2023-11-09 05:31:45 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

जाबालि: ]
 
पूर्वभागः ।
 
९३
 
चपलाना [^१]मिन्द्रियाश्वानामन्तः संयम नरज्जुभिरिवातताभिः
 

कण्ठनाडीभिर्निरन्तराव
ने
[^२]नद्धकन्थरं
 
[^३]समुन्नत विरला- स्थिपञ्जरमंसा [^४]वलम्बि [^५]यज्ञोपवीतं [^६]वायुवरा नितनित- तनुतरंगभङ्गमुत्प्लवमान [^८]मृणाल-
मिव मन्दाकिनीप्रवाह- मकलुषमङ्ग मुद्वहन्तम्, अमलस्फटिक [^८]शकलंघटित- मक्षवलय [^९]मत्युजवल-
ज्ज्वलस्थूलमुक्ताफलप्रथितं सरस्वतीहारमिव चलदङ्गुलिविवरगतमावर्तयन्तम्, अनवरत [^१०]भ्रमितता-

रकाच क्रमपरमिव ध्रुवम्, [^११]उन्नैमता शिराजालकेफेन जरत्कल्प- तरुमिव परिणतलतासंचयेन निम-
रन्तरनिचितम्, [^१२]अमलेन चन्द्रांशुभिरिवामृतफेनैरिव गुणसंतानतन्तुभिरिव निर्मितेन मानस-

 

 
[ टि ]--
स्तत् । अतीति । अतिचपलानामतिपारिप्लवाना- मिन्द्रियाश्वानां करणतुरंगमानामन्तर्मध्ये संयमनरज्जुभि [^1]रिव

नियन्त्रणरश्मिभिरिवातताभिर्विस्तीर्णाभिः कण्ठनाडीभिर्गलस्नायु-
भिरिव निरन्तरं अवनद्धा संबद्धा कन्धरा ग्रीवा
यस्मिन्नेवंविध- मकलुषं निर्मलमङ्गं शरीरमुद्वहन्तं धारयन्तम् । समुन्नतेति । समुन्नतमुच्चं विरलं पेलवमस्थिप -
ञ्जरं कङ्कालं यस्मिंस्तत्तथा । अंसेति । अंसावलम्बि भुजान्तरावलम्बि यज्ञोपवीतं यज्ञसूत्रं यस्मिन् । वायु-
वशेनेति । वायुवशेनानिलमाहात्म्येन जनिता उत्पादिता- स्तनवः सूक्ष्मास्तरंगभङ्गाः कल्लोलविघटनानि यस्मिन् ।

उत्प्लवेति । उत्प्राबल्येन प्लवमानानि वहमानानि मृणालानि बिसानि यस्मिन्नेवंभूतं मन्दाकिनीप्रवाहमिव
गङ्गौघ [^2]मिव । अत्र तरंगास्भोःथ्नो: श्वेतकृशत्वं यज्ञोपवीतमृणालयोश्च श्वेतसूक्ष्मत्वं साधर्म्यमिति भावः । कि
किं कुर्वन्तम् । अक्षवलयं रुद्राक्षमाला- मावर्तयन्तं परिवर्तयन्तम् । अथाक्षवलयस्य विशेषणे –अमलेति । अमलानि
विशदानि यानि स्फटिकशकलानि तैर्घटितं निर्मितम् । अत्युज्ज्वलेति । अत्युज्ज्वलान्यतिविशदानि स्थूलानि
यानि मुक्ताफलानि मौक्तिकानि तैर्मथितं गुम्फितं सरस्वतीहारमिव सरस्वत्या भारत्या हारमिव मुक्ताकलाप -
मिव । अत्र स्फटिकाक्ष- वलयस्यातिनिर्मलत्वान्मुक्ताफलोपमानम् । चलेति । चलन्त्यो या अङ्गुलयस्तासां विवरं
रन्ध्रं तत्र गतं प्राप्तम् । अनवरतेति । अनवरतं निरन्तरं भ्रमितं पर्यटितं तारकाचक्रं नक्षत्रसमूहो यस्मि-
ने॒

न्ने
वंभूतमपरं द्वितीयं ध्रुवमिवोत्तानपादजमिव । अत्र स्फाटिकाक्ष- वलयतारकाणां शुचिर्तुलत्वमेव साधर्म्यम् ।
उपविष्टस्य मुनेः स्थिरत्वाद्भुवसाधर्म्यमिति । पुनर्विशिनष्टि - उन्नमतेति । उन्नमतो- परि स्फुरता शिराजा-
लकेन शिरा धमनस्तासां जालकेन समूहेन निरन्तरं निचितं व्याप्तम् । उच्छूनस्नायुसमूहेनात्यन्तव्याप्तवि-

ग्रहमित्यर्थः । केन कमिव । परिणताः पाकं गता या लता वल्लय- स्तासां संचयेन समूहेन । निचितमिति
शेषः । जरत्कल्पतरुमिव वृद्धमन्दारमिवेत्युत्प्रेक्षा । अमलेनेति । अमलेन निर्मलेन दुकूल- वल्कलेन । दुकूलेन
सदृशं वल्कलमिति मध्यमपदलोपी समासः । तेन संच्छादितमावृतम् । केनेव । अद्वितीयेनापूर्वेण
जराजालकेनेव विस्रसासमूहेनेवेत्युत्प्रेक्षा । दुकूलवल्कलं विशिष्टि - चन्द्रेति । चन्द्रांशुभिरिव शशिज्यो-
त्स्नाभिरिवामृतफेनैरिव पीयूषडिण्डी रैरिव गुणानां विद्यातपश्चरणादीनां संतानाः समूहास्त एव तन्तवः

सूत्राणि तैरिव निर्मितेन रचितेन । मानसेति । मानससरोजलवज्जलं तेन क्षालितं धौतमत एव शुचिना
निर्मलेन । पुनस्तमेव मुनिं विशिनष्टि - स्फाटिककमण्डलुनोपशोभमानं विराजमानम् । अथ कमण्डलुं
 
टिप्प० -

 
[^
1]F. 'इव' इत्यसंबद्धमेवात्र ।
[^
2]F. अत्र तादृशकुटिल - तनु- तरङ्गसदृशम् अस्थिपञ्जरम्,

जलोपरिष्ठप्लवमाननवमृणालसदृशं च यज्ञोपवीतमिति मन्दाकिनी- प्रवाहेण सादृश्यम् । उपमा ।
[^
3]F. 'द्विती-
येनेव इत्येव पाठ उचितः । एकेन जराजालकेन तु जाबालिराच्छादित एव, वल्कलरूपेण द्वितीयेन
जराजालकेन स भा
च्छादित इति वक्तुरभिप्रायः ।
 

 
पाठा० -

 
[^
]G. इन्द्रियाणाम् .
[^
]G. संबद्ध .
[^
]G. उन्नत .
[^
]G. अवलम्बित; आलग्म्बित .
[^
]G. धवलयज्ञोपवीतम्.
[^
अनिल.
]G. अनिल.
[^
]G. नवमृणाल, .
[^
]G. घटिताक्ष.
[^
]G. उज्ज्वल, .
[^
१० तारक. ]G. तारक.
[^
११]G. उल्लसता.
[^
१२]G. अमलैः,
 
.