2023-11-05 15:46:05 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

नवैश्वदेवबलिपिण्डम्, आसन्नवापीकलहंसपोतभुज्यमाननीवार- बलिम्, एणीजिह्वापल्लवोपलिह्यमानमुनिबालकम्, अग्निकार्यार्धदग्धमि [^१]समिसायमान [^२]समित्कुशकुसुमम्,
उपलभग्न [^३]नालिकेररसस्निग्धशिलातलम्, अचिरक्षुण्णवल्कल- रसपाटलभूतलम्, रक्तचन्दनोपलिप्तादित्य [^४]मण्डलक- निहितकरवीरकुसुमम्, इतस्ततो विक्षिप्तभस्म [^५]लेखाकृत- मुनिजनभोजन [^६]भूमिपरिहारम्, परिचितशाखामृग [^७]करा- कृष्टिनिष्कास्यमानप्रवेश्यमानजरदन्धतापसम्, [^८]इभकलभा-
र्थोपभुक्तपतितैः सरस्वती [^९]भुजलता विगलितैः शङ्ख- वलयैरिव मृणालशकलै : कल्माषितम्, ऋषिजनार्थमेणकैर्विषाण- शिखरोत्खन्यमानविविधकन्दमूलम्, अम्बुपूर्ण पुष्करपुटैर्वन- करिभिरापूर्यमाणविटपालवालकम्, ऋषिकुमारकःकृष्यमाण- वनवराहदंष्ट्रान्तराललग्नशालूकम्, उपजातपरि-
 
[ टि ]-- मानो भक्ष्यमाणो वैश्वदेवस्य देवयज्ञस्य बलिपिण्डो हन्तकारो यस्मिन्स तम् । आसन्नति । आसन्ना समी-
स्था या वापी दीर्घिका तस्याः कलहंसपोतैः कादम्बशिशुभिर्भुज्यमानो भक्ष्यमाणो नीवारबर्लियस्मिन्स तम् ।
णीति । एण्यो भृग्यस्तासां जिह्वा रसना एव पल्लवास्तैरुपलियाह्यमाना आस्वाद्यमाना मुनिबालका यस्मि-न्
स तम् । अग्नीति । अग्निकार्ये होमेऽर्धदग्धान्यर्धभस्मीभूतान्यत एव मिसमिसाय [^1]मानानि मिसमिसेतिशब्द-
आचरमाणानि समित्कुशकुसुमानि यस्मिन्स तम् । उपेति । उपले दृषदि भन्ग्नानि द्वैधीकृतानि नालिके-
राणि लाङ्गलीफलानि तेषां यो रसो द्रवस्तेन स्निग्धं चिक्कणं शिलातलं यस्मिन्स तम् । अन्चिरेति । अचि-
क्षुण्णानि [^2]तत्काल मर्दितानि यानि वल्कलानि तेषां रसस्तेन पाटलं श्वेतरक्तं भूतलं यस्मिन्स तम् । रक्तेति ।
क्तचन्दनं पत्राङ्गं तेनोपलिप्तमालिप्तमालिखितं यदादित्यमण्डलमेव मण्डलकं तस्मिन्निहितानि स्थापितानि
करवीरो हयमारस्तस्य कुसुमानि पुष्पाणि यस्मिन्स तम् । इति । इतस्ततो विक्षिप्तं यद्भस्
मपूतिस्तस्य
लेखा तथा कृतो विहितो मुनिजनभोजनभूमेः परिहारो निषेधो यस्मिन् । भस्मलेखाङ्कितायां भूमौ
केनातिपि नागंतव्यमिति भावः । यद्वा भस्मनो या लेखा घर्षस्तेन कृतो मुनिजनभोजनभूमे रुच्छिष्टभूमेः
रिहारो मार्जनं यस्मिन् । दृश्यते हि भोजनान्ते भस्मना मार्जनं पश्चाद्गोमयेनोपलेपनमिति । परिचितेति ।
रिचिताः संजातपरिचया ये शाखामृगास्ताम्रमुखाः श्याममुखा वा वानरास्तेषां कराकृष्ट्या हस्तावलम्बेन
निष्कास्यमानाः प्रवेश्यमानाश्च जरन्तोऽन्धाश्च तापसा यस्मिन् । इभेति । मृणाल- शकलैर्निबिसखण्डैः कल्माषितं
वेनित्रितम् । कीदृशैरिव । सरस्वती देवी तस्या भुजलते बाहुलते ताभ्यां विगलितः स्रस्तैः शङ्खवलयै
रि
व वरेखकटकैरिव: । बिसानां स्वतो भूमिपातो न स्यादित्याह - इभेति । इभकलभानां यदर्थोधोपभु [^3]क्तमर्ध-
र्वितं तस्मात्पतितैः स्रस्तैः । ऋषीति । ऋषिजनार्थं मुनिजनकृत एणकैर्हरिणै- र्विषाणशिखरैः शृङ्गप्रान्तैरु
त्खन्यमानानि विविधानि विचित्राणि कन्दमूलानि यस्मिन् । अम्बुपूर्णेति । अम्बुभिर्जलैः पूर्णानि भृतानि
करपुटा झुशुण्डाग्राणि । 'शुण्डाग्रं त्वस्य पुष्करम्' इति कोशः । येषामेतादृशैर्वनकरिभिररण्यहस्ति-
भिरापूर्यमाणानि श्भ्रियमाणानि विटपानां वृक्षाणामालवालकान्यावापस्थानकानि यस्मिन् । एतेन शाखामृग-
रिणगजानामपि बुद्धिपूर्वकयथोचितकार्यकर्तृत्वं सूचितम् । ऋषीति । ऋषिकुमार
कैर्मुनिशिशुभिराकृष्य-
रा
माणानि वनवराहदंष्ट्रान्तराललग्नानि शालूकान्युत्प [^4]लानां कन्दा यस्मिन् । 'उत्पलानां तु शालूकम्' इति
 
टिप्प० - [^1]F. सिमसिमेत्येव कविसंमतः पाठः, आर्द्रवस्तुदहने 'सिमसिम' इति शब्द एवं कविमा-
नुि
र्धुनुयातः । 'सिमसिमाकारि चक्षुस्तृतीयम्' इत्यनघैर्घराघवम् ।
[^
2]F. तत्कालं वृक्षेभ्यो निष्कासितानीत्यर्थः ।
[^3]F. इभकलभैरर्थोधोपभुक्तानि च तानि पतितानि । इभकलभैः पूर्वम् अर्धमुपभुक्तानि पश्चात्पतितानीत्यु-
वे
तोर्थः ।
[^
4]F. पङ्कशूरणं शालूकं, तदेव वराहैर्भुज्यते, न जलजानाम् ।
 
पाठा० - [^]G. सिमसिमायमान; सिमिसिमायमान; मिसिमिसायमान .
[^
]G. कुशसमित्.
[^
]G. नारिकेल .
[^
]G. मण्डलनि-
त,
त.
[^
]G. अलंकृत, .
[^
]G. भूमिभागम् .
[^
]G. कराकृष्टयष्टि; कराकृष्ट, .
[^
कलमक, ]G. कलभक.
[^
]G. बाहुलताविभूषणैः.