्यनगरमिव दीनानाथविपन्नशरणम्, पशुपतिमिव भस्मपाण्डु- रोमाश्लिष्ठ-
शरीरं भगवन्तं जाबालिमपश्यम् ।
 

 
अवलोक्य चाहमचिन्तयम्- 'अहो प्रभावस्तपसाम् । इयमस्य शान्तापि मूर्तिरुत्तप्तकन-
कावदाता परिस्फुरन्ती सौदामिनीव चक्षुषः प्रतिहन्ति तेजांसि । सततमुदासीनापि महा-
प्रभावतया भयमिवोपजनयति प्रथमोपगतस्य । शुष्कनलकाशकुसुमनिपै- [^५]निपतितानलचटुलवृत्ति
नित्यमसहिष्णु तपस्विनां [^६]तनु- तपसामपि तेजः प्रकृत्या भँ[^७]भवति । किमुत सकलर् [^८]भु- वनतलन्दि-
तचरणानामनवरतते [^९]तपःक्षपितमलानां [^१०]करतलामले [^११]मलकवदखिलं जगदालोकयतां दिव्येन चक्षुषा
 

 
[ टि ]--
तस्य ग्रहणं पिधानं तत्र निपुणं चतुरम् । रते चन्द्रकला- प्रकाशस्यानिवार्यत्वेन लज्जावशात्पार्वत्या तृतीयं लोचनं
करतलेन पिहितमिति भावः । शिशिरेति । शिशिरसमयः शीतकालस्तस्य यः सूर्यो भगवांस्तद्वदिव कृतो
विहित उत्तरासङ्गो बृह [^1]तिका येन स तम् । पक्ष उत्तरस्या दिशः सङ्गः संश्लेषो येनेति विग्रहः । बडवेति ।
बडवानल और्वस्तमिव संततं निरन्तरं पय एव क्षीरमेव भक्षं यस्य स तम् । पक्षे पयः पानीयं तदेव भक्षं
यस्येति भावः । शून्येति । शून्यमुद्सितं यन्नगरं पुरं तद्वदिव । शून्ये धनिनां निवासायोग्यत्वाद्दीनादि-
ग्रहणम् । तत्र दीनान्यशोभावन्त्यना- थान्यप्रभूणि विपन्नान्यविद्य [^2]मानभावानि शरणानि गृहाणि यत्र नगर
इति । अन्यत्र दीना दुःखाभिभूता अनाथाः स्वामिरहिता विपन्ना इव विपन्ना मृतकल्पा व्याध्यादिपरिभूतास्तेषां
शरणं परित्राणहेतुम् । पशुपतिमिवेति । पशुपतिः शंभुस्तमिव भस्म- वत्पाण्डुराण्यतिवार्धक्याच्छ्रेवेतानि
रोमाणि तैराश्लिष्टं शरीरं यस्य तम् । पक्षे भस्मवत्पाण्डुरोमा गौरी तया चाश्लिष्टमर्धाङ्गीकृतं शरीरं यस्येति
विग्रहः । अन्वयस्तु प्रागेवोक्तः ।
 

 
जाबालिं निरीक्ष्य किं कृतवानित्याह - अवलोक्येति । अवलोक्य निरीक्ष्य । च पुनरर्थे । अहम
चिन्तयमेवं विचारितवान् । चिन्ता त्वेनं चिन्तयन्तमेव मामित्यवधिकम् । तामेवाह - अहो इत्याश्चर्ये ।

तपसां प्रभावो माहात्म्यम् । इयमस्य मुनेः शान्तापि मूर्तिः शरीरमुत्प्राबल्येन तप्तमुष्णीकृतं यत्कनकं
सुवर्णं तद्वदवदाता निर्मला परिस्फुरन्ती देदीप्यमाना सौदामिनीव विद्युदिव चक्षुषो नेत्रस्य तेजांसि
महांसि प्रतिहन्ति प्रतिघातं करोति । आभिमुख्येन गच्छन्तीनां नयनरश्मीनां बलवद्वेगसौदामिनीते-
जसा प्रतिनिवृत्ति- रनुभवसिद्धैवेति भावः । इदं स्वभाववर्णनम् । विरोधोऽपि शान्त- स्योत्तप्तकनकावदाततेति
विरोधः । सततेति । सततं निरन्तर- मुदासीनापि मध्यस्थापि महाप्रभावतयात्युग्रप्रतापतया प्रथमोपग-

तस्यापूर्वागतस्य भयमिव भीतिमिवोपजनयति । अन्येषां करो- तीत्यर्थः । अत्रापि मध्यस्थस्य भयोत्पादकत्व-
मिति विरोधः । उभयत्रोत्प्रेक्षा । शुष्केति । तनु स्वल्पं तपो येषां तेषामपि तपखिस्विनां तेजो नित्यं सर्वदा
प्रकृत्या स्वभावेनासहिष्ण्वसहनशीलं भवति । कीदृशम् । शुष्काणि यानि नलकाशकुसुमानि तत्र निपतितो

योऽनलो वहिह्निस्तद्वच्चटुला त्वरिता वृत्तिर्यस्य तत् । एतस्य पर्यव- सितार्थमाह - किमुतेति । एवंविधानाम-
क्षयकारिणां पापविनाश- कर्तॄणां किमुत किमाश्चर्यम् । अथ तानेव विशिष्टि - सकलेति । सकलभुवन-
तलैर्वन्दितानि नमस्कृतानि चरणानि येषां ते तथा तेषाम् । अनवरतेति । अनवरतं तपसा क्षपिताः क्षयं
प्रापिता मलाः पापानि यैस्ते तथा तेषाम् । करतलेति । करतलामलकवत्पाणि- स्थधात्रीफलवद्दिव्येन चक्षुषा
 
टिप्प० -

 
[^
1]F. उत्तरीयवस्त्रमित्यर्थः ।
[^
2]F.न्ग्नानीत्याशयः ।
[^
3]F. भस्मना पाण्डुरं च उमया माआश्लिष्टं
च शरीरं यस्य तमित्यर्थ उचितः ।
 
पाठा० -

 
[^
]G. रुद्राक्षग्रहण.
[^
]G. और्वानलम् .
[^
]G. सतत .
[^
]G. भक्ष्यम्.
[^
]G. निपतिता चटुल, .
[^
]G. प्रतनु.
[^
]G. दुःसहं भवति.

[^
]G. भुवनवन्दित .
[^
]G. तपः सलिलक्षालित.
[^
१०]G. करकमलतल.
[^
११]G. आमलकफल.