This page has not been fully proofread.

दंब
 
कादम्बरी ।
 
दिवसोमः, पद्मनिकर इव दिवसकरमेरीचिपः नदीतटतरुरिव सततजलक्षालन विमेलंजडः,
करिकैलभ इन विकचकुमुददलशकलसितदशनः, द्रौणिरिव कृपानुगतः, नक्षत्रराशिरिद
चित्रनुगकर्त्तिकाञ्लेषोपशोभितः, धर्मकालदिवस इव क्षेपित बहुदोषः, जलघरसमय इस प्रश
मितरजःप्रसरः, वरुण इव कृतोदवासः, हरिरिवापनीतनरकभयः, प्रदोपारम्भ टूव संध्या-

 
,
 

 
[ त्यामुखे-
G
 
Co
 
धारित्वात्साम्यम् । गिरिरिवेति । गिरिः पर्वतस्तद्वदिव । उभयोः साम्यमाह - समेखल इति । सह
मेखलया मौज्या वर्तते यः स तथा । पक्षे मेखलार्मध्यभागस्तया सह वर्तमान इत्यर्थः । राहुरिबेति । राडुः
सैहिकेयस्तद्वादेन । एतयोः साम्यमाह - असकृदिति । असकृन्निरन्तरमास्वादितः सोमो ज्योतिष्टोमयागसा-
धनद्रव्यं येन स तथा । एतेनात्यन्तसोमयज्ञकारित्वं सूचितम् । पक्षेऽसद्वहुवारमादितो ग्रस्तः सोमवन्द्रो
येतः । ति । पानां कमलानां निकरः समूहस्तद्वदिव । उभयोः साम्यमाह - दिवसेति ।
दिासकरस्य सूर्य भयान्मरीचीन्पाति रक्षति स तथा । पक्षे सूर्यविकासित्वात्सूर्यमरीचीन्पाति पिवति यः
स तथेति विग्रहः : नदीति । नद्यास्टटिन्यास्तटं प्रतीरं ततस्तद्वदिव । उभयोः सादृश्यमाह - सत
तमिति । सत्तं निरन्तरं त्रिसायं जलेन पानीयेन क्षालनं तेन विमला जटाः सढाः यस्य सः । पक्षे सततजल-
क्षालनेन विमला जटा अवरोहा यस्येति बिग्रहः । करीति । करिणां हस्तिनां कलभस्त्रिंशदब्दको गजस्तद्व-
दिन । उभयोस्तुल्यतामाह - विकचेति । विकचानि स्फुटानि कुमुदानि कैरवाणि तषां दलानि पर्णानि तेषां
शकलानि 'खण्डास्तद्वत्सिताः शुभ्रा दशना दन्ता यस्येति स तथा । उभयसाम्यादभङ्गश्लेषः । द्रौणिरिवेति ।
द्रौणिरश्वत्थामा तद्वदिव । उभयोः शब्दसाम्यमाह- कृपेति । कृपा दुःखहानेच्छा तयानुगतः सहितः । पक्षे
कृपः कृपाचार्यस्तेनोगगत इति विग्रहः । नक्षत्रेति । नक्षत्राणां तारकाणां राशिः समूहस्तद्वदिव । अनयोः
साम्यमाह - चित्रेति । चित्र, मृगस्य कृतिका चर्म तेनाश्लेषः संबन्धसेन उपशोभितः शोभां प्राप्तः । पक्षे
चित्रा त्वाष्ट्री, मृगो मृगशिरः, कृत्तिका प्रसिद्धा, आश्लेषा साप, ताभिरुपशोभितः । धर्मेति । धर्मकाल उष्ण-
कालस्तस्य दिवसोनं तद्वत्व । उभयोः साम्यमाह - क्षषित इति । क्षपिताः क्षयं प्रापिता बहवो रोषा
रागादयो येन सः । पक्षे क्षपिता बही दोषा रात्रिनेति विग्रहः । जलेति । जलधरसमयःलस्तद्वदिव ।
उभयोस्तुल्यतामाह- - प्रशमितेति । प्रशमितः शान्ति प्राषितो रजःप्रसरः प्रवर्तकगुणव्यापारो येन सः पक्षे
प्रशभितो रजःप्रसरो धूलिविस्तारो येनेति विग्रहः । वरुण इति । वरगः प्रचेतास्तद्वदिव । उभयोः साम्यमाह-
कृतोदेते । कृतो विहित उदबासो व्रतविशेषो येन सः । पक्षे कृत उदकेषु बासो निवासो येनेति विग्रहः ।
उदकस्योदादेशः । हरिरिति । हरिरिव कृष्ण इब । उभयोरैक्यभाह - अपनीतेति । अपनीतो दूरीकृतो
नरको दुर्गतिः तद्भयं येन सः । पक्षे नरको दैलस भयं येनेति विग्रहः । प्रदोषेति । प्रदोषो यामिनीमुख
तस्यारम्भः प्रारम्भस्तद्वदिव । उभयोरैक्य - संध्येति । संध्या दिवसरजन्योः संधिस्तद्वत्पिङ्गला तारैव
तारका कनीनिका यस्य स तथा । इदं महापुरुषोपलक्षणम् । तदुक्तमन्यत्र - शुद्रोऽपि चक्रवर्ती स्यात्पीततार-
कचक्षुषि इति । पक्षे संध्याकृता पिङ्गला तारका यस्मिन्निति विग्रहः । प्रभातेति । प्रभातं प्रत्यूपस्तस्य
काल: समयस्तद्वदिव । उभयोः साम्यमाह - बालेति । बालो यः सूर्यस्तस्यातपः । बालश्वासावातो वा ।
प्रकाशस्तद्वत्कपिलः पिङ्गलः । पप उद्गमनसमयवर्त्यातपस्तेन कपिल: पिङ्गलः । पीतरक्त इत्यर्थः ।
 
-
 
टिप्प०-1 सूर्यरश्मीन् पिबति ऊर्ध्वमुखः सन् प्रसते इति हारीतपक्षे, 'ग्रीष्मे पञ्चापिमध्यस्थो वर्षासु
व्यण्डिलेशयः' इति तपश्चरणनियनात् । पूर्णविकासार्थ सूर्य र इमीन् पिबति मादत्ते इति पद्मनिकरपक्षे ।
ढीकार्थस्तु विचारणीयः । 2 विमला जटा लग्नकेशा यस्य सः ( मुनिः ), विमला मृत्तिकाहीना जटा मूलं
यस सः (तरुः ) 'मूले लग्नकचे जडा' इत्यमरः । ● रजोगुणव्यापारः कामाविर्येन ( मुनिपट ) ।
4 संध्वय संध्याकालवर्णेन पिङ्गलास्तारका नक्षत्राणि यस्मित्रित्यर्थः ।
पाठा •१ दिनकर. २ विरल. ३ करभ. ४. विशेषा. ५ क्षयितदोषः.