2023-11-09 05:11:46 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

तरोः कुसुममञ्जरीभिरिवोद्गताभिर्जटाभि [^१]रुपशोभितम्, उपरचितभस्मत्रिपुण्ड्रकेण तिर्यक्प्रवृत्तत्रि [^२]पथगास्रोत- [^३]स्त्रयेण हिमगिरिशिला [^४]तलेनेव ललाट [^५]फलके- नोपेतम्, अधोमुखचन्द्रकलाकाराभ्यामवलम्बितवलिशिथिलाभ्यां भ्रूलताभ्यामवष्टभ्यमानदृष्टिम्, अनवरत [^६]मन्त्राक्षराभ्यासवि-
वृताधरपुटतया निष्पतद्भिरतिशुचिभिः सत्यप्ररोहैरिव स्वच्छेन्द्रियवृत्तिभिरिव [^७]करुणारसप्रवाहैरिव दशनमयूखै- र्धवलितपुरोभागम्, उद्वमदमलगङ्गाप्रवाहमिव जह्नुम्,[^८]अनवरतसोमोद्गारसुगन्धिनिश्वासावकृष्टर्मूर्ति [^९]मद्भिः शापाक्षरैरिव सदा मुख [^१०]भागसंनिहितैः परिस्फुरद्भिरलिभिर-
विरहितम्, अतिकृशतया निम्नतरगण्डगत [^११]मुन्नततरहनुघोण- माकरालतारकमवशीर्यमाणविरलनयनपक्ष्ममालमुद्गवदीर्घरोम- रुद्धश्रवणविवरमानाभि [^१२]लम्बकूर्चकलापमाननमादधानम्, अति-
 
[ टि ] -- ललाटेति । ललाटफलकेन भालपट्टकेनोपेतं सहितम् । कीदृशेन । उपेति । उपरचितानि कृतानि भस्मना
त्रीणि पुण्ड्रकाणि त्रिरेखामयतिलकानि यस्मिन् । केनेव । तिर्गिति । त्रिपथगाया एकमुपर्येकं तिर्यगेकमधः-
स्रोतः । इदमभिनवं तिर्यक्प्रवृत्तं स्रोतस्त्रयमेव यस्मिन्नेवंभूतं तेन हिमगिरिशिलातलेनेव । भूलतेति । भूल-
ताभ्यामवष्टभ्यमानावलम्ब्यमाना दृष्टिर्यस्य स तम् । कीदृशाभ्याम् । अधोमुखी या चन्द्रकलार्धचन्द्रस्तद्वदा-
कारो ययोस्ताभ्याम् । अवलम्बितेति । वार्धक्याद [^1]वलम्बिता आश्रिता या वलयस्त्रिवल्यस्ताभिः शिथिलाभ्यां
श्लथाभ्याम् । पुनस्तमेव विशिनष्टि – अनवरतेत्यादि । अनवरतं यो मन्त्राक्षराभ्यासस्तेन विवृतो विदीर्णो
योऽधरपुट ओष्ठपुटस्तस्य भावस्तत्ता तया निष्पतद्भिः स्रवद्भिरतिशुचिभिरतिपवित्रैः सत्यप्ररोहैरिव सत्याङ्कुरैरिव ।
स्वच्छेति । स्वच्छा निर्मला या इन्द्रियवृत्तय- स्ताभिरिव । करुणेति । शृङ्गारवत्करुणारसोऽपि विशदस्तस्य
प्रवाहैः स्रोतोभिरिव । ए॒वंविधैर्देशनमयूखै रदनदीप्तिभिर्धवलितः शुश्भ्रीकृतः पुरोभागो यस्य स तम् । श्वेतत्व-
साधर्म्येण श्वेतप्रवाह- प्रकटनसाधर्म्येण च मुनेरुपमानमाह - उद्वमदिति । उद्वमन्बहि- रागच्छन्नमलो निर्मलो
गङ्गाप्रवाहो जाह्नवीरयो यस्मात्तमेवंभूतं जह्नुमिव । कथा चात्र – भगीरथपथेन प्रवृत्ता गङ्गा कलकलशब्दं
कुर्वती शब्दकण्टकानि ध्यानानि भवन्तीति रोषात् महर्षिणा जहुह्नु- ना पीता । भगीरथाराधनाञ्च्च पुनर्जानुभ्या-
मुद्गीर्णा । ततो जाह्नवी- त्युच्यते मुखनिश्वासस्य सौरभ्यातिशयप्रदर्शनद्वारा तमेव विशिनष्टि - अनवरते-
त्यादि । अनवरतं यः सोमपानस्योद्गारस्तेन सुगन्धी यो निश्वासः पवनस्तेनावकृष्टैराकर्षितैर्मूर्तिमद्भिदेह-
वद्भिः शापाक्षरैरिव शापवर्णैरिव । सदेति । सदा सर्वकालं मुखस्य यो भागोऽग्रिम- प्रदेशस्तत्र संनिहितैः पार्श्वगैः
परिस्फुरद्भिर्दीप्यमानैरलिभि- र्भ्रमरैरविरहितमवियुक्तमाननं मुखमादधानं बिभ्राणम् । अथ मुखविशेषणानि—
अतीति । अतिकृशतया निम्नतरो गम्भीरतरो गण्डगर्तः कपोलतः रो भागो यस्य तत् । उन्नतेति ।
उन्नत- तरेऽत्युच्चे हनु चिबुकं घोणा नासा च यस्मिंस्तत् । अतिवृद्ध- लक्षणमेतत् । आकरालेति । आकरालेषं-
[^2]षद्वक्रा तारका कनीनिका यस्य तत् । अवेति । अवशीर्यमाणा क्षीयमाणा विरलानिबिडा नयनयोर्नेत्रयोः पक्ष्म-
माला रोमराजिर्यस्मिंस्तत् । उद्गतेति । उद्गतानि प्रादुर्भूतानि यानि दीर्घरोमाणि तेन रुद्धमावृतं श्रवणयोर्विवरं
रन्ध्रं यस्मिंस्तत् । आनाभीति । आनाभि नाभिपर्यन्तं लम्बः प्रलम्ब: कूर्चकलाप आस्यलोमसमूहो यस्ि
 
स्मि-
 
 
[^
1
 
टिप्प० - 1
]F. अवलम्बिता शिथिलतया निन्ने पतिता या वलिः शिथिलं चर्म ( 'वलिश्चामरदण्डे च
जरया श्लथचर्मणि' इति विश्व:) तथा शिथिलाभ्याम् [ वलिशैथिल्यान्नयनोपरि पतिताभ्याम्, इत्यर्थः ] ।
[^2]F. व्यात्त इत्यर्थः ।
[^
3]F. आकराले तेजस्वितया अतीवोमेग्रे तारके नयनताराद्वयं यस्मिन् इति व्याख्योचिता ।
 
पाठा० -[^]G. उपशोभमानम्.
[^
]G. गङ्गा .
[^
]G. त्रयेणेव.
[^
]G. तलेन.
[^
]G. पट्टेन.
[^
]G. मन्त्राभ्यास.
[^
]G. विद्यागुणैरिव
करुणा; विद्याभिरिव करुणा.
[^
]G. अविरत; अविरल.
[^
]G. मूर्तिमद्भिरिव शापाक्षरै:.
[^
१०]G. संनिविष्ठैः टै:.
[^
११]G. समुन्नत
 
.
[^
१२]G. लम्बित.