2023-10-29 10:40:46 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

हारीतवर्णनम् ]
 
पूर्वभागः ।
 
ललाट [^१]पट्टे के प्रिंत्रि[^२]सत्येनेव भस्मत्रिपुण्ड्रकेणालंकृतः, गगनगमनोन्मुखला कानुकारिणौ [^३]णा स्वर्ग-
मार्गमिव दर्शयता सततमुद्ग्रीवेण [^४]स्फटिकमणिकमण्डलुनाण्ध्यासितवाम करतलः, स्कन्धदेशा-
वलम्बिना कृष्णाजिनेन [^५]नीलैपाण्डुभासा तपस्तृष्णानिपीतेनान्तर्निध्यै [^६]ष्पतता धूमपटलेनेव परीत-
मूर्तिः, अॅ[^९]अभिनवबिससूत्रनिर्मितेनेव परिलघुतया पवनलोलेन निर्मामांसविरल [^८]पार्श्वक [^९]पञ्जरमिव
गणयता वामांसा- वलम्बिना यज्ञोपवीतेनोद्भासमानः, देवतार्चनार्थमागृहीतवनलता- [^१०]कुसुमैपरि-
पूर्णपर्णपुटसनाथशिखरेणापाषाढदण्डेन व्यामृपृ- तसव्येतरपाणिः, [^११]विषणोत्खातामुद्वहता खास्नानमृ-
दमुपजात- परिचयेन नीवारमुष्टिसंवर्धितेन कुशकुसुमलताया स्यै[^१२]स्यमान- लोलदृष्टिना तपोवनमृगे-
[^१३]णानुयातः, विटप इव कोमलर्वैव- [^१४]ल्कलावृतशरीरः, गिरिरिव समेखलः, राहुरिवासकृदावा-

 
[ टि ]--
भोगः परिभोगस्तस्मान्निवृत्तिरुपरमस्तदर्थं तन्निमित्त- मुपपादितेन विहितेन । ललाटेति । ललाटपट्टकेऽलिक-
फलके मनोवाक्कायलक्षणेन त्रिसत्येनेव भस्मत्रिपुण्ड्रकेन विभूतित्रितिल-
केनालंकृतो विभूषितः । गगनेति ।
गगनगमने उन्मुखा ऊर्ध्वानना या बलाका बिसकण्ठिका तदनुकारिणा तत्सदृशेन स्वर्गमार्गमिव त्रिदिवपन्था-
नमिव दर्शयता प्रकाशयता सततं निरन्तरमुद्ग्री- वेणोर्ध्वकन्धरेणैवंभूतेन स्फटिकमणिकमण्डलुना स्फटिककु-
ण्डि- कयाध्यासितमाश्रितं वामकरतलं यस्य सः । स्कन्धेति । कृष्णा- जिनेन कृष्णचर्मणा परीता व्याप्ता मूर्ति-
र्यस्य स तथा । केनेव । धूमपटलेनेव दहनकेतनसमूहेनेन । कीदृशेन । तपो मे भवत्विति तपस्तृष्णा तया
निपीसेतेनेव । कीदृशेन । अन्तः शरीराभ्यन्तरे [^1]निपतता प्रवेशं कुर्वता । कीदृशेन चर्मणा । स्कन्धदेशेऽव-
लम्ब
इत्येवंशीलं तत्तेन नीला पाण्ड्डीवी च भा यस्य तत्तेन । अभीति । यज्ञोपवीतेन यज्ञसूत्रेणोत्प्राबल्येन भासमानी
नो दीप्यमानः । केनेव । अभिनवं प्रत्यमंग्रं यद्विबिससूत्रं कमलनालतन्तुस्तेन निर्मितेनेव रचितेनेव परिलघुतया
परि सामस्त्येन स्वल्पतयाणुतया पवनेन समीरणेन लोलेन चपलेन । किं कुर्वता । निर्मामांसं पलरहितं विरल-

