कादम्बरी /123
This page has not been fully proofread.
कादम्बरी ।
[ कथामुखे-
चमहाभारते शकुनिवर्धः, पुराणे वायुप्रलपितम्, वयःपरिणामेन द्विजपतनम्, उपवनचन्दनेषु
जाड्यम्, अग्नीनां भूतिमत्त्वम्, एणकानां गीतेश्रवणव्यसनम्, शिखण्डिनां नृत्यपक्षपातः,
भुजंगमानां भोगः, कपीनां श्रीफलाभिलाषः, मूलानामधोगतिः ।
तस्य चैवंविधस्य मध्यभागमण्डलमलंकुर्वाणस्याँलक्तकालोहितपल्लवस्य मुनिजनालंम्बितक-
ष्णाजिनजलेकर कसनाथशाखस्य तापसकुमारिकाभिरालवालदत्तपीतपिष्ठैपञ्चाङ्गुलस्य हरिश-
शुभि: पीर्यैमानॉलवालकसलिलस्य मुनिकुमारकाबद्धकुशचीरदाम्नो हरितगोमयोपलेपनवि-
विततलॅस्य तत्क्षणकृतकुसुमोपहाररमणीयस्य नातिमहतः परिमण्डलतया विस्तीर्णावकाशस्य
भातुलस्य विनाशः श्रूयते । न तत्र शकुनिवधः पक्षिवधः । पुराणेति । पुराण इतिहासादौ वायोर्षायुदेवतायाः
प्रलपितं जल्पितम्, श्रूयते इति शेषः । नतु वायुना वायुविकारेणोन्मादादिना प्रलपितं यथाकथंचिजल्पितं यत्र
नाभूत् । वय इति । वयःपरिणासेन वार्धकेन द्विजानां दन्तानां पंतनं पातः । न तु द्विजानां ब्राह्मणानां पतनं
खाचाराशः । यत्र नेति सर्वत्रानुषङ्गः । उपेति । उपननं समीपवनं तत्र चन्दनतरवस्तेषु जाड्यं शैत्यम् ।
न त्वाश्रमवर्तिमुनिजनेषु जाज्यं प्रज्ञाहीनत्वम् । अग्नीनामिति । अनीनां वह्नीनां भूतिमत्त्वं भस्मवत्त्वम् । न
तु मुनीनां भूतिः संपत्तद्वत्त्वम् । एणकेति । एणकानां मृगाणां गीतं गानं तस्य श्रवणं तत्र व्यसनमासक्तिः ।
न मुनीनां तच्छ्रवणाभिलाषातिरेकः । शिखण्डीति । शिखण्डिनां मयूराणां नृत्ये ताण्डवे पक्षपातश्छदपत-
नम् । न तु मुनीनां नृत्यविषये पक्षपातोऽङ्गीकारः । भुजंगमेति । भुजंगमानां सर्पाणां भोगः शरीरम् ।
'भोगोऽहिकायः' इति कोशः । न तु मुनीनां भोगः ख्यादिजनितं सुखम् । कपीनामिति । कपीनां वानराणां
श्रीफलाभिलाषः श्रीफलानि बिल्वीफलानि तेष्वभिलाषो वाञ्छाविशेषः । न तु मुनीनां श्रीलक्ष्मीस्तस्याः फलानि
गृहकारापणादीनि तत्राभिलाषस्तीजाध्यवसायः । मूलानामिति । मूलानां जटानामधोगतिरधःसंयोगः । न
त्वाश्रमवर्तिमुनीनामधोगतिर्नरकपातः ।
तस्येति । आश्रमस्यैवंविधस्य पूर्वोक्तप्रकारेण वर्णितस्य तस्य यो मध्यभागस्तस्य मण्डलं वर्तुलप्रदेशस्त-
दलंकुर्वाणस्य रक्ताशोकतरोः कङ्केलिवृक्षस्याधरछायायां उपविष्टं निषण्णं भगवन्तं जाबालिं जाबालि-
मुनिमपश्यमिति दूरेणान्वयः । अथ जाबालिं वर्णयति – तत्र षष्ठ्यन्तानि तरोर्विशेषणानि द्वितीयान्तानि मुनि-
विशेषानीति स्वयमूहनीयम् । अलकेति । अलक्तकवद्यावकवलोहिता रक्ताः पल्लवा यस्य स तथा तस्य ।
मुनीति । मुनिजनैरतापसजनैरालम्बिताः स्थापिताः कृष्णाजिनानि कृष्णमृगचर्माणि जलकरकाः पात्रविशे-
षास्तैः सनाथा सहकृता शाखा यस्य स तथा तस्य । तापसेति । तापसकुमारिकाभिर्मुनिकन्याभिरालवाले
मूलप्रदेशे दत्ताः पीतपिष्टस्य हरिद्राचूर्णस्य पञ्चाङ्गुलयो हस्तबिम्बा यस्मिन्स तथा तस्य । हरिणेति । हरि-
णशिशुभिर्मृगबालकैः पीयगानमाखाद्यमानमालवालकस्य सलिलं यस्य स तथा तस्य । मुनीति । मुनिकु
•मारकैराबद्धं कुशचीरनाम यस्य स तथा तस्य । हरितेति । हरितमशुष्कं यद्गोमयं छगणं तेनोपलेपनं तेन
टिप्पण -1 'सत्र महाभारते शकुनिवधः' हत्यारभ्य परिसंख्याया निषेधांशो व्यङ्ग्य इति
बोध्यम् / 2 'मध्यभागमकुर्बाणस्य' इत्येव पाठः समुचितः ।
पाठा -१ परिणामे. ६ गीतव्यसनम् ३ शिखण्डिनीनाम् ४ गीतनृत्तपक्ष ५ भुजगानाम्; भुजंगानाम्.
६ मध्यभागम् ७ अटक. ८ आलोहित ९ लोलपलवस्य. १० अवलम्बित ११ करक. १२ कुमारिकाभिर्दत्त;
कन्यकाभिर्मूलभागदप्त १२ विष्टातकानेक. १४ आपीयमान; परिपीयमान १५ आलवाल.
१७ भूतलस्य, १८ रचित.
१६ उपलिप्त.
.