This page has not been fully proofread.

हारीतवर्णनम् ]
 
पूर्वभागः ।
 
ललाटपट्टे के प्रिंसत्येनेव भस्मत्रिपुण्डकेणालंकृतः, गगनगमनोन्मुखवला कानुकारिणौ स्वर्ग-
मार्गमिव दर्शयता सततमुद्रीवेण स्फटिकमणिकमण्डलुनाण्यासितवाम करतलः, स्कन्धदेशा-
वलम्बिना कृष्णाजिनेन नीलैपाण्डुभासा तपस्तृष्णानिपीतेनान्तर्निध्यैतता धूमपटलेनेव परीत-
मूर्तिः, अॅभिनवबिससूत्रनिर्मितेनेव परिलघुतया पवनलोलेन निर्मासविरलपार्श्व कपञ्जरमिव
गणयता वामांसावलम्बिना यज्ञोपवीतेनोद्भासमानः, देवतार्चनार्थमागृहीतवनलताकुसुमैपरि-
पूर्णपर्णपुटसनाथशिखरेणापाढदण्डेन व्यामृतसव्येतरपाणिः, विषणोत्खातामुहता खानमृ-
दमुपजातपरिचयेन नीवारमुष्टिसंवर्धितेन कुशकुसुमलताया स्यैमानलोलदृष्टिना तपोवनमृगे-
णानुयातः, विटप इव कोमलर्वैल्कलावृतशरीरः, गिरिरिव समेखलः, राहुरिवासकृदावा-
भोगः परिभोगस्तस्मान्निवृत्तिरुपरमस्तदर्थं तन्निमित्तमुपपादितेन विहितेन । ललाटेति । ललाटपट्टकेऽलिक-
फलके मनोवाक्कायलक्षणेन त्रिसत्येनेव भस्मत्रिपुण्ड्रकेन विभूतित्रितिलकेनालंकृतो विभूषितः । गगनेति ।
गगनगमने उन्मुखा ऊर्ध्वानना या बलाका बिसकण्ठिका तदनुकारिणा तत्सदृशेन स्वर्गमार्गमिव त्रिदिवपन्था-
नमिव दर्शयता प्रकाशयता सततं निरन्तरमुद्रीवेणोर्ध्वकन्धरेणैवंभूतेन स्फटिकमणिकमण्डलुना स्फटिककु-
ण्डिकयाध्यासितमाश्रितं वामकरतलं यस्य सः । स्कन्धेति । कृष्णाजिनेन कृष्णचर्मणा परीता व्याप्ता मूर्ति-
र्यस्य स तथा । केनेव । धूमपटलेनेव दहनकेतनसमूहेनेन । कीदृशेन । तपो मे भवत्विति तपस्तृष्णा तया
निपीसेनेव । कीदृशेन । अन्तः शरीराभ्यन्तरे निपतता प्रवेशं कुर्वता । कीदृशेन चर्मणा । स्कन्धदेशेऽवलम्ब
इत्येवंशीलं तत्तेन नीला पाण्ड्डी च भा यस्य तत्तेन । अभीति । यज्ञोपवीतेन यज्ञसूत्रेणोत्प्राबल्येन आसमानी
दीप्यमानः । केनेव । अभिनवं प्रत्यमं यद्विससूत्रं कमलनालतन्तुस्तेन निर्मितेनेव रचितेनेव परिलघुतया
परि सामस्त्येन स्वल्पतयाणुतया पवनेन समीरणेन लोलेन चपलेन । किं कुर्वता । निर्मासं पलरहितं विरल-
मसंकीर्णं यत्पार्श्वकपञ्जरं पार्श्वगतास्थिसमुदायमिव गणयता तत्संख्यां कुर्वता । यज्ञोपवीतं विशिष्टि- वाम
इति । वामः सव्यो योंऽसः स्कन्धस्तदवलम्बिना तदवस्थानशीलेन । अथ मुनिं विशेषयन्नाह – देवतेति ।
देवतार्चनार्थ परमैश्वरपूजार्थमा समन्ताद्गृहीतान्यात्तानि वनलताकुसुमान्यरण्यव्रततिपुष्पाणि तैः परिपूर्ण भृतं
यत्पर्णपुटं तेन सनाथं सहितं शिखरं प्रान्तं यस्यैवंभूतेनाषाढदण्डेन व्यापृतो व्यापारयुक्तः सव्येतरो दक्षिणः
पाणिर्हस्तो यस्य स तथा । तपोवनेति । तपोवनसंबन्धी यो मृगो हरिणः । जात्येकवचनम् । तेनानुयातोऽनुगतः ।
किं कुर्वता मृगेण । विषाणं शृङ्गं तेनोत्खातामुत्खनितां स्नानमृदमा लवमृत्स्नामुद्वहता धारयता । मृगं विशेष-
यन्नाह -- उपेति । उपजातः समुत्पन्नः परिचयः संबन्धविशेषो मुनिभिः सार्धं यस्य स तथा तेन । नीवा.
रेति । नीवारो वनव्रीहिस्तस्य मुष्टिः प्रसिद्धा तया संवर्धितेन वृद्धिं प्रापितेन । कुशेति । कुशा दर्भाः, कुसु-
मानि पुष्पाणि, लता व्रतत्यः, ताभिरायास्यमांना खेदं प्राप्यमाणात एव लोला चपला दृष्टिर्यस्य स तेन ।
प्रकारान्तरेण मुनिपुत्रं विशिनष्टि - विटप इति । विटपो वृक्षस्तद्वदिव उभयोः सादृश्यमाह - कोम -
लेति । कोमलं सुकुमारं यद्वल्कलं चोचं तेनावृतमाच्छादितं शरीरं यस्य स तथा । अस्यापि मुनित्वेन वल्कल-

 
1
 
टिप्प० - 1 निष्पतता इत्येव मूलधृतपाठ उचितः । तपस्तृष्णया धूमपटलं पूर्व निपीतं तदनन्तरम्
2 एक एवासीन्मृगो न जात्या एक-
तत् अन्तः ( अभ्यन्तरात् ) निष्पतत् बहिर्निर्गच्छदिवेत्युत्प्रेक्षा ।
न किल सर्व मृगयूथम् ।
वचनम् । विषाणोत्खातमृत्तिकां वहन्नेक एवं मृगोऽनुगच्छति स्म,
 
3 मुनिकुमारटते कुशकुसुमादिपुटके तृष्णया वारंवारं चलनाद् दृष्टिरायासमनुभवतीत्याशयः ।
 
पाठा० - १ पट्टे. २ त्रिसत्यकेन. ३ अनुकारिस्वर्ग ४ रफाटिककमण्डलुना ५ लीलया. ६ अपगच्छता;
निष्पतता. ७ अभिनव बिस. ८ पार्श्व ९ अस्थिपञ्जर; आपञ्जर १० कुसुमपूर्ण. ११ विषाणशिखर. १२ उपास्य-
मान: १३ अनुगम्यमानः १४ वल्क.