This page has not been fully proofread.

जाबालि: ]
 
पूर्वभागः ।
 
९३
 
चपलानामिन्द्रियाश्वानामन्तः संयम नरज्जुभिरिवातताभिः
 
कण्ठनाडीभिर्निरन्तराव
नेद्धकन्थरं
 
समुन्नत विरलास्थिपञ्जरमंसावलम्बियज्ञोपवीतं वयुवराज निततनुतरंगभङ्गमुत्लवमानमृणाल-
मिव मन्दाकिनीप्रवाहम कलुषमङ्ग मुद्वहन्तम्, अमलस्फटिक शकलंघटितमक्षवलय मत्युजवल-
स्थूलमुक्ताफलप्रथितं सरस्वतीहारमिव चलदङ्गुलिविवरगतमावर्तयन्तम्, अनवरतभ्रमितता-
रकाच क्रमपरमिव ध्रुवम्, उन्नैमता शिराजालकेन जरत्कल्पतरुमिव परिणतलतासंचयेन निम-
रन्तरनिचितम्, अमलेन चन्द्रांशुभिरिवामृतफेनैरिव गुणसंतानतन्तुभिरिव निर्मितेन मानस-

 
स्तत् । अतीति । अतिचपलानामतिपारिप्लवानामिन्द्रियाश्वानां करणतुरंगमानामन्तर्मध्ये संयमनरज्जुभिरिव
नियन्त्रणरश्मिभिरिवातताभिर्विस्तीर्णाभिः कण्ठनाडीभिर्गलस्नायुभिरिव निरन्तरं अवनद्धा संबद्धा कन्धरा ग्रीवा
यस्मिन्नेवंविधमकलुषं निर्मल शरीरमुद्वहन्तं धारयन्तम् । समुन्नतेति । समुन्नतमुच विरलं पेलवमस्थिप -
अरं कङ्कालं यस्मिंस्तत्तथा । अंसेति । अंसावलम्बि भुजान्तरावलम्बि यज्ञोपवीतं यज्ञसूत्रं यस्मिन् । वायु-
वशेनेति । वायुवशेनानिलमाहात्म्येन जनिता उत्पादितास्तनवः सूक्ष्मास्तरंगभङ्गाः कल्लोलविघटनानि यस्मिन् ।
उत्प्लवेति । उत्प्राबल्येन प्लवमानानि वहमानानि मृणालानि बिसानि यस्मिन्नेवंभूतं मन्दाकिनीप्रवाहमिव
गौघमिव । अत्र तरंगास्भोः श्वेतकृशत्वं यज्ञोपवीतमृणालयोश्च श्वेतसूक्ष्मत्वं साधर्म्यमिति भावः । कि
कुर्वन्तम् । अक्षवलयं रुद्राक्षमालामावर्तयन्तं परिवर्तयन्तम् । अथाक्षवलयस्य विशेषणे –अमलेति । अमलानि
विशदानि यानि स्फटिकशकलानि तैर्घटितं निर्मितम् । अत्युजवलेति । अत्युज्वलान्यतिविशदानि स्थूलानि
यानि मुक्ताफलानि मौक्तिकानि तैर्मथितं गुम्फितं सरस्वतीहारमिव सरस्वत्या भारत्या हारमिव मुक्ताकलाप -
मिव । अत्र स्फटिकाक्षवलयस्यातिनिर्मलत्वान्मुक्ताफलोपमानम् । चलेति । चलन्त्यो या अङ्गुलयस्तासां विवरं
रन्ध्रं तत्र गतं प्राप्तम् । अनवरतेति । अनवरतं निरन्तरं भ्रमितं पर्यटितं तारकाचक्रं नक्षत्रसमूहो यस्मि-
ने॒वंभूतमपरं द्वितीयं ध्रुवमिवोत्तानपादजमिव । अत्र स्फाटिकाक्षवलयतारकाणां शुचिर्तुलत्वमेव साधर्म्यम् ।
उपविष्टस्य मुनेः स्थिरत्वाद्भुवसाधर्म्यमिति । पुनर्विशिनष्टि - उन्नमतेति । उन्नमतोपरि स्फुरता शिराजा-
लकेन शिरा धमनस्तासां जालकेन समूहेन निरन्तरं निचितं व्याप्तम् । उच्छूनस्नायुसमूहेनात्यन्तव्याप्तवि-
ग्रहमित्यर्थः । केन कमिव । परिणताः पाकं गता या लता वल्लयस्तासां संचयेन समूहेन । निचितमिति
शेषः । जरत्कल्पतरुमिव वृद्धमन्दारमिवेत्युत्प्रेक्षा । अमलेनेति । अमलेन निर्मलेन दुकूलवल्कलेन । दुकूलेन
सदृशं वल्कलमिति मध्यमपदलोपी समासः । तेन संच्छादितमावृतम् । केनेव । अद्वितीयेनापूर्वेण
जराजालकेनेव विस्रसासमूहेनेवेत्युत्प्रेक्षा । दुकूलवल्कलं विशिष्टि - चन्द्रेति । चन्द्रांशुभिरिव शशिज्यो-
त्स्नाभिरिवामृतफेनैरिव पीयूषडिण्डी रैरिव गुणानां विद्यातपश्चरणादीनां संतानाः समूहास्त एव तन्तवः
सूत्राणि तैरिव निर्मितेन रचितेन । मानसेति । मानससरोजलवज्जलं तेन क्षालितं धौतमत एव शुचिना
निर्मलेन । पुनस्तमेव मुनिं विशिनष्टि - स्फाटिककमण्डलुनोपशोभमानं विराजमानम् । अथ कमण्डलुं
 
टिप्प० - 1 'इव' इत्यसंबद्धमेवात्र । 2 अत्र तादृशकुटिल - तनु- तरङ्गसदृशम् अस्थिपअरम्,
जलोपरिष्ठवमाननवमृणालसदृशं च यज्ञोपवीतमिति मन्दाकिनीप्रवाहेण सादृश्यम् । उपमा । 3 'द्विती-
येनेव इत्येव पाठ उचितः । एकेन जराजालकेन तु जाबालिराच्छादित एव, वल्कलरूपेण द्वितीयेन
जराजालकेन स भाच्छादित इति वक्तुरभिप्रायः ।
 

 
पाठा० -१ इन्द्रियाणाम् २ संबद्ध ३ उन्नत ४ अवलम्बित; आलग्बित ५ धवलयज्ञोपवीतम्. ६ अनिल.
७ नवमृणाल, ८ घटिताक्ष. ९ उज्ज्वल, १० तारक. ११ उल्लसता. १२ अमलैः,