This page has not been fully proofread.

जाबाल्याश्रमः ]
 
पूर्वभागः ।
 
रायां छायामां निधाय खोचितमकरोत्सानविधिम् । अभिषेकावसाने चानेकप्राणाया
मँपूतो उपन्पवित्राण्यघमर्षणानि प्रत्यप्रभभैरुन्मुखो रक्तारविन्दैर्नलिनीपत्रपुटेन भगव
सचित्रे दत्त्वॉर्घमुदतिष्ठत् । गृहीत धवलवस्कलब्ध सँहज्योत्स्न इव संध्यातपः करतल
निर्धूर्ननविशदसट: प्रेत्यप्रसानाईजटेन सकलेन तेन मुनिकुमारं
कदम्बकेनानुगम्यमानो म
गृहीत्वा तपोवनाभिमुख शनैरगच्छत् ।
 
अनतिदूरमिव गत्वा दिशि दिशि सदा संनिहितकुसुम फेलैखाल तिलकतैमालहिन्तालबकु
लबहुलैरेलालताकुलितनलिकेरी कलापैर्लोललोधल वली लवङ्ग पल्लवैरुलसित
चूतरेणुपटलैरलिकु.
 
.
 
प्ररूढस्य जातस्य नवनलिनीदलस्य प्रत्यग्रपद्मिनीपत्रस्य जलेन पानेन शिशिरायां शीतलायां छायायाम् । वैश्
म्पायन इत्यभिधा नाम यस्यैवंविधं शुकं निधाय स्थापनां कृत्वैतदभिधानोऽयमिति स्वोचितं स्वस्योचितं योग
स्नानविधिमकरोदसृजत् । अभिषेकस्य स्नानस्यावसाने प्रान्ते । चः पुनरर्थे । उदतिष्ठदुस्थितो बभूवेत्यन्वयः
हारीतं विशिनष्टि - अनेकैरिति । अनेकैर्बहुभिः प्राणायामैः प्राणयमैः पूतः पवित्रः । किं कुर्वन् । जपन्स्म
रन् । कानि । अघमर्षणान्यब्देवतास्तुतिरूपाणि 'सर्वेनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्' इति कोशः
कीदृशानि । पवित्राणि स्वत एव विशदानि । कीदृक् । उन्मुख ऊर्ध्वमुखः । नलिनीति । नलिन्याः कमलिन्या
पत्रपुटेनाधारभूतेन प्रत्यग्रभन्नैस्तत्कालगृहीतै रक्तारविन्दै रक्तकमलैराधेयभूतैर्भगवते माहात्म्यवते सवित्रे श्रीसू
र्यायाध पूजां दत्त्वा वितीर्य । अन्वयस्तु प्रागेवोक्तः । कीदृक् । आगृहीतेति । स्नानानन्तरमागृहीतं स्वीकृत
धौतं क्षालितमत एव धवलं शुभ्रं वल्कलं चोचं येन स तथा । सहज्योत्स्न इति । सह ज्योत्स्नयः कौमुद्य
वर्तते यः स एवंभूतः संध्यातपः सायंकालीनसूर्यातप इव । करतलेति । करतलेन हस्ततलेन यन्निधूंननमा
च्छोटैनं तेन विशदा निर्मला जटा सटा यस्य सः । प्रत्यग्रं तत्कालं स्नानेनार्द्राभूता जटा सटा यस्य स
तथा तेन । सकलेन समग्रेण मुनिकुमारकदम्बकेन तापसशिशुसमूहेनानुगम्यमानः । मामिति । मां वैश
म्पायनं गृहीत्वादाय तपोवनाभिमुखं स्वाश्रमसंमुखं शनैर्नातिवेगेन गच्छदन्वैतिष्ठत् ।
 
>
 
अनतिदूरमिव गत्वां । दविष्ठं पन्थानमतिक्रम्येत्यर्थः । अहमाश्रमं मुनिस्थानमपश्यमिति दूरेणान्वयः
कीदृशम् । काननैर्वनैरुपगूढं व्याप्तम् । अथ वनविशेषणानि व्याख्यापयन्नाह - दिशीत्यादि । दिशि
दिशि प्रतिदिशं सदा सर्वकालं संनिहितानि हस्तमायाणि कुसुमफलानि येषां तैः । तालस्तृणराजः, तिलक
श्रीमान्, तमालस्तापिच्छः, हिन्तालो वृक्षविशेषः, बकुलः केसरः एतैर्बहुलैर्दृढैः । 'नीरन्ध्र बहुलं दृढम्
इति कोशः । एलायाश्चन्द्रवालाया या लता वलयस्ताभिराकुलितो व्याप्तो नालिफेरीकलापो लाङ्गलीसमूह
येषु तैः । लोलाश्चपला लोध्रो गालवः, लवली लताविशेषः, लवङ्गः श्रीसंज्ञः, एतेषां पलवा येषु तैः । उल्लसि
तानि बहिर्निर्गतानि चूतरेणुपटलान्याम्रपरागपुजानि येषु तैः । अलिकुलानां भ्रमरसमूहानां झङ्कारेण झङ्कृति
शब्देन मुखरा वाचालाः सहकारा येषु तैः । आम्रेष्वतिसौरभो यः स सहकार इति पूर्वस्माद्भेदः । अतो
पौनरुक्त्यम् । 'आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । उन्मदा नि मदोन्मत्तानि यानि कोकि
 
टिप्प०-1 सलिलेन शीतलायामित्यर्थः । 2 आस्फालनम् 'फटकारना' हिन्दी ।
इत्याशयः । अनुपूर्वकस्य तिष्ठतेरत्र ग्रहणं भ्रामकम् ।
 
3 अवज
 
पाठा० -१ समुपचितम्; यथासमुपचितम् २ अभिमताभिषेक ३ पूजित: ; पूतोऽपि ४ जपन्नघमर्षणानि
५ अर्ध्यम्. ६ आगृहीतधवला; आगृहीतधवलधौत. ७ सज्योत्लः. ८ निर्धूतविशद. ९ कमण्डलुमापूर
कमलकिअल्कसुरभिणा शुचिना सरोवारिणा प्रत्यय. १० कुमारक. ११ शनैः शनैः . १२ पटलै: १३ ताली
तमाल. १४ नारिकेल. १५ आलोल, १६ पुष्पैः, १७ उल्लसत्.