This page has not been fully proofread.

कादम्बरी ।
 
[ कथामुखे-
७८
अंतिवसति स्म । तत्तनयश्च हारीतनामा मुनिकुमारकः सनत्कुमार इव सर्वविद्यावदातचेताः,
सँवयोभिरपरैस्तपोधनकुमारकैरनुगम्यमानस्तेनैव पथा द्वितीय इव भगवान्विभावसुरतितेज-
खितया दुर्निरीक्ष्यमूर्तिः, उद्यतो दिवसकरमण्डलादिवोत्कीर्णः, तडिद्भिरिव रॅचितावयवः,
तप्तकनकद्रवेणेव बहिरुपलिप्तमूर्तिः, पिशँङ्गावदातया देहप्रभया स्फुरन्त्या सवालातपमिव
दिवसं सदावानलमिव वनमुपदर्शयन्, उत्तप्त लोह लोहिनीनामनेकतीर्थाभिषेकपूतानाम सस्थला-
वलम्बिनीनां जटानां निकरेणोपेतः, स्तम्भितशिखाकलापः खाण्डववनदिधक्षया कृतकपट-
बटुवेष इव भगवान्पावकः, तपोवनदेवतानू पुरानुकारिणा धर्मशासनकटकेनेव स्फाटिकेना-
क्षवलयेन दक्षिणश्रवणविलेम्बिना विराजमानः सकलविषयोपभोगनिवृत्त्यर्थमुपपादितेन
 

 
घर्तिनि निकटस्थायिनि तपोवने तापसाधिष्ठितकानने । नामेति कोमलामन्त्रणे । जाबालिनामा महदत्युनं तपो
यस्यैवंभूतो मुनिरृषिः प्रतिवसति स्म । निवासं कृतवानित्यर्थः । तत्तन यश्चेति । तस्य तनयः सुतः । च
पुनरर्थे । हारीत इति नाम यस्यैवंविधः मुनिकुमारकः तापसकुमारकः । खल्पवया इत्यर्थः । तदेव पूर्वोक्तं पम्पा-
भिधानं कमलसरः सिस्नासुः स्नातुमिच्छुः । सन्नन्तस्त्राधातो रूपम् । तत्रोपागमदित्यन्वयः । तमेव विशेषयन्नाह -
सनत्कुमारेति । सनत्कुमारो वैधात्रस्तद्वदिव सर्वविद्याखवदातं शुद्धं चेतो मनो यस्य सः । सवयोभिरिति ।
सवयोभिः सदृशवयोभिरपरैस्तद्भिन्नैस्तपोधनकुमारकैस्ता पसशावैरनुगम्यमानस्तेनैव पथा तेनैव मार्गेण । उपागम-
दिति पूर्वेणान्वयः। द्वितीय इवैतद्भिन्न इव भगवाञ्ज्ञानवान्विभावसुरग्निरत्युत्कृष्टं तेजो विद्यते यस्यासाविति तेजस्वी
तस्य भावस्तत्ता तया दुर्निरीक्ष्या दुःखेनावलोकयितुं शक्या मूर्तिर्यस्य स तथा । उद्यत इति । उद्यत उदयं
'कुर्वतो दिवसकरमण्डलात्सूर्यबिम्बादिव । उत्कीर्ण उल्लिख्य कर्षित इत्यर्थः । तडिद्धिरैरावतीभिरिव रचिता निर्मिता
अवयवा यस्य सः । तप्त इति । तप्त उष्णो यः कनकस्य सुवर्णस्य द्रवो रसस्तेन बहिरुपलिप्ता लिम्पिता मूर्तिः
शरीएं यस्य सः । पिशङ्गेति । पिशङ्गा पीतावदाता निर्मला एवंविधया स्फुरन्त्या दीप्यमानया देहप्रभया शरीर-
कान्त्या सहबालातपेन वर्तमानं दिवसं दिनमिव सहदावानलेन वर्तमानं वनं काननमिवोपदर्शयन्प्रकाशयन् ।
उत्तप्तेति । उत्तप्तमुष्णीकृतं यल्लोहं कालायसं तद्वल्लोहिनीनां रक्तानामनेकानि यानि तीर्थानि तेषामभिषेकः स्नानं
तेन पूतानां पवित्राणाम् । अंसेति । अंसस्थलं भुजशिरःस्थानं तत्रावलम्बिनीनां वेल्लन्तीनां जटानां निकरेण समू-
हेनोपेतः सहितः । स्तम्भितेति । स्तम्भितो बद्धः शिखाकलापो येन स तथा । खाण्डवेति । 'वह्निना जलो-
दरग्रस्तेन ब्राह्मणरूपेण शैय्यागतेन खाण्डववनं दग्धमिति प्रसिद्धिः । दग्धुमिच्छा दिधक्षा तया कृतो विहितः कप-
टेन पैटुः स्पष्टो वेषो येनैवंभूत इव भगवान्पावको वह्निः । तपोवनेति । स्फाटिकेन स्फटिकमणिनिर्मितेनाक्षव
लयेनाक्षमालिकया विराजमानः शोभमानः । अक्षवलयं विशेषयन्नाह – दक्षिणेति । दक्षिणोऽपसव्यो यः श्रवणः
कर्णस्तत्रावलम्बिना । तपोवनेति । तपोवनदेवता तपोवनाधिष्ठात्री तस्य नूपुरं पादकटकं तदनुकारिणा तत्सदृशेन ।
केनेव । धर्मो विधिनिषेधादिरूपस्तस्य शासनमाज्ञा तस्य कटकेनेव वलयेनेव । सकलविषयस्य समग्रपदार्थस्य य उप-
टिप्प० -1 विद्युद्भिरिति स्पष्टोप्यर्थो जटिलीकृतो महात्मना । 2 श्वेतकिनाम्नो नरपतेर्द्वादशवार्षिके
थागे सततहविर्भोजनेन संजातमन्दाग्निरनिरपि तत्प्रतीकाराय त्रिविधमहौषधिजुष्टं खाण्डववनं विरिचे-
रुपदेशादुदरस्थीकर्तुमिच्छुः कृष्णार्जुनयोः साहाय्येन ब्राह्मणवेषः सन् ददाहेति महाभारतम् । 3 कृतः
कपटेन बटुवेषो ब्राह्मणरूपं येनेत्येव मूलटतपाठानुसारी अर्थः ।
 
.
 
पाठा -१ प्रसवति. २ तापसकुमारकः ३ समानवयोभिः, समवयोभिः . ४ कुमारै: ५ विरचिता. ६ आपिशङ्ग.
७ जटावलीनाम् ८ पटुवेष: ९ अनुलम्बिना. १० निवृत्ति ११ उत्पादितेन.