2023-10-30 13:13:20 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथामुखे-
'अयं कथमपि
 
प्रायेणाकारणमित्राण्यतिकरुणार्द्राणि सं[^१]सदा खलु भवन्ति सतां चेतांसि । यतः स मां तद्-
वस्थमालोक्य समुपजात [^२]करुणः [^३]समीपवर्तिनमृषिकुमारकमन्यतममत्ब्रवीत्-
'अयं कथमपि
शुकशिशुर
संजातपक्षपुट एव तरुशिखराद
स्मात्परिच्युतः । श्येनमुखपरिभ्रष्टेन वानेन [^४]भवि-
तव्यम् । तथा हि—अतिद्वी- यस्तया प्रपात [^५]स्याल्पशेषजीवितोऽयमामीलितलोचनो मुहु- र्मुहु-
र्मुखेन पं[^६]पतति, मुहुर्मुहुरत्युल्बणं [^७]श्वंसिति, मुहुर्मुहुश्च -
ञ्चु
पुढंटं विवृणे. णोति, न शक्नोति शिरोधरां
धारयितुम् । तदेहि । यावदेवायमसुभिर्न वि [^८]मुच्यते, तावदेव गृहाणेमै [^९]मम् । अवतारय सलि-
लसमीपम्' इत्यभिधाय तेन मां सरस्तीरमनाययत् । [^१०]उपसृत्य च जलसमीप मेक देशनिहित -
दण्डकमण्डलुरादाय स्वयं [^११]मामामुक्तप्रयत्न [^१२]मुत्तानि
त [^१३]मुखमङ्गुल्या कतिचित्सलिल बिन्दूनपा-
ययत् । अम्भःक्षोदकृतसेकं [^१४]चोपजात नवीनप्राणमुपतटप्ररूढस्य नै[^१५]नवनलिनीदलस्य जलशिशि-
८२
 

 
[ टि ]--
परित्यक्तं वामं वक्रं लोचनमालोकनं येनेत्यर्थः । यद्वा ब्रह्मचारित्वात्परित्यक्तं वामायां मनखिस्विन्यां लोचनं येनेत्यर्थः ।

प्रायेणेति । प्रायेण बाहुल्येनाकारणमित्राणि निदानव्यतिरेकेण प्रियकारीण्यतिशयेन करुणा परदुःख-
प्रहाणेच्छा तयार्द्राणि खिन्नानि खलु निश्चयेन सदा सर्वकालं सतां सज्जनानां चेतांसि मनांसि भवन्ति ।
यतः स मुनिसुतो हारीताख्यो मां तदवस्थं कष्टदशांशा- पन्नमालोक्य निरीक्ष्य सगुपजाता सम्यक्प्रकारेणोत्पन्ना
करुणा कृपा यस्यैवंभूतः समीपवर्तिनं निकटस्थायिनमृषिकुमारकुमन्यतमं मुनिसुतमब्रवीदवोचत् । अयं
प्रत्यक्षगतः कथमपि महता कष्टेन शुकशिशुः कीरपोतोऽसंजातपक्षपुट एवासमुत्पन्नच्छद एवास्मात्तरु शिखरा-
द्वृक्षप्रान्सातातत्परिच्युतः स्रस्तः । वाथवानेन कीरेण श्येनः सिञ्चानकस्तस्य मुखादाननात्परिभ्रष्टेन पतितेन भवि-
तव्यम् । तदेव दर्शयति — तथा हीति । अतिदवीयो द्वाराघीयस्तस्य भावस्तत्ता तया
[^1]प्र
पातस्य प्रपतनस्याल्पं
शेषमुद्वतिंरितं यस्मिन्नेवंविधं जीवितं यस्यैवंभूतोऽयमामीलिते संकुचिते लोचने नेत्रे यस्य स तथा मुहुर्मुहुर्वा -
रँ
रंवारं मुखेन पतति । अयं पक्षिणां जातिस्वभावः । मुहुर्मुहुरत्युत्ल्बणमुत्कटं श्वसिति प्र[^2]प्राणिति । मुहुर्मुहुश्चञ्चुपुढं
चोट
टं
त्रोटि
पुट विवृणोति विकासयति । न शक्नोति न समर्थो भवति शिरोधरां ग्रीवां धारयितुं स्थापयितुम् ।
तदिति । तत् पूर्वोक्तहेतो- रेह्यागच्छ । यावदेवायं यावत्कालमयं शिशुरसुभिः प्राणैर्न विमुच्यते न विश्लेषं
प्राप्नोति तावदेव तावत्कालं गृहाणेमं शुकम् । अवतारय प्रापय सलिलसमीपं पानीयसविधमिति पूर्वोक्तप्रका-
रेणाभिधा- योक्त्वा तेनर्षिपुत्रेण मां सरस्तीरं कासारतटमनाययस्त्प्रापयत् । उपसृत्य प्राप्य च जलसमी-
पम् । एकेति । एकदेशेऽन्यतरस्मिन्प्रदेशे निहितौ स्थापितौ दण्डकमण्डलू येन स तथा तत आदाय गृहीत्वा

माम् । कीदृशम् । आमुक्तः परित्यक्तः प्रयत्नोऽन्नपानाद्यनुकूल- शारीरक्रियारूपो येन तम् । उत्तानितमूव-
र्ध्वीकृतं मुखमास्यं येन स तम् । स्वयमात्मनाङ्गुल्या करशाखया कतिचित्कियतः सलिलबिन्दून्पानीयपृषतो-
ऽपाययज्जलपानमकारयत् । अम्भसः पानीयस्य [^3]क्षोदेनं हस्तच्युतेन कृतो विहितः सेकः सिञ्चनं यस्य स तम् ।
शुकपोतं विशेषयन्नाह - उपेति । उपजाता नवीना नवाः प्राणा असतोवो यस्यैवंविधं मामुपतटं तटसमीपं
 
टिप्प० --

 
[^
1]F. प्रपातस्य अतिदवीयस्तया प्रपतनस्थानस्य अतिदूरवर्ति- तयेत्याशयः ।
[^
2]F. श्वासान्मुञ्चती-
त्यर्थः ।
[^
3]F. चूर्णवदतिसूक्ष्म बिन्दुच्छुरणेन, 'चूर्णे क्षोदः' इत्यमरः ।
 
and
 
पाल० -

 
[^
]G. च सदा भवन्ति सतां चेतांसि; सतां खलु भवन्ति सदा चेतांसि .
[^
]G. दयः .
[^
]G. समीपतर.

[^
]G. प्रायो भवितव्यम्.
[^
]G. अस्याल्पशेषं जीवितम् .
[^
वमति. ]G. वमति.
[^
]G. निश्वसिति.
[^
]G. वियुज्यते .
[^
]G. एनम् .
[^
१०]G. उपसृत्य
जल.
[^
११]G. मुक्तं.
[^
१२]G. उन्नमितम्.
[^
१३]G. मन्मुखम् .
[^
१४]G. समुपजातप्राणम्; समुपजातप्रज्ञम् .
[^
१५]G. नलिनीपलाशस्य.