कादम्बरी /124
This page has not been fully proofread.
पूर्वभागः ।
९१
जाबालि: ]
रक्ताशोकतरोरधश्छायायामुपविष्टम्
उपतपोभिर्भुवनमिव सागरैः कनकगिरिमिव कुलप-
र्वतैः, ऋतुमिव वैतानिकवह्निभिः, कल्पान्तदिवसमिव र विभिः, कालमिव कल्पैः समन्तान्मह-
विभिः परिवृतम्, उग्रशॉपकम्पितदेहया प्रणयिन्येव विहितकेशप्रहया क्रुद्धयेष कृतभूभङ्ग-
या मत्तये वाकुलितगमनया प्रसाधितयेव प्रकटिततिलकया जरया गृहीतव्रतयेव भस्मघवलया
धवलीकृतविग्रहम्, आयामिनीभिः पलितपाण्डुराभिस्तैपसा विजित्य मुनिजनमखिलं धर्मप
ताका भिरिवोच्छ्रिताभिरमरलोकमारोढुं पुण्यरज्जुभिरिवोपसंगृहीताभिरतिदूरप्रवृद्धस्य पुण्य
.9
विविक्तं पूतं तलमधोभागो यस्य स तथा तस्य । तदिति । तत्क्षणे तदात्वे कृतो विहितो यः कुसुमोपहारः
पुष्पढौकनं तेन रमणीयस्य मनोहरस्य । नातिमहतो नातिदीर्घस्य परिमण्डलं समन्तात्परिमाणं तस्य भाव-
स्तत्ता तयात एव दीर्घस्य तालादेन ( ? ) । तथा परिमण्डलं विस्तीर्णोऽवकाशोऽभ्यन्तरप्रदेशो यस्य स तथा
तस्य । `उनेति । उग्रतपोभिस्तीक्ष्णतपोभिर्महर्षिभिः समन्तात्परिवृतं परिवेष्टितम् । किमिव । भुवनमिव
विष्टपमिव सागरैः समुद्रैः । कनकगिरिमिव सुवर्णाद्रिमिव कुलपर्वतैः कुलाचलैः । ऋतुमिव यज्ञमिव वैतानिकव-
ह्वयो दक्षिणाग्निगार्हपत्याहवनीयास्तैः । कल्पान्तदिवसमिव युगान्तवासरमिव रविभिः सूर्यैः । कालमिव समयम
कल्पैः कालावयवैः । धवलीकृतेति । जरया विस्रसया धवलीकृतः शुश्रीकृतो विग्रहः शरीरं यस्य स तम् ।
अथ च जराया विशेषणानि - उप्रेति । उग्रः कठिनो यः शापस्तेन कम्पितश्चालितो देहो यया सा तया ।
प्रणयिन्येवेति । प्रणयिन्येव मनस्विन्येव विहितः केशग्रहो यया सा तया । वल्लभापि रतिकलहे केशग्रहं
करोति । इयमपि शेलमेत्यर्थः । क्रुद्धयैवेति । क्रुद्धयेव कोपाविष्टयेव कृतो भ्रूभङ्गो या सा तया ।
क्रुद्धापि भ्रूभङ्गं करोति तथेयं कृतवतीत्यर्थः । मत्तयेवेति । मत्तयेव शौण्डयेव आकुलितं गमनं गतिर्यस्याः
सा तया । मत्तापि स्खलद्गतिर्भवति तथेयमपि । प्रसाधितयेव भूषितयेव प्रकटितमाविष्कृतं तिलकं
यया सा तया । भूषितापि स्त्री सतिलका भवति । अस्या अपि देहे तिलंकाः प्रजायन्त इति प्रसिद्धिः । गृहीतेति ।
गृहीतं स्वीकृतं व्रतं यया सा तयेवात. एव भस्मधवलया भस्म भूतिस्तद्वद्धवलया शुभ्रया । पुनः किंविशिष्टम् ।
जटाभिः सटाभिरुपशोभितमलंकृतम् । अथ जटा विशिष्टि - आयामिनीभिर्विस्तारवतीभिः । पलितेति ।
पलितं पाण्डुरः कचस्तद्वत्पाण्डुराभिः श्वेताभिः । तपसेति । तपसाखिलं समग्र मुनिजनमृषिजनं विजित्य धर्म-
पताकाभिरिव धर्मस्य तपोमयस्य जयध्वजाभिरिवोच्छ्रिताभिरूवकृताभिरिव । अमरेति । अमरलोकं स्व-
कमारोढुमारोहणं कर्तुं पुण्यरज्जुभिरिव पवित्ररश्मिभिरिवोपसंगृहीताभिः स्वीकृताभिः । अतीति । अतिदूरं
प्रवृद्धस्यातिदूरं वृद्धिं गतस्य पुण्यतरोः श्रेयस्तरोरुद्गताभिः प्रादुर्भूताभिः कुसुममञ्जरीभिरिव पुष्पवल्लरीभिरिव ।
।
टिप्प० -1 'उग्रशापभीतयेव कम्पितदेहया' इत्येव पाठः । जाबालेर्य उग्रशाप: तस्माद् भीता
( जरा ), अत एव सा कम्पितदेहा ( कम्पितो देहो यस्याः, या हि भीता भवति तस्या देहकम्पो
भवति ), वस्तुतस्तु कम्पितो देहो ( जाबालेः ) यया । जरसा यः स्वाभाविको देहकम्पस्तन शापभय-
हेतुकत्वमुत्प्रेक्ष्यत इस्युस्प्रेक्षालंकारः । 2 कृष्णवर्णचिह्नानि, 'तिल' इति भाषा । 3 या गृहीतव्रता
भवति सा भस्मधारणेन धवला भवति । इयं तु भस्मवद्धवला, इति व्याख्योचिता । 4 पलितं केशेषु
जराजनिता शुलता तया पाण्डुराभिः ।
पाठा०== .१ अत्युग्र. २ कुलाच:. ३ बैतान; वैतानक. ४ शापभियेव; शापभीतयेव.
६ उपार्जिताभि, ७ पुण्यै रज्जभिः; पुण्यरजोभिः, ८ तपस्तरोः
५ तपोभिः.