This page has not been fully proofread.

हारीतः]
 
पूर्वभागः ।
 
८१
 
पिङ्गलवारकः, प्रभातकाल इव बालातपकपिलः, रविरथ इव टेउनियमिताक्षचक्रः, सुराजेव
निगूढमत्रसाधन क्षैपित विग्रहः, जलनिधिरिव करालशण्डलावर्तगर्तः, भगीरथ ईवासकडू-
गङ्गावतारः भ्रमर इवासकृदनुभूनपुष्करवनवासः वनचरोऽपि कृतमहालयप्रवेशः, असं
यतोऽपि मोक्षार्थी, सामप्रयोगपरोऽपि सततावलम्बितदण्डः, सुप्तोऽपि प्रबुद्धः, संनिहितने-
त्रयोऽपि परित्यक्तवामलोचनस्तदेव कमलसरः सिखासुरुपागमत् ।
 
रविरथ इति । रवेः सूर्यस्य यो रथः स्यन्दनस्तद्वदिव । उभयोः साम्यमाह - अक्षेति । दृढं यथा स्यात्तथा
नियमितं निबद्धमक्षाणमिन्द्रियाणां चक्रं समूहो येन सः । पक्षे दृढे नियमिते अक्षचक्रे यस्मिन्निति विग्रहः ।
तत्राक्षो मध्यप्रदेशः । चक्रं प्रसिद्धम् । सुराजेवेति । सुष्टु शोभनो यो राजा नृपतिस्तद्वदिव । तयोः
साम्यमाह - निगूढेति । निगूढं रहो यन्मन्त्रसाधनं देवताराधनं तेन क्षषितः कृशतां नीतो विग्रहः शरीरं
येन सः । पक्षे निगूढोऽतिगुप्तो मन्त्रो रहस्यालोचनं साधनं गजाश्वादि ताभ्यां क्षपितः क्षयं नीतो विग्रहः
शत्रुजनितक्लेशो येनेति विग्रहः । जलनिधिरिति । जलनिधिः समुद्रस्तद्वदिव । उभयोः सादृश्यमाह-
करालेति । करालं यच्छङ्खमण्डलं भालश्रवोन्तरं तत्रावर्तेन गर्यो यस्य स तथा । तादृशावर्तश्च महातपखिल-
क्षणम् । पक्षे करालानि जिह्मानि यानि शङ्खमण्डलानि षोडशावर्तवृन्दान्यावर्तः पयसां भ्रमश्च एते गर्ते अगा-
प्रदेशे यस्येति विग्रहः । भगीति । भगीर: सरप्रपौत्रसद्वदिव । उभयोः सादृश्यमाह - असकृदिति ।
असकृन्निरन्तरं दृष्टोऽवलोकितो गङ्गाया अवतारो घट्टो येन सः । 'घट्टस्तीर्थावतारे' इति कोशः । पक्षे
असकृत् दृष्टो गङ्गाया अवतारः प्रभवो येनेति विग्रहः । भ्रमर इति । भ्रमरो मधुकृत्तद्वदिव । उभयोः
साम्यमाह - असकृदिति । असकृद्वारंवारमनुभूतोऽनुभवविषयीकृतः पुष्करं जलं तेन सहितं यद्वनं तत्र
वासो वसतिर्येन सः । पक्षेऽनुभूतः पुष्करवनं कमलखण्डस्तत्र वासो येनेति विग्रहः । वनेति । वने चरतीति
वनचरः । एवंभूतोऽपि कृतो महालयेषू चैस्तरगृहेषु प्रवेशो रोनेति विरोधः । परिहारपक्षे महालयो ब्रह्मणि
लयः । तदुक्तम् –'अधोमुख्या कुण्डलिन्योर्ध्वं मुखे कृते सति ब्रह्मरन्ध्रपर्यन्तं नीतायां तस्यामेकान्तेनाव-
स्थानं ब्रह्मणि लयः' इति । यद्वा महालयो मोक्षस्तत्र कृतवसतिरित्यर्थः । असंयतेति । असंयतोऽसंयमवा-
नपि मोक्षार्थी मोक्षाभिलापुक इति विरोध । तत्परिहारपक्षेऽसंयतोऽबद्धोऽपीत्यर्थः । 'संदानितः संयतश्च'
इत्यभिधानचिन्तामणिः । सामेति । साम सान्त्वनं तत्प्रयोगपरोऽपि मैत्रीप्रयोगतत्परोऽपि सततं निर-
न्तरमवलम्बित आश्रितो दण्डो राजदेयद्रव्यं येनेति विरोधः । तत्परिहारपक्षे सामवेदप्रयोगपरोऽपि सततम-
लम्बोदडो त विग्रहः । सुप्त इति । सुप्तोऽपि निद्वितोऽपि प्रबुद्धो जाग्रदवस्थ इति विरोधः ।
परिहारपक्षे कुटु शोभना सो: जटा यस्येति विग्रहः । रक्ष्यं च – 'राजा राजार्चितानेरनुपचितकलो यस्य
चूड़ामणित्वं न.प. नागात्मजार्थं न भसितधवलं यद्वपुर्भूषयन्ति । मा रामारागिणी भून्मतिरिति यमिनां येन
वोऽदाहि मारः सप्ताः सप्ताश्वानुन्नारुणकिरणनिभाः पातु बिभ्रत्रिनेत्रः ॥ इति शृङ्गारतिलकटीकायाम् । तथा
'सालिग सदाप्ता परिकरमुदिता' इति शोभनस्तुतौ लक्ष्यान्तरमपि । संनिहित इति । सम्यक्प्रकारेण
हितं स्तंने लोचनव्यं येनैवंभूतोऽपि परित्यक्तं दूरीकृतं वामलोचनं येनेति विरोधः । परिहारपक्षे
 
टिप्प० - 1 करालः उन्नताबनतो यः शङ्खः तस्य मण्डलावर्तवत् ( मण्डलाकार भ्रमिरेखावत् ) ना-
भिगर्यो यस्य सः (j, करालशङ्खः बृहच्छङ्गः मण्डलावर्तो मण्डलाकारेण जलभ्रमश्र नाभिगर्तस्थाना-
पनो यम्म सः ( जलनिधिः ), ततश्च 'मण्डलावर्तनाभिगर्तः' इत्येज मूलपाठः समञ्जसः । 2 भगीरथ इव
८९ गङ्गावतारः इत्येव पाठः समुचितः, भगीरथपक्षे कृत्पदय स्वारस्याभावात् । 3 सुतो बाह्यविष-
येषु द्विवत् असं कोपि प्रतुद्धः परमात्मविषयकाने जागरूक: 'या निशा सर्वभूतानां तस्यां जागर्ति
संयो' । इति स्पष्टोर्थः । 4 परिवका बामलोचना कामिनी येन सः इति रूप टोऽर्थः ।
 
पाठा०—१ पेशङ्ग २ नियमित; दृढसंयमित ३ क्षवित ४ जलगि ५ नाभिगर्त: ६ इन दृट ७ मधुकर.
 
20
 
का० ११