कादम्बरी /128
This page has not been fully proofread.
पूर्वभागः ।
जाबालि: ]
मिव रुद्राक्षवलयग्रहणनिपुणम् शिशिरसमयसूर्यमिव कृतोत्तरासङ्गम् वर्डवानलमिष
संततपयोर्भेक्षम्, शून्यनगरमिव दीनानाथविपन्नशरणम्, पशुपतिमिव भस्मपाण्डुरोमालिष्ठ-
शरीरं भगवन्तं जाबालिमपश्यम् ।
अवलोक्य चाहमचिन्तयम्- 'अहो प्रभावस्तपसाम् । इयमस्य शान्तापि मूर्तिरुत्तप्तकन-
कावदाता परिस्फुरन्ती सौदामिनीव चक्षुषः प्रतिहन्ति तेजांसि । सततमुदासीनापि महा-
प्रभावतया भयमिवोपजनयति प्रथमोपगतस्य । शुष्कनलकाशकुसुमनिपैतितानलचटुलवृत्ति
नित्यमसहिष्णु तपस्विनां तनुतपसामपि तेजः प्रकृत्या भँवति । किमुत सकलर्भुवनतलबन्दि-
तचरणानामनवरततेपःक्षपितमलानां करतलामले कवदखिलं जगदालोकयतां दिव्येन चक्षुषा
तस्य ग्रहणं पिधानं तत्र निपुणं चतुरम् । रते चन्द्रकला प्रकाशस्यानिवार्यत्वेन लज्जावशात्पावत्या तृतीयं लोचनं
करतलेन पिहितमिति भावः । शिशिरेति । शिशिरसमयः शीतकालस्तस्य यः सूर्यो भगवांस्तद्वदिव कृतो
विहित उत्तरासङ्गो बृहतिका येन स तम् । पक्ष उत्तरस्या दिशः सङ्गः संश्लेषो येनेति विग्रहः । बडवेति ।
बडवानल और्वस्तमिव संततं निरन्तरं पय एव क्षीरमेव भक्षं यस्य स तम् । पक्षे पयः पानीयं तदेव भक्षं
यस्येति भावः । शून्येति । शून्यमुद्रसितं यन्नगरं पुरं तद्वदिव । शून्ये धनिनां निवासायोग्यत्वाद्दीनादि-
ग्रहणम् । तत्र दीनान्यशोभावन्त्यनाथान्यप्रभूणि विपन्नान्यविद्यमानभावानि शरणानि गृहाणि यत्र नगर
इति । अन्यत्र दीना दुःखाभिभूता अनाथाः स्वामिरहिता विपन्ना इव विपन्ना मृतकल्पा व्याध्यादिपरिभूतास्तेषां
शरणं परित्राणहेतुम् । पशुपतिमिवेति । पशुपतिः शंभुस्तमिव भस्मवत्पाण्डुराण्यतिवार्धक्याच्छ्रेतानि
रोमाणि तैराश्लिष्टं शरीरं यस्य तम् । पक्षे भस्मवत्पाण्डुरोमा गौरी तया चाश्लिष्टमर्धाङ्गीकृतं शरीरं यस्येति
विग्रहः । अन्वयस्तु प्रागेवोक्तः ।
जाबालिं निरीक्ष्य किं कृतवानित्याह - अवलोक्येति । अवलोक्य निरीक्ष्य । च पुनरर्थे । अहम
चिन्तयमेवं विचारितवान् । चिन्ता त्वेनं चिन्तयन्तमेव मामित्यवधिकम् । तामेवाह - अहो इत्याश्चर्ये ।
तपसां प्रभावो माहात्म्यम् । इयमस्य मुनेः शान्तापि मूर्तिः शरीरमुत्प्राबल्येन तप्तमुष्णीकृतं यत्कनकं
सुवर्ण तद्वदवदाता निर्मला परिस्फुरन्ती देदीप्यमाना सौदामिनीव विद्युदिव चक्षुषो नेत्रस्य तेजांसि
महांसि प्रतिहन्ति प्रतिघातं करोति । आभिमुख्येन गच्छन्तीनां नयनरश्मीनां बलवद्वेगसौदामिनीते-
जसा प्रतिनिवृत्तिरनुभवसिद्धैवेति भावः । इदं स्वभाववर्णनम् । विरोधोऽपि शान्तस्योत्तप्तकनकावदाततेति
विरोधः । सततेति । सततं निरन्तरमुदासीनापि मध्यस्थापि महाप्रभावतयात्युग्रप्रतापतया प्रथमोपग-
तस्यापूर्वागतस्य भयमिव भीतिमिवोपजनयति । अन्येषां करोतीत्यर्थः । अत्रापि मध्यस्थस्य भयोत्पादकत्व-
मिति विरोधः । उभयत्रोत्प्रेक्षा । शुष्केति । तनु स्वल्पं तपो येषां तेषामपि तपखिनां तेजो नित्यं सर्वदा
प्रकृत्या स्वभावेनासहिष्ण्वसहनशीलं भवति । कीदृशम् । शुष्काणि यानि नलकाशकुसुमानि तत्र निपतितो
योऽनलो वहिस्तद्वच्चटुला त्वरिता वृत्तिर्यस्य तत् । एतस्य पर्यवसितार्थमाह - किमुतेति । एवंविधानाम-
क्षयकारिणां पापविनाशकर्तॄणां किमुत किमाश्चर्यम् । अथ तानेव विशिष्टि - सकलेति । सकलभुवन-
तलैर्वन्दितानि नमस्कृतानि चरणानि येषां ते तथा तेषाम् । अनवरतेति । अनवरतं तपसा क्षपिताः क्षयं
प्रापिता मलाः पापानि यैस्ते तथा तेषाम् । करतलेति । करतलामलकवत्पाणिस्थधात्रीफलवद्दिव्येन चक्षुषा
टिप्प० - 1 उत्तरीयवस्त्रमित्यर्थः । 2 भन्नानीत्याशयः । 3 भस्मना पाण्डुरं च उमया मालिष्टं
च शरीरं यस्य तमित्यर्थ उचितः ।
पाठा० -१ रुद्राक्षग्रहण. २ और्वानलम् ३ सतत ४ भक्ष्यम्. ५ निपतिता चटुल, ६ प्रतनु. ७ दुःसहं भवति.
८ भुवनवन्दित ९ तपः सलिलक्षालित. १० करकमलतल. ११ आमलकफल.