2023-10-30 11:28:36 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

हारीतः[^१]
 
पूर्वभागः ।
 
८१
 
पिङ्गलवातारकः, प्रभातकाल इव बालातपकपिलः, रविरथ इव टेउ[^२]दृढनियमिताक्षचक्रः, सुराजेव
निगूढमन्त्रसाधन क्षै- [^३]क्षपित विग्रहः, [^४]जलनिधिरिव कराल [^1]ङ्ख मण्डलावर्त [^५]गर्तः, भगीरथ [^६]इवासकडू-
द्दृष्टगङ्गावतारः [^६]भ्रमर इवासकृदनुभूपुष्करवनवासः वनचरोऽपि कृत- महालयप्रवेशः, असं
यतोऽपि मोक्षार्थी, सामप्रयोगपरोऽपि सततावलम्बितदण्डः, सुप्तोऽपि प्रबुद्धः, संनिहितने-
त्रयोऽपि परित्यक्तवामलोचनस्तदेव कमलसरः सिखास्नासुरुपागमत् ।
 

 
[ टि ]--
रविरथ इति । रवेः सूर्यस्य यो रथः स्यन्दनस्तद्वदिव । उभयोः साम्यमाह - अक्षेति । दृढं यथा स्यात्तथा
नियमितं निबद्धमक्षाणमिन्द्रियाणां चक्रं समूहो येन सः । पक्षे दृढे नियमिते अक्षचक्रे यस्मिन्निति विग्रहः ।
तत्राक्षो मध्यप्रदेशः । चक्रं प्रसिद्धम् । सुराजेवेति । सुष्टु शोभनो यो राजा नृपतिस्तद्वदिव । तयोः

साम्यमाह - निगूढेति । निगूढं रहो यन्मन्त्रसाधनं देवताराधनं तेन क्षषिपितः कृशतां नीतो विग्रहः शरीरं
येन सः । पक्षे निगूढोऽतिगुप्तो मन्त्रो रहस्यालोचनं साधनं गजाश्वादि ताभ्यां क्षपितः क्षयं नीतो विग्रहः
शत्रुजनितक्लेशो येनेति विग्रहः । जलनिधिरिति । जलनिधिः समुद्रस्तद्वदिव । उभयोः सादृश्यमाह-
करालेति । करालं यच्छङ्खमण्डलं भालश्रवोन्तरं तत्रावर्तेन गर्योतो यस्य स तथा । तादृशावर्तश्च महातपखिल-
स्विलक्षणम् । पक्षे करालानि जिह्मानि यानि शङ्खमण्डलानि षोडशावर्तवृन्दान्यावर्तः पयसां भ्रमश्च एते गर्ते अगा-
प्रदेशे यस्येति विग्रहः । भगीति । भगीर: सरप्रपौत्रसद्वदिव । उभयोः सादृश्यमाह - असकृदिति ।
असकृन्निरन्तरं दृष्टोऽवलोकितो गङ्गाया अवतारो घट्टो येन सः । 'घट्टस्तीर्थावतारे' इति कोशः । पक्षे
[^3]असकृत् दृष्टो गङ्गाया अवतारः प्रभवो येनेति विग्रहः । भ्रमर इति । भ्रमरो मधुकृत्तद्वदिव । उभयोः
साम्यमाह - असकृदिति । असकृद्वारंवारमनुभूतोऽनुभवविषयी- कृतः पुष्करं जलं तेन सहितं यद्वनं तत्र
वासो वसतिर्येन सः । पक्षेऽनुभूतः पुष्करवनं कमलखण्डस्तत्र वासो येनेति विग्रहः । वनेति । वने चरतीति
वनचरः । एवंभूतोऽपि कृतो महालयेषू- चैस्तरगृहेषु प्रवेशो रोयेनेति विरोधः । परिहारपक्षे महालयो ब्रह्मणि

