2023-09-03 07:56:16 by Lakshmainarayana achar

This page has been fully proofread twice.

र्शत्वेन उन्नतत्वेन वा सर्वदा स्मरन्तीति रसपरिपोषपाटवमसाधारणं सूच्यते । एतस्मिन्विषये नान्यः कश्चित्कविर्बाणस्य प्रातिद्वन्द्व्ये स्थातुमशक्त् । अत एवालोचनामार्मिकैः प्रोक्तम्-
 
'युक्तं कादम्बरी श्रुत्वा कवयो मौनमागताः ।
बाणध्वनावनध्यायो भवतीति श्रुतिर्यतः ॥' [ कीर्तिकौमुदी भा. २ ]
 
सप्तमशताब्दीत उत्तरं तादृशंस्य नवीनगद्यकाव्यस्योत्पत्तिरेव न जातेति बेवरपण्डितादीनां मतम् । बाणसदृशैः समर्थैः पद्यकविताप्रभावो यः किञ्चिल्लोकानां हृदयादपसारितः स पुनर्यथावत्प्रबभूव । किन्तु संस्कृतसाहित्यस्य विगुणदैववशाद्बा- णस्य कृतिः कादम्बरी न बाणस्य लेखनीतः पूर्णा बभूव ।
 
उत्तरकादम्बरी
 
पूर्वभागमेव समाप्य लोकान्तरमुपगते महाकवौ बाणे, एवंविधमधुरकथाया अकाण्डे विच्छेदो महते रसविघाताय, पितुः कीर्तिप्रसारप्रतिबन्धाय चेति भावयन् बाणपुत्रस्तदुत्तरभागं विनिर्माय कथां पूरयामास । एतस्य नाम केषांचिन्मतेन 'भूषणभट्टः' इति । अपरे 'पुलिन्दः' इत्याहु:-
 
'केवलोपि स्फुरन् बाणः करोति विमदान्कवीन् ।
किं पुनः क्लृप्तसंधानः पुलिन्दकृतसंनिधिः ॥' ( धनपालस्य तिलकमञ्जरी )
 
अन्ये 'पुलिनः' इति नाम निरदिशन् । केषांचन मतेन 'निचुलः' इत्यपि नामधेयम् । एतदपि कथयन्तः केचन श्रुता यत्-
 
'स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥
 
इति मेघदूते महाकविकालिदासेन निर्दिष्टः सोयमेव निचुल इति । सोयं भ्रम एव तेषाम् । महाकविर्बाणस्तत्पुत्रश्च कालिदासस्य बहो: कालादनन्तरं जातः । न तस्य स्मरणं पूर्वभाविना कालिदासेन कर्तुं
शक्यते । मेघदूतं चादिमकालिदासस्यैवेति तु क्षेमेन्द्रेण 'कविकण्ठाभरणे' मन्दाक्रान्ताच्छन्दो महाकवे: कालिदासस्यैव सर्वापेक्षया मधुरमिति प्रस्तावे प्रोक्तम् । किञ्च मेघदूते निर्दिष्टेन- चित्रकूटादारभ्य कैलासपर्यन्तेन मेघगमनमार्गेण 'महाकविः कालिदासो भूगोलविषयेपि परममार्मिकोऽभूत्' इति गवेषकैः
साध्यते । ततश्च सर्वथा सोऽयमकाण्डसंलाप एव केषांचिदिति निश्चितम् ।
 
यत्किञ्चिदस्तु, एवंविधः पुत्रो विरलैरेव महाकविभिरवाप्तः स्याद् येन हि अकाण्डे विच्छिन्ना पितुः कृतिरेवमविभावितविभागं संयोजिता स्यात् । सर्वतः काठिन्यमिदमेव यत्पूर्वार्धे नाधिकः कथाभागः सूचितश्च संगृहीतश्च कविना । तत्र हि राज्ञः शूद्रकस्य सविधे शुकस्यागमनम्, तन्मुखेन चन्द्रापीडस्य समागमात्पूर्व-
जन्म, दिग्विजययात्राप्रसङ्गेन महाश्वेताश्रमे गमनम्, तन्मुखात्तस्याः पुण्डरीकेण प्रणयः, समागमात्पूर्वमेव पुण्डरीकस्य देहत्यागः, आकाशवाण्या पुनःसमागमसूचनात्तत्प्रत्याशायां तपश्चरणम्, ततो महाश्वेतानुरोधेन कादम्बरीदर्शनम्, तत्प्रणयः, चन्द्रापीडेन कादम्बरीसविधे पूर्वं प्रापितायाः पत्रलेखायाः कादम्बरीसंदेशं तदुपालम्भं चादाय चन्द्रापीडसविधे आगमनम्, अस्मिन्स्थान एव पूर्वभागस्य समाप्तिर्भवति । पुण्डरीकस्य शापवशाद् वारद्वयं भूमौ चन्द्रमसो जन्मना भाव्यमिति कथासंघटनाय चन्द्रापीडस्य हृदय-
स्फोटः, पुनस्तेनैव देहेन कादम्बरीसमागमः, पुण्डरीकस्य वैशम्पायननाम्ना जन्म, महाश्वेताशापेन शुकदेहप्राप्तिः, तस्यैव शुकस्य शूद्रकसविधे गमनम्, चन्द्रापीडस्य शूद्रकनाम्ना भूमौ संभवः, शापविमुक्तौ च चन्द्रापीड-पुण्डरीकादीनां सर्वेषां स्वस्वाभीष्टप्राप्तिरिति सर्वोप्यकाण्डविच्छिन्नः कथाभागो बाण- पुत्रेणैव संघटित इति महदेव मेधावत्त्वं संघटयितुः सोयं सूचयति ।
 
अवश्यं बाणो बाण एव, तत्पुत्रश्च तत्पुत्रः । इतिहासपुराणादिषु बाणस्य यद्व्यापकं पाण्डित्यम्, व्याकरणादिषु या व्युत्पत्तिः, रचनायां प्रसादः, अक्षरसंघटनायां माधुर्यम्, एतदादिगुणेषु उत्तरकादम्ब-