कादम्बरी /121
This page has not been fully proofread.
८८
कादम्बरी ।
[ कथामुखे-
अपरिचितमनृतस्य, अश्रुतपूर्वमनङ्गस्य, अब्जयोनिमिव त्रिभुवनवन्दितम्, असुरारिमेन
प्रकटित नरहरिवराहरूपम्, सांख्यमिव कपिलाधिष्ठितम्, मेधुरोपवनमिव वलावलीढदर्पित-
धेनुकम्, उदयनमिवानन्दितवत्सकुलम्, किंपुरुषाधिराज्यमिव मुनिजन गृहीत कैलश: मिपि-
व्यमानद्रुमम् निदाघसमयावसानमिव प्रत्यासन्नजलप्रपातम्, जलघरसमयमिव बनगहन-
मध्यसुख सुप्तेहरिम्, हनूमन्तमिव शिलाशकैलप्रहारसंचूर्णिताक्षास्थिसंचयम्, खाण्डवविना-
शोधतार्जुनमित्र प्रारब्धाग्निकार्यम्, सुरभिविलेपनघरमपि सतताविर्भूतहव्यधूमगन्धम्,
मोतङ्गकुलाध्यासितमपि पवित्रम्, उल्लसितधूमकेतुशतमपि प्रशान्तोपद्रवम्, परिपूर्णद्विजप-
9
,
,
मित्यर्थः । एतेन सर्वथा पातकाभावो व्यज्यते । अपरीति । अनृतस्यासत्यस्यापरिचितमसंनिहितम् ।
अश्रुतेति । अनङ्गस्य कामय्याश्रुतपूर्वमनाकर्णितपूर्वम् । मदनोद्दीपकत्वाभावात् । अन्जेति । अब्जयोनिमिव
ब्रह्माणमिव त्रिभुवनवन्दितं अभिवादितम् । पक्षे वन्दितं श्रेष्ठम् । असुरारीति । असुरारिर्विष्णुस्तद्वदिव
प्रकटितानि नरो नरनारायणो हरिश्च नृहरिः । अथवा नरहरिनृसिंहो वराहश्च तेषां रूपाणि येन स तम् । पक्षे
प्रकटितानि नरेभ्यो हरिवराहरूपाणि येन स तेम् । सांख्येति । सांख्यं कापिलदर्शनं तदिव कपिलमुनि-
नाधिष्ठितमाश्रितम् । तत्प्रणीतत्वात् । पक्षे कपिलाभिर्गोभिरधिष्ठितम् । मधुरेति । मधुरा मधूपघ्नं तस्यो -
पचनमिव द्वादशवनेषु गर्भितं वनं तद्वदिव बैलावलीढो बलवान्दर्पितो दर्पयुक्तो धेनुको दैत्यो यस्मिन् । पक्षे
बलावलीढा: बलयुक्ता दर्पिता धेनवो गावो यस्मिन् । उदयनेति । उदयनं राजानमिवानन्दितं वत्स
कुलं येन । वत्सोऽत्र राजा पाण्डषकुलसमुत्पन्नः । पक्षे वत्सस्तर्ण करतस्य कुलं समुदायः । किंपुरुषेति ।
किंपुरुषः किंनरस्तस्याधिराज्यं प्रभुत्वं तदिव मुनिजनैर्गृहीता ये कलशास्तैरभिषिच्यमानो द्रुमोनाम राजा
यस्मिन् । किंनराण । दुमो नाम राजाभूदिति प्रसिद्धिः । पक्षे द्रुमा वृक्षाः । निदाघेति । ग्रीष्मसमयाव-
सानमिव शुक्रमासमिव प्रत्यासनः समीपस्थो जलप्रपातः प्रवर्ष यस्मिन् । पक्षे जलप्रपातो निर्झरः । जल-
'धरेति । जलधरसमयमिव पर्जन्यकालमिव वमस्य पानीयस्य यद्गहनं गम्भीरं मध्यमभ्यन्तरप्रदेशस्तत्र सुखेन
सुप्तो निद्रां प्राप्तो हरिर्विष्णुर्यस्मिन् । प्रावृषि विष्णुः समुद्रे शेत इति प्रसिद्धम् । पक्षे वनस्यारण्यस्य गहनानि
गहराणि तेषु सुप्ता हरयः सिंहा यस्मिन् । हन्विति । हनूमन्तमिवाञ्जनीसुतमिव शिलाशकलप्रहारेण संच
गतोऽक्षनाम्नो रावणपुत्रस्यास्थिसंचयो येन स तम् । पक्षे संचूर्णितो योऽक्षो विभीतकस्तस्यास्थिसंचयो मध्य-
प्रदेशसमूहो यस्मिन् । खाण्डवेति । खाण्डवनाम्नो वनस्य यो विनाशस्तत्रोद्यत उद्योगवान्योऽर्जुनः फाल्गु-
नस्तमिव प्रारब्धं विहितमग्निकार्य देवसंतर्पणं यस्मिन् । पक्षेऽभिकार्य होमः । सुरभीति । सुरभि सुगन्धि
यद्विलेपनमङ्गरागस्तद्धरमपि सततं निरन्तरमाविर्भूतः प्रकटितो हव्यं सुरेभ्यो दातव्यं तस्य धूमगन्धो
यस्मिन्निति विरोधः । तत्परिहारपक्षे सुरभेर्गो: विलिप्यतेऽनेन भूरिति विलेपनं गोमयं यस्यामेतादृशी
धरा भूर्यस्मिन्नित्यर्थः । मातङ्गेति । मातङ्गस्य यत्कुलं तेनाध्यासितमपि तदाश्रितमपि पवित्रं पावनमिति
विरोधः । तत्परिहारस्तु मातङ्गकुलानि हस्तियूथानीत्यर्थात् । उल्लुसितेति । उल्हसितमुलासं प्राप्तं धूमकेतुशतं
यस्मिन्नवभूतमपि प्रशान्तोपद्रवमिति विरोधः । तत्परिहारस्तु धूमकेतवो वह्नय इत्यर्थात् । परीति । परि-
टि.प० - 1 वस्तुतस्तु 'प्रकटितवराहनरसिंहरूपम्' इटोव पाठः । प्रकटितानि वराहाः नराः सिंहा
रूंपाणि मृगाव येन ( सर्वेषामत्राऽवस्थानात) इति श्राश्रमपक्षे । प्रकटिते वराहनरसिंहयो रूपे येनेति
हरिपक्षेऽर्थः । 2 बलेन बलरामेण अवलीड: समापितो दर्पितो धेनुकस्तनामासुरो यस्मिनीदृशं मथु-
राजा उपवनमिवेति मूलपाठानुकूला व्याख्या । आश्रमपशेऽर्थस्तु स्फुटः । 3 अग्नेः कार्यमभीष्टं तत्संतर्पणं
म । 4 মतङकन ड
पमत रोध: ।
अ
"
पाठा -१ वराहनरसिंह. २ मधुरोपवनम् ३ जलकलशा. ४ आसन्न. ५ प्रसुप्त ६ अनिलसुतम् ७ शकलसं-
चूर्णित. ८ आविर्भूतधूमगन्धम् ९ मातङ्गक. १० सहस्रम्,