कादम्बरी /127
This page has not been fully proofread.
कादम्बरी ।
[ कथामुखे-
सरोजलक्षालितशुचिना दुकूलवल्कलेन द्वितीयेनेव जराजालकेन संच्छादितम्, आसन्नव-
र्तिना मन्दाकिनीसलिलपूर्णेन त्रिदण्डोपविष्टेन रैफाटिककमण्डलुना विकचपुण्डरीकराशिमिव
राजहंसेनोपशोभमानम्, स्थैर्येणाचलानां गाम्भीर्येण सागराणां तेजसा सवितुः प्रशमेन
तुषाररश्मेर्निर्मलतयाम्बरतलस्य संविभागमिव कुर्वाणम्, वैनतेयमिव स्वप्रभावोपात्तद्विजाधि-
पत्यम्, कमलासनमिवाश्रमगुरुम्, जरचन्दनतरुमिव भुजंगनिर्मोकधवलजटाकुलम्, प्रश-
स्तवारणपतिमिव प्रलम्बकर्णवालम्, बृहस्पतिमिव जन्मसंवर्धितकचम्, दिवसमिवोद्यदर्कबि-
म्यभाखरमुखम्, शरत्कालमिव क्षीणवर्षम्, शन्तनुमिव प्रियसत्यवतम्, अम्बिकाकरतल-
-
।
विशिनष्टि -- आसन्नेति । आसन्नवर्तिना समीपस्थेन । मन्दाकिनीति । मन्दाकिनी गङ्गा तस्याः सलिलं
तेन पूर्णेन भृतेन । त्रिदण्डेति । त्रिदण्डस्निपादिका तत्रोपविष्टेन स्थापितेन । मुनेर्धवलीकृतविग्रहवत्त्व-
वर्णनात्कमण्डलोश्च शुभ्रत्ववर्णनात्तदुपमानमाह — विकचेति । राजहंसेन विकचपुण्डरीकराशिमिव स्मित-
सिताम्भोजसमूहमिवेत्युत्प्रेक्षा । पुनर्मुनिं प्रकारान्तरेण विशिष्टि - स्थैर्येति । स्थैर्ये स्थानां
पर्बतानाम्, गाम्भीर्येण गाम्भीर्यगुणेन सागराणां समुद्राणाम्, तेजसा प्रतापेन सवितुः सूर्यस्य, प्रशमेनोपश-
मेन तुषाररश्मेश्चन्द्रस्य, निर्मलतया स्वच्छतयाम्बरतलस्य संविभागमिव स्वकीयवस्तुनः परेभ्यः किंचिद्वि-
भज्य प्रदानमिव कुर्वाणं विदधानम् । अचलादीनां स्थैर्यादयो गुणा अनेनैव संविभागीकृताः सन्तीति भावः ।
अथान्यसादृश्यद्वारा तमेव विशेषयन्नाह – वैनतेयमिति । वैनतेयो गरुडस्तद्वदिव स्वस्यात्मीयस्य यः प्रभावो
माहात्म्यं तेनोपात्तमङ्गीकृतं द्विजेषु ब्राह्मणेष्वाधिपत्यं प्रभुत्वं येन स तम् । पक्षे द्विजेषु पतत्रिष्वाधिपत्यं
मुख्यत्वं येनेति विग्रहः । कमलेति । कमलासनो ब्रह्मा तमिवाश्रमो मुनिस्थानं तत्र गुरुं श्रेष्ठम् । पक्ष आश्रमा
ब्रह्मचारिप्रभृतयस्तेषां गुरुं प्रवर्तकम् । वर्णाश्रमाच ब्रह्मणैव प्रवर्तिताः । जरदिति । पुरातने परिमलविशेषा-
धिक्याजरद्विशिष्टचन्दनतरुग्रहणम् । तत्रैव भुजंगबाहुल्यम् । अत एव भुजंगस्य यो निर्मोकः कञ्चुकस्तद्वद्ध-
बला या जटा तयाकुलं व्याप्तम् । पक्षे निर्मोक एव जटेति विग्रहः । शेषं पूर्ववत् । प्रशस्तेति । प्रशस्तः
सर्वलक्षणोपेतो वारणपतिर्गजनायकस्तद्वदिव प्रलम्बाः कर्णयोर्बालाः केशा यस्येति विग्रहः । पक्षे प्रलम्बौ
लम्बमानौ कर्णौ श्रवणौ वालश्च वालधिर्यस्मिन् । बृहस्पतीति । बृहस्पतिः सुरगुरुस्तमिव आजन्म जन्म
मर्यादीकृत्य संवर्धिता वृद्धिं प्रापिताः केचाः केशा येनेति स तम् । पक्षे कचनामा बृहस्पतेः पुत्र इति पुराणे
प्रसिद्धम् । शेषं पूर्ववत् । दिवसेति । दिवसो घस्रस्तद्वदिवोद्यदुद्गच्छद्यदर्कबिम्बं सूर्यमण्डलं तद्वद्भाखरं दीप्तं
मुखमाननं यस्य स तम् । पक्ष उद्यदर्कबिम्बेन भास्वरं मुखमादिर्यस्येति विग्रहः । तन्विति । शरत्कालो
घनात्ययसमयस्तद्वदिव क्षीणानि गतानि वर्षाणि हायनानि यस्य स तम् । पक्षे क्षीणं स्वल्पत्वं प्राप्तं वर्ष
वृष्टिर्यस्मिन् । शन्तन्विति । शन्तनुभष्मपिता तद्वदिव प्रियमिष्टं सत्यमेव व्रतं यस्य स तम् । पक्षे प्रियो
बल्लभः सत्यव्रतो भीष्मो यस्येति विग्रहः । कथा चात्र - श्रीमन्महाभारतगतानुसंधेया । अम्बिकेति ।
अम्बिका पार्वती तस्याः करतलं पाणितलं तद्वदिव रुद्राक्षः फलविशेषस्तद्वलयस्य कटकस्य यद्रहणं तत्र निपु-
णम् । सर्वदा तदावर्तनेन कृताभ्यासमित्यर्थः । पक्षे रुद्र ईश्वरस्तस्याक्षमिन्द्रियं लोचनं वर्तुत्वात्तदेव यद्वलयं
-
टिप्प० -- 1 'रुद्राक्षग्रहणनिपुणम्' इत्येव पाठः । अम्बिकाकरतलपक्षे - 'रुद्रस्य अक्षिणी रुद्राक्षे
( शिव-नयने ) तयोर्ब्रहणे पिधाने निपुणम्' इत्यर्थे वलयपदस्य वस्तुतः स्वारस्याभावात् ।
पाठा०- -१ क्षालन. २ द्वितीयेन. ३ स्फटिक. ४ कमल, ५ अवनेः स्थैर्येण सागराणां गाम्भीर्येण ६ सकल-
द्विजा, ७ भुजग. ८. वारणमिव ९ कर्णतालम्.