मसंकीर्णं यत्पार्श्वकपञ्जरं पार्श्वगतास्थिसमुदायमिव गणयता तत्संख्यां कुर्वता । यज्ञोपवीतं विशिष्टि- वाम
इति । वामः सव्यो योंऽसः स्कन्धस्तदवलम्बिना तदवस्थानशीलेन । अथ मुनिं विशेषयन्नाह – देवतेति ।
देवतार्चनार्थं परमैश्वरपूजार्थमा समन्ताद्गृहीतान्यात्तानि वनलताकुसुमान्यरण्यव्रततिपुष्पाणि तैः परिपूर्णं भृतं
यत्पर्णपुटं तेन सनाथं सहितं शिखरं प्रान्तं यस्यैवंभूतेनाषाढदण्डेन व्यापृतो व्यापारयुक्तः सव्येतरो दक्षिणः

पाणिर्हस्तो यस्य स तथा । तपोवनेति । तपोवनसंबन्धी यो मृगो हरिणः । जा [^2]त्येकवचनम् । तेनानुयातोऽनुगतः ।
किं कुर्वता मृगेण । विषाणं शृङ्गं तेनोत्खातामुत्खनितां स्नानमृदमा प्लवमृत्स्ना- मुद्वहता धारयता । मृगं विशेष-
यन्नाह -- उपेति । उपजातः समुत्पन्नः परिचयः संबन्धविशेषो मुनिभिः सार्धं यस्य स तथा तेन । नीवा.
रेति । नीवारो वनव्रीहिस्तस्य मुष्टिः प्रसिद्धा तया संवर्धितेन वृद्धिं प्रापितेन । कुशेति । कुशा दर्भाः, कुसु-
मानि पुष्पाणि, लता व्रतत्यः, ताभिरायास्यमां [^3]माना खेदं प्राप्यमाणात एव लोला चपला दृष्टिर्यस्य स तेन ।
प्रकारान्तरेण मुनिपुत्रं विशिनष्टि - विटप इति । विटपो वृक्षस्तद्वदिव उभयोः सादृश्यमाह - कोम -
लेति । कोमलं सुकुमारं यद्वल्कलं चोचं तेनावृतमाच्छादितं शरीरं यस्य स तथा । अस्यापि मुनित्वेन वल्कल-

 

 
 
[^
1
 
टिप्प० - 1
]F. निष्पतता इत्येव मूलधृतपाठ उचितः । तपस्तृष्णया धूमपटलं पूर्वं निपीतं तदनन्तरम्
2 एक एवासीन्मृगो न जात्या एक-
तत् अन्तः ( अभ्यन्तरात् ) निष्पतत् बहिर्निर्गच्छदिवेत्युत्प्रेक्षा
न किल सर्व

[^2]F. एक एवासीन्
मृगयूथम् ।
गो न जात्या एकवचनम् । विषाणोत्खात- मृत्तिकां वहन्नेक एवं मृगोऽनुगच्छति स्म,
 
न किल सर्वं मृगयूथम् ।
[^
3]F. मुनिकुमारधृते कुशकुसुमादिपुटके तृष्णया वारंवारं चलनाद् दृष्टिरायासमनुभवतीत्याशयः ।
 
पाठा० -

 
[^
]G. पट्टे.
[^
]G. त्रिसत्यकेन.
[^
]G. अनुकारिस्वर्ग .
[^
]G. स्फाटिककमण्डलुना .
[^
]G. लीलया.
[^
]G. अपगच्छता;
निष्पतता.
[^
]G. अभिनव बिस.
[^
]G. पार्श्व .
[^
]G. अस्थिपञ्जर; आपञ्जर .
[^
१०]G. कुसुमपूर्ण.
[^
११]G. विषाणशिखर.
[^
१२]G. उपास्य-
मान: .
[^
१३]G. अनुगम्यमानः .
[^
१४]G. वल्क.