2023-10-29 07:36:19 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

[^१]प्रतिवसति स्म । तत्तनयश्च हारीतनामा [^२]मुनिकुमारकः सनत्कुमार इव सर्वविद्यावदातचेताः, [^३]सवयोभिरपरैस्तपोधन- [^४]कुमारकैरनुगम्यमानस्तेनैव पथा द्वितीय इव भगवान्विभावसु- रतितेजस्वितया दुर्निरीक्ष्यमूर्तिः, उद्यतोदिवसकरमण्डला- दिवोत्कीर्णः, तडिद्भिरिव [^५]रचितावयवः, तप्तकनकद्रवेणेव बहिरुपलिप्तमूर्तिः, [^६]पिशङ्गावदातया देहप्रभया स्फुरन्त्या सबालातपमिव दिवसं सदावानलमिव वनमुपदर्शयन्, उत्तप्तलोह लोहिनीनामनेकतीर्थाभिषेकपूतानामंसस्थलावलम्बिनीनां [^७]जटानां निकरेणोपेतः, स्तम्भितशिखाकलापः खाण्डववन- दिधक्षया कृतकपट [^८]वटुवेष इव भगवान्पावकः, तपोवनदेवतानू- पुरानुकारिणा धर्मशासनकटकेनेव स्फाटिकेनाक्षवलयेन दक्षिणश्रवण [^९]विलम्बिना विराजमानः सकलविषयोपभोग [^१०]निवृत्त्यर्थ [^११]मुपपादितेन
 
[ टि ]-- वर्तिनि निकटस्थायिनि तपोवने तापसाधिष्ठितकानने । नामेति कोमलामन्त्रणे । जाबालिनामा महदत्युग्रं तपो
यस्यैवंभूतो मुनिर्ऋषिः प्रतिवसति स्म । निवासं कृतवानित्यर्थः । तत्तनयश्चेति । तस्य तनयः सुतः । च पुनरर्थे । हारीत इति नाम यस्यैवंविधः मुनिकुमारकः तापसकुमारकः । स्वल्पवया इत्यर्थः । तदेव पूर्वोक्तं पम्पाभिधानं कमलसरः सिस्नासुः स्नातुमिच्छुः । सन्नन्तस्त्राधातो रूपम् । तत्रोपागमदित्यन्वयः । तमेव विशेषयन्नाह - सनत्कुमारेति । सनत्कुमारो वैधात्रस्तद्वदिव सर्वविद्यास्वदातं शुद्धं चेतो मनो यस्य सः । सवयोभिरिति । सवयोभिः सदृशवयो-
भिरपरैस्तद्भिन्नैस्तपोधनकुमारकैस्तापसशावैरनुगम्यमानस्तेनैव पथा तेनैव मार्गेण । उपागम-
दिति पूर्वेणान्वयः। द्वितीय इवैतद्भिन्न इव भगवाञ्ज्ञानवान्विभावसुरग्निरत्युत्कृष्टं तेजो विद्यते यस्यासाविति तेजस्वी
तस्य भावस्तत्ता तया दुर्निरीक्ष्या दुःखेनावलोकयितुं शक्या मूर्तिर्यस्य स तथा । उद्यत इति । उद्यत उदयं
'कुर्वतो दिवसकरमण्डलात्सूर्यबिम्बादिव । उत्कीर्णं उल्लिख्य कर्षित इत्यर्थः । तडिद्धिभिरैरावती [^1]भिरिव रचिता निर्मिता
अवयवा यस्य सः । तप्त इति । तप्त उष्णो यः कनकस्य सुवर्णस्य द्रवो रसस्तेन बहिरुपलिप्ता लिम्पिता मूर्तिः
शरीएंरं यस्य सः । पिशङ्गेति । पिशङ्गा पीतावदाता निर्मला एवंविधया स्फुरन्त्या दीप्यमानया देहप्रभया शरीर-
कान्त्या सहबालातपेन वर्तमानं दिवसं दिनमिव सहदावानलेन वर्तमानं वनं काननमिवोपदर्शयन्प्रकाशयन् ।
उत्तप्तेति । उत्तप्तमुष्णीकृतं यल्लोहं कालायसं तद्वल्लोहिनीनां रक्तानामनेकानि यानि तीर्थानि तेषामभिषेकः स्नानं
तेन पूतानां पवित्राणाम् । अंसेति । अंसस्थलं भुजशिरःस्थानं तत्रावलम्बिनीनां वेल्लन्तीनां जटानां निकरेण समू-
हेनोपेतः सहितः । स्तम्भितेति । स्तम्भितो बद्धः शिखाकलापो येन स तथा । खाण्डवेति । 'वह्निना जलो-
दरग्रस्तेन ब्राह्मणरूपेण शै[^2]शय्यागतेन खाण्डववनं दग्धमिति प्रसिद्धिः । दग्धुमिच्छा दिधक्षा तया कृतो विहितः कप-
टेन पै[^3]पटुः स्पष्टो वेषो येनैवंभूत इव भगवान्पावको वह्निः । तपोवनेति । स्फाटिकेन स्फटिकमणिनिर्मितेनाक्षव
लयेनाक्ष- मालिकया विराजमानः शोभमानः । अक्षवलयं विशेषयन्नाह – दक्षिणेति । दक्षिणोऽपसव्यो यः श्रवणः
कर्णस्तत्रावलम्बिना । तपोवनेति । तपोवनदेवता तपोवनाधिष्ठात्री तस्य नूपुरं पादकटकं तदनुकारिणा तत्सदृशेन ।
केनेव । धर्मो विधिनिषेधादिरूपस्तस्य शासनमाज्ञा तस्य कटकेनेव वलयेनेव । सकलविषयस्य समग्र- पदार्थस्य य उप-
टिप्प० -
 
[^
1]F. विद्युद्भिरिति स्पष्टोप्यर्थो जटिलीकृतो महात्मना ।
[^
2]F. श्वेतकिनाम्नो नरपतेर्द्वादशवार्षिके
था
यागे सततहविर्भोजनेन संजातमन्दाग्निरनिरपि तत्प्रतीकाराय त्रिविधमहौषधिजुष्टं खाण्डववनं विरिञ्चे-
रुपदेशादुदरस्थीकर्तुमिच्छुः कृष्णार्जुनयोः साहाय्येन ब्राह्मणवेषः सन् ददाहेति महाभारतम् ।
[^
3]F. कृतः
कपटेन टुवेषो ब्राह्मणरूपं येनेत्येव मूलधृतपाठानुसारी अर्थः ।
 
.
 
पाठा -
[^]G. प्रसवति.
[^
]G. तापसकुमारकः .
[^
]G. समानवयोभिः, समवयोभिः . .
[^
]G. कुमारै: .
[^
]G. विरचिता.
[^
]G. आपिशङ्ग.
[^]G. जटावलीनाम् .
[^
]G. पटुवेष: .
[^
]G. अनुलम्बिना.
[^
१०]G. निवृत्ति .
[^
११]G. उत्पादितेन.