2023-11-07 05:45:22 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथामुखे-
महाभारते शकुनिवर्धः [^1]वध:, पुराणे वायुप्रलपितम्, वयः[^१]परि णामेन द्विजपतनम्, उपवनचन्दनेषु
जाड्यम्, अग्नीनां भूतिमत्त्वम्, एणकानां [^२]गीतेश्रवणव्यसनम्, [^३]शिखण्डिनां [^४]नृत्यपक्षपातः,
[^५]भुजंगमानां भोगः, कपीनां श्रीफलाभि- लाषः, मूलानामधोगतिः ।
 

 
तस्य चैवंविधस्य [^६]मध्यभागमण्डलमलंकुर्वाणस्याँया [^७]लक्तकालोहित [^८]प [^९]ल्लवस्य मुनिजनालं [^१०]लम्बितक-
कृष्णाजिन [^११]लेकर कसनाथशाखस्य तापस [^१२]कुमारिकाभिरालवालदत्तपीत [^१३]पिष्ठैपञ्चाङ्गुलस्य हरिश-
णशिशुभि: [^१४]पीर्यैमानॉ [^१५]नालवालकसलिलस्य मुनिकुमारकाबद्धकुशचीरदाम्नो हरितगोमयोप [^१६]लेपनवि-

विततलॅक्त [^१७]तलस्य तत्क्षण [^१८]कृतकुसुमोपहाररमणीयस्य नातिमहतः परिमण्डलतया विस्तीर्णावकाशस्य
 
भा

 
[ टि ]-- मा
तुलस्य विनाशः श्रूयते । न तत्र शकुनिवधः पक्षिवधः । पुराणेति । पुराण इतिहासादौ वायोर्षायुदेवतायाः
प्रलपितं जल्पितम्, श्रूयते इति शेषः । नतु वायुना वायुविकारेणोन्मादादिना प्रलपितं यथाकथंचिज्जल्पितं यत्र
नाभूत् । वय इति । वयःपरिणासेमे- न वार्धकेन द्विजानां दन्तानां पंतनं पातः । न तु द्विजानां ब्राह्मणानां पतनं
खा
स्वाचाराशः । यत्र नेति सर्वत्रानुषङ्गः । उपेति । उपनं समीपवनं तत्र चन्दनतरवस्तेषु जाड्यं शैत्यम् ।
न त्वाश्रमवर्तिमुनि- जनेषु जाज्ड्यं प्रज्ञाहीनत्वम् । अग्नीनामिति । अग्नीनां वह्नीनां भूतिमत्त्वं भस्मवत्त्वम् । न
तु मुनीनां भूतिः संपत्तद्वत्त्वम् । एणकेति । एणकानां मृगाणां गीतं गानं तस्य श्रवणं तत्र व्यसनमासक्तिः ।

न मुनीनां तच्छ्रवणाभिलाषातिरेकः । शिखण्डीति । शिखण्डिनां मयूराणां नृत्ये ताण्डवे पक्षपातश्छदपत-
नम् । न तु मुनीनां नृत्यविषये पक्षपातोऽङ्गीकारः । भुजंगमेति । भुजंगमानां सर्पाणां भोगः शरीरम् ।
'भोगोऽहिकायः' इति कोशः । न तु मुनीनां भोगः ख्स्त्र्यादिजनितं सुखम् । कपीनामिति । कपीनां वानराणां
श्रीफला- भिलाषः श्रीफलानि बिल्वीफलानि तेष्वभिलाषो वाञ्छाविशेषः । न तु मुनीनां श्रीलक्ष्मीस्तस्याः फलानि
गृहकारापणादीनि तत्राभिलाष- स्तीजाव्राध्यावसायः । मूलानामिति । मूलानां जटानामधोगतिरधः
संयोगः । न
त्वाश्रमवर्तिमुनीनामधोगतिर्नरकपातः ।
 

 
तस्येति । आश्रमस्यैवंविधस्य पूर्वोक्तप्रकारेण वर्णितस्य तस्य यो मध्यभागस्तस्य [^2]मण्डलं वर्तुलप्रदेशस्त-
दलंकुर्वाणस्य रक्ताशोकतरोः कङ्केलिवृक्षस्याधरश्छायायां उपविष्टं निषण्णं भगवन्तं जाबालिं जाबालि-
मुनिमपश्यमिति दूरेणान्वयः । अथ जाबालिं वर्णयति – तत्र षष्ठ्यन्तानि तरोर्विशेषणानि द्वितीयान्तानि मुनि-
विशेषाषणानीति स्वयमूहनीयम् । अलकेक्तेति । अलक्तकवद्या- वकवल्लोहिता रक्ताः पल्लवा यस्य स तथा तस्य ।
मुनीति । मुनिजनैस्तापसजनैरालम्बिताः स्थापिताः कृष्णाजिनानि कृष्णमृग- चर्माणि जलकरकाः पात्रविशे-
षास्तैः सनाथा सहकृता शाखा यस्य स तथा तस्य । तापसेति । तापसकुमारिकाभिर्मुनिकन्याभिरालवाले

मूलप्रदेशे दत्ताः पीतपिष्टस्य हरिद्राचूर्णस्य पञ्चाङ्गुलयो हस्तबिम्बा यस्मिन्स तथा तस्य । हरिणेति । हरि-
णशिशुभिर्मृगबालकैः पीयगानमाखास्वाद्यमानमालवालकस्य सलिलं यस्य स तथा तस्य । मुनीति । मुनिकु
मारकैराबद्धं कुशचीरनादाम यस्य स तथा तस्य । हरितेति । हरितमशुष्कं यद्गोमयं छगणं तेनोपलेपनं तेन
 
टिप्पण -

 
[^
1]F. 'सत्रमत्र च महाभारते शकुनिवधः' त्यारभ्य परिसंख्याया निषेधांशो व्यङ्ग्य इति
बोध्यम् /
[^
2]F. 'मध्यभागमकुर्बावाणस्य' इत्येव पाठः समुचितः ।
 
पाठा -

 
[^
]G. परिणामे.
[^२]G.
गीतव्यसनम् .
[^
]G. शिखण्डिनीनाम् .
[^
]G. गीतनृत्तपक्ष .
[^
]G. भुजगानाम्; भुजंगानाम्.

[^
]G. मध्यभागम् .
[^
]G.लक्तक.
[^
]G. आलोहित .
[^
]G. लोलपलवस्य. ल्लवस्य.
[^
१०]G. अवलम्बित .
[^
११]G. करङ्क.
[^
१२]G. कुमारिकाभिर्दत्त;
कन्यकाभिर्मूलभागदप्त त्त.
[^
३]G. विष्टातकानेक.
[^
१४]G. आपीयमान; परिपीयमान .
[^
१५]G. आलवाल.

[^१६]G. उपलिप्त.
[^
१७]G. भूतलस्य, .
[^
१८]G. रचित.
 
१६ उपलिप्त.
 
.
 

 
 
.