कादम्बरी /117
This page has been fully proofread once and needs a second look.
[ कथामुखे-
मिततलाभिर्दण्डकारण्यस्थली
म
ण्डिमैण्डल श्रयमाणजल कलशपूरणध्वानम्, अनवरसाज्याहुतिप्रीतश्चित्रभानुभिः सशरीरमेव
मुनिजनममरलोकं निनीषुभिरुद्धूयमानधूमलेखाच्छलेनाबध्यमानस्वर्ग मार्गगमनसोपान सेतु-
१
.
१
लकुलानि पिककुलानि तेषां कलापः समूहस्तस्य कोलाहलः कलकलो येषु तैः । उत्फुल्ला विकसिता याः केत-
क्यो मालत्यस्तासां रजःपुञ्जः परागसमूहस्तेन चिरैः पीतरक्तैः । पूगीलताः ऋमुकलता एव दोलाः प्रेङ्खास्ता-
धिरूढा आश्रिता वनदेवता अरण्याधिष्ठात्र्यो देवता बेषु तैः । पुनः कि कुर्वद्भिः । अनवरतं निर-
तरमनिलचलितं बायुधूतमतिधवलमतिपाण्डुरं कुसुमनिकरं पुष्पसमूहमुत्सृजद्भिर्विकिरद्भिः । किमिव ।
तारकावर्षमिवोल्कापातमिन । तदपि किंचिदनिष्टस्य सूचकं भवति । इदमपि तथेत्याह--अधर्मेति ।
अधर्मस्या शिष्टाचारस्य विनाशोऽभावस्तस्य पिशुनं सूचकम् । एतेन सर्वथाsधर्माभावोऽत्रेति ध्वनितम् ।
संरक्ता अन्योन्यं मिलितांः पादपा वृक्षा येषु तैः । पुनः कीदृशम् । दण्डकारण्यं प्रसिद्धं तस्य याः स्थल्यः
स्थूलभूमयस्ताभिरुपशोभितः शोभां प्रापितः प्रान्तः पश्चाद्भागो यस्य स तम् । अतः स्थल्या विशेषणानि -
अचकितेत्यादि । अचकिता अत्रस्ताः प्रचलिता गच्छन्तो ये कृष्णसाराः कृष्णमृगास्तेषां शतं दशशत-
गुणितास्तेन शबलाभिः किमराभिः । उत्फुल्ला विकसिता याः कमलिन्यो नलिन्यस्ताभिर्लोहिनीभी रक्ताभि-
मरीचनामा यो मायामृगस्तेनावलूनानि छिन्नानि रूढवीरुधां संजातनलीनां दलानि पर्णानि यासु ताभिः ।
दाशरथी रामचन्द्रस्तस्य चापकोट्या क्षता उत्खाता ये कन्दा मूलानि तेभ्यो ये गर्ता भुवो
विवराणि तैर्विषमितमुचनीचतां प्राप्तं तलं यासु ताभिः । पुनः कीदृशम् । मुनिभिः करणभूतैरशून्यमुपकण्ठं
समीपं यस्य स तथा तम् । यथाक्रमं मुनीनां त्रीणि विशेषणानि व्याख्यापयजाह- आगृहीतेति ।
आगृहीता आत्ताः समिध एधांति, कुशा दर्भाः, कुसुमानि पुष्पाणि, मृदो भृत्तिका यैस्ते तथा तैः । अध्ययनेन
वेदपारायणेन मुखरा बाचाला मे शिष्या विनेयास्तैरनुगतैः सहितैः सर्वतोऽभितः प्रविशद्भिः प्रवेशं कुर्वद्भिः ।
तद्गतपदार्थप्रदर्शनपूर्वकं पुनर्निशिनष्टि - उत्कण्ठीति । उत्कण्ठिना हृल्लेखवता शिखण्डिमण्डलेन मयूरसमू-
हेन भूयमाण आकर्ण्यमानो जलेषु कलशपूरणध्वानः शब्दो यस्मिन्स तम् । अनवरतं निरत्ययमाज्येन सर्पिषा
याहुतिर्हवनं तया प्रीतैः संतुष्टैश्चित्रभानुभिर्वह्विभिः सशरीरमेन सविग्रहमेन मुनिजनमृषिवर्गममरलोकं
स्वर्गलोकं निनीषुभिर्नेतुमिच्छुभिरुद्धूयमाना कम्पमाना या धूमलेखा दहनकेतनवीथी तस्याश्छलेनाबध्यमानो
विरच्यमानः स्वर्गमार्गगमनसोपानसेतुरिव स्वर्गस्य त्रिबिष्टपस्य यो मार्गः पन्थास्तत्र गमनं तदर्थ सोपानसे-
टिप्प० -1 'केवडा' इति प्रसिद्धपुष्पानुकारि भिनमिदं कुसुमम् । 2 नक्षत्रवृष्टिमिव इत्युचितोर्थः,
श्वेतानां पुष्पाणां तारकोपमितत्वात् । 3 उत्कण्ठितेन शिखण्डिमण्डलेन श्रूयमाणो जलकलशपूरण
ध्वानो यस्मिन्, कलशपूरणध्वनौ मेघगर्जनभ्रमात् मयूराणामुत्कण्ठेत्यर्थः । ततश्च उत्कण्ठितेत्येव
पाठः समुचितः ।
पाठा०. १ कलालाप. २ केतकी कुसुममञ्जरीरजः, केतकमञ्जरीरज:. ३ दृष्टि. ४ पादपैरुपगूढम्.
५ सारसारङ्ग • ६ स्थलकमलिनी. ७ मारीचि. ८ प्ररूढ. ९ कन्दर. १० मृत्तिकै: • ११ शिष्यागतैः
१२ प्रसरद्भिः. १३ अविशून्य. १४ उत्कण्ठ १५ मण्डलीमण्डल.