2023-11-06 11:57:56 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
जाबाल्याश्रमः ]
पूर्वभागः ।
८९
तिमण्डलसनाथमपि सदासंनिहिततरुगहनान्धकारम्, अतिरमणी-
यमपरमिव ब्रह्मलोकमा-
श्रममपश्यम् ।
यत्र च मलिनता हविर्धूमेषु न चरितेषु, मुखरागः शुकेषु न कोपेषु, तीक्ष्णता कुशात्ग्रेषु
न स्वभावेषु, चञ्चलता कदलीद्दलेषु न मनःसु, चक्षूरागः कोकिलेषु न परकलत्रेषु, कण्ठग्रहः
कमण्डलुषु न सुरतेषु, मेखलाबन्धो व्रतेषु नेर्ष्याकलहेषु, स्तनस्पर्शो होमधेनुषु न [^१]कामिनीपुषु,
पक्षपात: के[^२]कृकवाकुषु न विद्याविवादेषु, आभ्रा- न्तिरनल [^३]प्रदक्षिणासु न [^४]शाखेस्त्रेषु, वसुसंकीर्तनं
दिव्यकथासु न [^५]तृष्णासु, गणना रुद्राक्षवलयेषु न शरीरेषु, मुनिबालनाशः ऋक्रतुदीक्षया न
मृत्युना, रामानुरागो रामायणेन न यौवनेन; मुखभङ्गविकारो जरया न धनाभिमानेन । यत्र
."
[ टि ]-- पूर्णो न न्यून एवंविधो यो द्विजपतिश्चन्द्रस्तस्य मण्डलं तेन सनाथमपि सहितमपि सदा संनिहितमासन्नवर्ति
तरुगहनेष्वन्धकारं यस्मिन्निति विरोधः । तत्परिहारस्तु परिपूर्णा ज्ञानेन भृता ये द्विजपतयो ब्राह्मणा-
स्तेषां मण्डलं समूहमित्यर्थात् । अतिरमणीय- मत्यन्तमनोहाररि – अपरेति । अपरं भिन्नमिव ब्रह्मलोकं सुर-
लोकम् । अन्वयस्तु प्रागेवोक्तः ।
अथ पुनर्विरोधा [^1]भासाप्रदर्शनपूर्वकमा श्रममाहात्म्यं प्रदर्शयति – यत्र चेति । 'मूलानामधोगतिः' एतत्प-
र्यन्तं प्रघट्टकः । मलिनतेति । हविः सान्नाय्यं तस्य धूमेषु मलिनता मालिन्यम् । चरितेष्वाचारेषु न,
कौलीन्यलक्षणं तदित्यर्थः । मुखराग इति । शुकेषु कीरेषु मुखरागो मुखारुण्यम् । कोपेष्विति निमित्त
सप्तमी । कोपनैमित्तिकं न मुखे वैरूप्यमित्यर्थः । तीक्ष्णतेति । कुशाग्रेषु दर्भप्रान्तेषु तीक्ष्णता
चर्मास्थिमेदनसमर्थः शक्ति विशेषः । स्वभावेषु प्रकृतिषु न क्रूरत्वमित्यर्थः । चञ्चलतेति । कदलीदलेषु
रम्भापत्रेषु चञ्चलता तरलता । न मनःसु चेतःसु वृत्तिविशेषः । चक्षुरिति । कोकिलेषु [^2]परभृत्युसु चक्षूरागों
गो नेत्रयोरारुण्यम् । परकलत्रेषु परस्त्रीषु नाभिलाष इत्यर्थः । कण्ठग्रह इति । कमण्डलुषु कुण्डिकासु कण्ठ-
ग्रहः कण्ठे ग्रहणम् । सुरतेषु मैथुनेषु न कण्ठालिङ्गनम् । मुनीनां तदभावादिति भावः । मेखलेति । व्रतेषु
नियमेषु मेखलाबन्धो मामौञ्जीबन्धनम् । ईर्ष्याकलहेष्वसूयाविग्रहेषु न शृङ्ख- लाबन्धनम् । स्तनेति । होमधेनुषु
होमनैमित्तिकधेनुषु स्तनस्पर्शो दोहनम् । कामिनीषु ललनासु न कुचमर्दनम् । पक्षपात इति । कृकवाकुषु
कुक्कुटेषु पक्षपातः पक्षाणां पतनम् । न विद्याविवादेषु शास्त्रकथासु सोपाधिकोऽङ्गीकारः । अन्यस्य पक्षिणस्तथा
युद्धे पक्षपातो नास्तीति कुक्कुटग्रहणम् । भ्रान्तिरिति । अनल- प्रदक्षिणासु भ्रान्तिः परिवृत्तिः । शास्त्रेषु न
भ्रान्तिर्मिथ्याज्ञानम् । वस्विति । दिव्यकथासु भारतकथासु वसवो गणदेवाः पितृगणा वा तेषां संकीर्तनं
सम्यक्प्रकारेण कथनम् । न तृष्णासु लिप्सासु वसु द्रव्यं तस्य संकीर्तनं प्रशंसनम् । गणनेति । रुद्राक्षवलयेषु
रुद्राक्षस्मरण्यां गणना संख्या । न शरीरेषु देहेषु गणनाऽऽदरः । अत्यन्तनिस्पृहत्वात्तत्र निरपेक्षेत्यर्थः । मुनीति ।
बवयोरैक्यान्मुनीनां वालाः केशास्तेषां नाशो ध्वंसः क्रतुदीक्षया यज्ञदीक्षया । न मृत्युना बालनाशः शिशुनाशः ।
पुरुषायुषजीवित्वात्तेषाम् । रामेति । रामो दाशरथिस्तस्मिन्ननुराग आराध्यत्वेन ज्ञानं रामायणेन रामचरि-
त्रेण । तद्ब्ग्रन्थश्रवणेन तदुपरि रागाधिक्यमित्यर्थः । न तु यौवनेन तारुण्येन रामानुरागो रामाः स्त्रियस्ता-
खस्वनुरागो विषयेच्छा । मुखेति । मुखे भङ्गविकारस्त्रिविलीविकृतिर्जरया वार्धक्येन । धनाभिमानेन द्रव्यस्मयेम
न मुखभङ्ग आस्यमोटनादिबिविकृतिर्नेत्यर्थः । यत्र चेति । यस्मिन्स्थले महाभारते शास्त्रे शकुनिवधो दुर्यो [^3]धनराज्ञो
टिप्प० -
[^1]F. परिसंख्यालंकारेत्युचितम् ।
[^2]F. परभृतेषु, काकैः पोषितस्वात् । 8
[^3]F. दुर्योधनराजस्येत्याशयः ।
पाठा० -
[^१]G. वनितासु.
[^२]G. कुक्कुटेषु.
[^३]G. प्रदक्षिणेषु .
[^४]G. शास्त्रार्थेषु.
[^५]G. धनतृष्णासु.
१२ का०