कादम्बरी /125
This page has not been fully proofread.
कादम्बरी ।
९२
[ कथामुखे-
तरोः कुसुममञ्जरीभिरिवोद्गताभिर्जटाभिरुपशोभितम् उपरचितभस्मत्रिपुण्डूकेण तिर्यक्प्र-
वृत्तत्रिपथगात्रोतस्त्रयेण हिमगिरिशिलात लेनेव ललाट फैलकेनोपेतम्, अधोमुख चन्द्रकलाकारा-
भ्यामवलम्बितवलिशिथिलाभ्यां भ्रूलताभ्यामवष्टभ्यमानदृष्टिम्, अनवरतमत्राक्षराभ्यासवि
वृताधरपुटतया निष्पतद्भिरतिशुचिभिः सत्यप्ररोहैरिव स्वच्छेन्द्रियवृत्तिभिरिव करुणारसप्रवा-
हैरिव दशनमयूखैर्धवलितपुरोभागम्, उमदमलगङ्गाप्रवाहमिव जहुम्, अनवरतसोमोद्गार-
सुगन्धिनिश्वासावकृ॒ष्ट॒र्मूर्तिमि॑द्भिः शापाक्षरैरिव सदा मुखभागसंनिहितैः परिस्फुरद्भिरलिभिर
विरहितम्, अतिकृशतया निम्नतरगण्डगतमुन्नततरहनुघोणमाकरालतारकमवशीर्यमाणविरल-
नयनपक्ष्ममालमुद्गवदीर्घरोमरुद्धश्रवणविवरमाना भिलैम्बकूर्चकलापमाननमादधानम्, अति-
ललाटेति । ललाटफलकेन भालपट्टकेनोपेतं सहितम् । कीदृशेन । उपेति । उपरचितानि कृतानि भस्मना
त्रीणि पुण्ड्रकाणि त्रिरेखामयतिलकानि यस्मिन् । केनेव । तिर्थगिति । त्रिपथगाया एकमुपर्येकं तिर्यगेकमधः-
स्रोतः । इदमभिनवं तिर्यक्प्रवृत्तं स्रोतस्त्रयमेव यस्मिन्नेवंभूतं तेन हिमगिरिशिलातलेनेव । भूलतेति । भूल-
ताभ्यामवष्टभ्यमानावलम्ब्यमाना दृष्टिर्यस्य स तम् । कीदृशाभ्याम् । अधोमुखी या चन्द्रकलार्धचन्द्रस्तद्वदा-
कारो ययोस्ताभ्याम् । अवलम्बितेति । वार्धक्यादवलम्बिता आश्रिता या वलयस्त्रिवल्यस्ताभिः शिथिलाभ्यां
श्लथाभ्याम् । पुनस्तमेव विशिनष्टि – अनवरतेत्यादि । अनवरतं यो मन्त्राक्षराभ्यासस्तेन विवृतो विदीर्णो
योऽधरपुट ओष्ठपुटस्तस्य भावस्तत्ता तया निष्पतद्भिः स्रवद्भिरतिशुचिभिरतिपवित्रैः सत्यप्ररोहैरिव सत्याङ्कुरैरिव ।
स्वच्छेति । स्वच्छा निर्मला या इन्द्रियवृत्तयस्ताभिरिव । करुणेति । शृङ्गारवत्करुणारसोऽपि विशदस्तस्य
प्रवाहैः स्रोतोभिरिव । ए॒वंविधैर्देशनमयूखै रदनदीप्तिभिर्धवलितः शुश्रीकृतः पुरोभागो यस्य स तम् । श्वेतत्व-
साधर्म्येण श्वेतप्रवाहप्रकटनसाधर्म्येण च मुनेरुपमानमाह - उमदिति । उद्वमन्बहिरागच्छन्नमलो निर्मलो
गङ्गाप्रवाहो जाह्नवीरयो यस्मात्तमेवंभूतं जह्नुमिव । कथा चात्र – भगीरथपथेन प्रवृत्ता गङ्गा कलकलशब्दं
कुर्वती शब्दकण्टकानि ध्यानानि भवन्तीति रोषात् महर्षिणा जहुना पीता । भगीरथाराधनाञ्च पुनर्जानुभ्या-
मुद्गीर्णा । ततो जाह्नवीत्युच्यते मुखनिश्वासस्य सौरभ्यातिशयप्रदर्शनद्वारा तमेव विशिनष्टि - अनवरते-
त्यादि । अनवरतं यः सोमपानस्योद्गारस्तेन सुगन्धी यो निश्वासः पवनस्तेनावकृष्टैराकर्षितैर्मूर्तिमद्भिदेह-
वद्भिः शापाक्षरैरिव शापवर्णैरिव । सदेति । सदा सर्वकालं मुखस्य यो भागोऽग्रिमप्रदेशस्तत्र संनिहितैः पार्श्वगैः
परिस्फुरद्भिर्दीप्यमानैरलिभिर्भ्रमरैरविरहितमवियुक्तमाननं मुखमादधानं बिभ्राणम् । अथ मुखविशेषणानि—
अतीति । अतिकृशतया निम्नतरो गम्भीरतरो गण्डगतः कपोलतः गरो भागो यस्य तत् । उन्नतेति ।
उन्नततरेऽत्युच्चे हनु चिबुकं घोणा नासा च यस्मिंस्तत् । अतिवृद्धलक्षणमेतत् । आकरालेति । आकरालेषं-
द्वक्रा तारका कनीनिका यस्य तत् । अवेति । अवशीर्यमाणा क्षीयमाणा विरलानिबिडा नयनयोर्नेत्रयोः पक्ष्म-
माला रोमराजिर्यस्मिंस्तत् । उद्गतेति । उद्गतानि प्रादुर्भूतानि यानि दीर्घरोमाणि तेन रुद्धमावृतं श्रवणयोर्विवरं
रन्ध्रं यस्मिंस्तत् । आनाभीति । आनाभि नाभिपर्यन्तं लम्बः प्रलम्ब: कूर्चकलाप आस्यलोमसमूहो यस्ि
1
टिप्प० - 1 अवलम्बिता शिथिलतया निन्ने पतिता या वलिः शिथिलं चर्म ( 'वलिश्चामरदण्डे च
जरया लथचर्मणि' इति विश्व:) तथा शिथिलाभ्याम् [ वलिशैथिल्यान्नयनोपरि पतिताभ्याम्, इत्यर्थः ] ।
2 व्यात्त इत्यर्थः । 3 आकराले तेजस्वितया अतीवोमे तारके नयनताराद्वयं यस्मिन् इति व्याख्योचिता ।
पाठा० -१ उपशोभमानम्. २ गङ्गा ३ त्रयेणेव. ४ तलेन. ५ पट्टेन. ६ मन्त्राभ्यास. ७ विद्यागुणैरिव
करुणा; विद्याभिरिव करुणा. ८ अविरत; अविरल. ९ मूर्तिमद्भिरिव शापाक्षरै:. १० संनिविष्ठैः ११ समुन्नत
१२ लम्बित.