लयः । तदुक्तम् –'अधोमुख्या कुण्डलिन्योर्ध्वं मुखे कृते सति ब्रह्मरन्ध्रपर्यन्तं नीतायां तस्यामेकान्तेनाव-
स्थानं ब्रह्मणि लयः' इति । यद्वा महालयो मोक्षस्तत्र कृतवसतिरित्यर्थः । असंयतेति । असंयतोऽसंयमवा-
नपि मोक्षार्थी मोक्षाभिलापुषुक इति विरोध । तत्परिहारपक्षेऽसंयतोऽबद्धोऽपीत्यर्थः । 'संदानितः संयतश्च'

इत्यभिधानचिन्तामणिः । सामेति । साम सान्त्वनं तत्प्रयोगपरोऽपि मैत्रीप्रयोगतत्परोऽपि सततं निर-
न्तरमवलम्बित आश्रितो दण्डो राजदेयद्रव्यं येनेति विरोधः । तत्परिहारपक्षे सामवेदप्रयोगपरोऽपि सततम-
लम्बोबितो ण्डो यष्टिर्येनेति विग्रहः । सुप्त इति । सुप्तोऽपि निद्विरितोऽपि प्रबुद्धो जाग्रदवस्थ इति विरोधः ।
परिहारपक्षे कुसुष्टु शोभना सोसुप्ता: जटा यस्येति विग्रहः । क्ष्यं च – 'राजा राजार्चितानेङ्घ्रेरनुपचितकलो यस्य
चूड़ाडामणित्वं न.प. नागात्मजार्थंधं न भसितधवलं यद्वपुर्भूषयन्ति । मा रामारागिणी भून्मतिरिति यमिनां येन
वोऽदाहि मारः सप्ताः सप्ताश्वानुन्नारुणकिरणनिभाः पातु बिभ्रन्त्रिनेत्रः ॥ इति शृङ्गारतिलकटीकायाम् । तथा

'सालिग सदाप्ता परिकरमुदिता' इति शोभनस्तुतौ लक्ष्यान्तरमपि । संनिहित इति । सम्यक्प्रकारेण
निहितं स्थापितंने लोचनव्द्वयं येनैवंभूतोऽपि [^4]परित्यक्तं दूरीकृतं वामलोचनं येनेति विरोधः । परिहारपक्षे
 
टिप्प० -

 
[^
1]F. करालः उन्नतानतो यः शङ्खः तस्य मण्डलावर्तवत्
( मण्डलाकार भ्रमिरेखावत् ) ना-
भिगर्योतो यस्य सः (jमुनि), करालशङ्खः बृहच्छङ्गःख; मण्डलावर्तो मण्डलाकारेण जलभ्रमश् नाभिगर्तस्थाना-
पन्नो यम्मस्य सः ( जलनिधिः ), ततश्च 'मण्डलावर्त- नाभिगर्तः' इत्ये मूलपाठः समञ्जसः ।
[^
2]F. भगीरथ इव
८९
दृष्टगङ्गावतारः इत्येव पाठः समुचितः, भगीरथपक्षे असकृत्पदस्य स्वारस्याभावात् ।
[^
3]F. सुप्तो बाह्यविष-
येषु निद्विरितवत् असं कोसक्तोपि प्रतुबुद्धः परमात्मविषयकाकज्ञाने जागरूक: 'या निशा सर्वभूतानां तस्यां जागर्ति
संयोयमी' । इति स्पष्टोर्थः ।
[^
4]F. परिवका बात्यक्ता वामलोचना कामिनी येन सः इति रूप स्पष्टोऽर्थः ।
 
पाठा०—

 
[^
पे]G. पिशङ्ग .
[^
]G. नियमित; दृढसंयमित .
[^
]G. क्षवित .
[^
]G. जलगि .
[^
]G. नाभिगर्त: .
[^
]G. दृष्
[^
]G. मधुकर.
 
20
 
का० ११