This page has not been fully proofread.

जाबाल्याश्रमः ]
 
पूर्वभागः ।
 

 
9
 
चयैः कलापिभिः पक्षपुटपवनसंधुक्ष्यमाणमुनिहोमहुताशनम् आरब्धामृतचरुचारुगन्धम्,
अर्धपक्कपुरोडाशपैरिमलामोदितम्, अविच्छिन्नाज्यधाराहुतिहुतभुग्झङ्कारमुखरितम्, उपचर्य-
माणोतिथिवर्गम्, पूज्यमान पितृदैवतम्, अर्च्यमानहरिहरपितामहम्, उद्दिश्यमानश्राद्धक-
ल्पम् व्याख्यायमानयज्ञविद्यम्, आलोच्यमानधर्मशास्त्रम्, वाच्यमानविविधपुस्तकम्,
विचार्यमाणस कलशास्त्रार्थम् आरभ्यमाणपर्णशालम्, उपलिप्यमानाजिरम्, उपमृध्यमानोट-
जाभ्यन्तरम्, आबध्यमानध्यानम्, साध्यमानमन्त्रम्, अभ्यस्यमानयोगम्, उपहूयमानवनदेव-
उपसंस्क्रि
ताबलिम्, निर्वर्त्यमान मौज मेखलम्, क्षाल्य मानवल्कलम्, उपसंगृह्यमाणसमिधम्,
य-
यमाणकृष्णाजिनम्, गृह्यमाणगवेधुकम्, शोष्यमाणपुष्करबीजम्, प्रथ्यमानाक्षमालम्,
स्यमान वेत्रदण्डम्, क्रियमाणपरिव्राजकम्, आपूर्यमाणकमण्डलुम्, अदृष्टपूर्व कलिकालस्य,
 

 
१४
 
,
 

 

 
कोशः । उपजातेति । उपजातपरिचयैः संजातसंबन्धैः कलापिभिर्मयूरैः पक्षपुटपवनेन छदपुटानिलेन
संधुक्ष्यमाणः प्रज्वाल्यमानो मुनीनां होमार्थं हुताशनो वहिर्यस्मिन्स तम् । आरब्धेति । आरब्धो विहितो
गोऽमृतनश्र्वौदनस्तस्य चारु: मनोहरो गन्धो यस्मिन्स तम् । अर्धेति । अर्धपक्को यः पुरोडाशः पूर्वो
समय परिभलो गन्धस्तेनामोदितं हर्षजननशीलम् । अवीति । अविच्छिन्नां त्रुटिता या आज्यधारा घृतधारां
तयाहुतिर्हवनं तथा यो हुतभुझङ्कारोऽग्निशब्दस्तेन मुखरितं वाचालितम् । उपचर्येति । उपचर्यमाणः
पर्युपास्यमानोऽतिथिवर्गो यस्मिन् । पूज्येति । पूज्यमानानि पितृदैवतानि पितरो यस्मिंस्तम् । अये॑ति ।
अर्च्यमानाः पूज्यमाना हरिः कृष्णः, हर ईश्वरः, पितामहः पितुः पिता ब्रह्मा, एते यस्मिन् । उद्दिश्येति ।
उद्दिश्यमान उद्देशपूर्वकं कियमाणः श्राद्धकल्पः श्राद्धाचारो यस्मिन्स तम् । व्याख्येति । व्याख्यायमानार्थ
द्वारा नियमाणा यज्ञविद्या यागविद्या यस्मिन् स तम् । आलोच्येति । आलोच्यमानं मनसि विचार्यमा
धर्मशास्त्रं स्मृत्यादिकं यस्मिन्स स तम् । वाच्येति । वाच्यमानानि परिभाष्यमाणानि विविधान्यनेकप्रकाराणि
· पुस्तकानि शास्त्राणि यस्मिन्स तम् । विचार्येति । विचार्यमाणो युक्त्या स्थाप्यमानः सकलशास्त्रार्थो यस्मिन्
आरभ्येति । आरम्यमाणा नवीना क्रियमाणा पर्णशालोटजो यस्मिन् । उपलीति । उपत्यमान
गोमयादिनाजिराणि प्राणानि यस्मिन् । उपेति । उपमुज्यमानानि प्रसौर्यमाणानि उटजाभ्यन्तराणि
पर्णशालामध्यानि यस्मिन् । आवध्येति । आवध्यमानं ध्यानमेकप्रत्ययसंततिर्यस्मिन् । साध्येति
साध्यमानो होमादिना स्वायत्तीक्रियमाणो मन्त्रो देवाधिष्टातृको यस्मिन् । अभ्यस्येति । अभ्यस्यमान उद्यो
गविषयीक्रियमाणो योगश्चित्तवृत्तिनिरोधो यस्मिन् । उपेति । उपहूँयमान उपढौक्यमानो वनदेवतायै बलि
र्यस्मिन् । निर्व॑येति । निर्वर्यमाना निष्पाद्यमाना मौजमेखला यस्मिन् । क्षाल्येति । क्षाल्यमानानि वल्क
लकानि यस्मिन् । उपेति । उपसंगृह्यमाणा उपादीयमानाः समिधो यस्मिन् । उपेति । उपसंस्क्रियमाण
छगणादिना शुद्धीक्रियमाणं कृष्णाजिनं मृगचर्म यस्मिन् । गृह्येति । गृह्यमाणा गवेधुका धान्यविशेषः कन्दं
वा यम्मिन् । शोभ्येति । शोष्यमाणानि शोषं नीयमानानि पुष्करबीजानि कमलफलानि यस्मिन्
मध्येति । ग्रध्यमाना अक्षमाला रुद्राक्षमाला यस्मिन् । न्यस्येति । न्यस्यमानः स्थाप्यमानो वेत्रदण्डं
यस्मिन् । सदिति । सत्कियमाणाः परिव्राजका यस्मिन् । आपूर्येति । आपूर्यमाणानि जलेन श्रियमाणा
कमण्डलूनि यस्मिन् । अदृऐति । कलिकालस्य कलियुगस्यादृष्टपूर्वमनवलोकितपूर्वम् । कलिप्रवेशायोग्य
 
टिप्प० - 1 हुंकार इत्येव पाठः । अग्नेहुँकार एव प्रसिद्धो न भूषणवज्झंकारः । 2 प्रक्षालयमानानी
त्यर्थ: । 3 उपहियमाण इति पाठ एव समुचितः, बलि: उपहियते न तु उपहूयते ।
 
पाठा० -१ पुष्पपरिमल २ हुंकार; उग्रहुंकार ३ अभ्दर्यमान ४ उपदिश्यमान ५ अवलोक्यमान ६ प
८ उपहियमाण. ९ मुञ्ज १० प्रक्षाल्यमान. ११ संस्क्रियमाण. १९ निगृह्यमाण
 
मान.
 
७ आपमृज्यमान.
 
१३ पोष्यमाण. १४ गृह्यमाणत्रिपुण्डकपूर्यमाण. १५ त्रिदण्डकम् १६ संस्क्रियमाण.