कादम्बरी /115
This page has not been fully proofread.
कादम्बरी ।
[ कथामुखे-
'अयं कथमपि
प्रायेणाकारणमित्राण्यतिकरुणार्द्राणि संदा खलु भवन्ति सतां चेतांसि । यतः स मां तद्-
वस्थमालोक्य समुपजातकरुणः समीपवर्तिनमृषिकुमारकमन्यतममत्रवीत्-
शुकशिशुर
संजातपक्षपुट एव तरुशिखराद
स्मात्परिच्युतः । श्येनमुखपरिभ्रष्टेन वानेन भवि-
तव्यम् । तथा हि—अतिद्वीयस्तया प्रपातस्याल्पशेषजीवितोऽयमामीलितलोचनो मुहुर्मुहु-
मुखेन पंतति, मुहुर्मुहुरत्युल्बणं श्वंसिति, मुहुर्मुहुश्च पुढं विवृणे. ति, न शक्नोति शिरोधरां
धारयितुम् । तदेहि । यावदेवायमसुभिर्न विमुच्यते, तावदेव गृहाणेमैम् । अवतारय सलि-
लसमीपम्' इत्यभिधाय तेन मां सरस्तीरमनाययत् । उपसृत्य च जलसमीप मेक देशनिहित -
दण्डकमण्डलुरादाय स्वयं मामामुक्तप्रयत्नमुत्तानि
मुखमङ्गुल्या कतिचित्सलिल बिन्दूनपा-
ययत् । अम्भःक्षोदकृतसेकं चोपजात नवीनप्राणमुपतटप्ररूढस्य नैवनलिनीदलस्य जलशिशि-
८२
परित्यक्तं वामं वक्रं लोचनमालोकनं येनेत्यर्थः । यद्वा ब्रह्मचारित्वात्परित्यक्तं वामायां मनखिन्यां लोचनं येनेत्यर्थः ।
प्रायेणेति । प्रायेण बाहुल्येनाकारणमित्राणि निदानव्यतिरेकेण प्रियकारीण्यतिशयेन करुणा परदुःख-
प्रहाणेच्छा तयार्द्राणि खिन्नानि खलु निश्चयेन सदा सर्वकालं सतां सज्जनानां चेतांसि मनांसि भवन्ति ।
यतः स मुनिसुतो हारीताख्यो मां तदवस्थं कष्टदशांपन्नमालोक्य निरीक्ष्य सगुपजाता सम्यक्प्रकारेणोत्पन्ना
करुणा कृपा यस्यैवंभूतः समीपवर्तिनं निकटस्थायिनमृषिकुमारकुमन्यतमं मुनिसुतमब्रवीदवोचत् । अयं
प्रत्यक्षगतः कथमपि महता कष्टेन शुकशिशुः कीरपोतोऽसंजातपक्षपुट एवासमुत्पन्नच्छद एवास्मात्तरुशिखरा-
वृक्षप्रान्सात्परिच्युतः स्रस्तः । वाथवानेन कीरेण श्येनः सिञ्चानकस्तस्य मुखादाननात्परिभ्रष्टेन पतितेन भवि-
तव्यम् । तदेव दर्शयति — तथा हीति । अतिदवीयो द्वाघीयस्तस्य भावस्तत्ता तया पातस्य प्रपतनस्याल्पं
शेषमुद्वतिं यस्मिन्नेवंविधं जीवितं यस्यैवंभूतोऽयमामीलिते संकुचिते लोचने नेत्रे यस्य स तथा मुहुर्मुहुर्वा -
रँवारं मुखेन पतति । अयं पक्षिणां जातिस्वभावः । मुहुर्मुहुरत्युत्बणमुत्कटं श्वसिति प्रणित । मुहुर्मुहुश्चचुपुढं
चोटपुट विवृणोति विकासयति । न शक्नोति न समर्थो भवति शिरोधरां ग्रीवां धारयितुं स्थापयितुम् ।
तदिति । तत् पूर्वोक्तहेतोरेह्यागच्छ । यावदेवायं यावत्कालमयं शिशुरसुभिः प्राणैर्न विमुच्यते न विश्लेषं
प्राप्नोति तावदेव तावत्कालं गृहाणेमं शुकम् । अवतारय प्रापय सलिलसमीपं पानीयसविधमिति पूर्वोक्तप्रका-
रेणाभिधायोक्त्वा तेनर्षिपुत्रेण मां सरस्तीरं कासारतटमनाययस्प्रापयत् । उपसृत्य प्राप्य च जलसमी-
पम् । एकेति । एकदेशेऽन्यतरस्मिन्प्रदेशे निहितौ स्थापितौ दण्डकमण्डलू येन स तथा तत आदाय गृहीत्वा
माम् । कीदृशम् । आमुक्तः परित्यक्तः प्रयत्नोऽन्नपानाद्यनुकूलशारीरक्रियारूपो येन तम् । उत्तानितमूव-
कृतं मुखमास्यं येन स तम् । स्वयमात्मनाङ्गुल्या करशाखया कतिचित्कियतः सलिलबिन्दून्पानीयपृषतो-
ऽपाययज्जलपानमकारयत् । अम्भसः पानीयस्य क्षोदेनं हस्तच्युतेन कृतो विहितः सेकः सिञ्चनं यस्य स तम् ।
शुकपोतं विशेषयन्नाह - उपेति । उपजाता नवीना नवाः प्राणा असतो यस्यैवंविधं मामुपतटं तटसमीपं
टिप्प० -- 1 प्रपातस्य अतिदवीयस्तया प्रपतनस्थानस्य अतिदूरवर्तितयेत्याशयः । 2 श्वासान्मुञ्चती-
त्यर्थः । 3 चूर्णवदतिसूक्ष्म बिन्दुच्छुरणेन, 'चूर्णे क्षोदः' इत्यमरः ।
and
पाल० - १ च सदा भवन्ति सतां चेतांसि; सतां खलु भवन्ति सदा चेतांसि २ दयः ३ समीपतर.
४ प्रायो भवितव्यम्. ५ अस्याल्पशेषं जीवितम् ६ वमति. ७ निश्वसिति. ८ वियुज्यते ९ एनम् १० उपसृत्य
जल. ११ मुक्तं. १२ उन्नमितम्. १३ मन्मुखम् १४ समुपजातप्राणम्; समुपजातप्रज्ञम् १५ नलिनीपलाशस्य.