2023-10-29 06:51:46 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शुकस्य स्वदशावर्णनम् ]
 
पूर्वभागः ।
 
.
 
भिलाषः । मन्ये चागणितपितृमरणशोकस्य निर्घृ [^१]णतैव केवलमियं मम सलिलपानबुद्धिः ।
अद्यापि [^२]दूर एव सँ[^३]सरस्तीरम् । तथा हि – जलदेवता [^४]नूपुरबारवानुकारि दूरेऽद्यापि कलहंसवि-
रुँ
[^५]रुतम् । अँ[^६]अस्फुटानि श्रूयन्ते सारसरसितानि । अयं च विप्रे [^७]विप्रकर्षादाशा मुखबिविसर्पण बिविरलः संच-
रति नलिनीखण्डपरिमलः । [^८]दिवसस्य चेयं के[^९]कष्टा दशा वर्तते । तथा हि-रविरम्बरतलमध्यवर्ती स्फुरन्तभातपमनवर-
वर्ती स्फुरन्तभातपमनवर

तमनलधूलिनिकर मिव विकिरति करैः, अधिकामुपजनयति [^१०]तृषम् ।
सं [^११]तप्तपांसुपटलदुर्गमा [^१३]भूः । अतिप्रबलपिपासावसज्ञान्नानि गन्तुमल्पमपि मे नालमङ्गकानि ।

[^१३]
अप्रभुरस्म्यात्मनः । सीदति मे हृदयम् । अन्धकारतामुप- याति चक्षुः । अपि नाम खलो
विधिरनिच्छतोSपि मे मरणमैं- [^१४]मद्यैवोपपादयेत् ।
 

 
[^१५]
एवं चिन्तयलेषत्येव मयि तस्मात्सरलो नाति [^१६]दूरवर्तिनि तपोवने जाबालिर्नाम महातपा मुनिः
 

 
[ टि ]
-
 
-
 
मधीः केवलं निर्घृणतैवाननुकम्पितै । कीदृशस्य मम । अगणितेति । अगणितो न गणनविषयीकृतः पितृमरण-
शोको येन स तथा तस्य । आद्यापीयतागतेनापि सरस्तीरं कासारतटं दूर एव । तदेव दर्शयति - तथा हीति ।
जलेति । जलदेवतानां जलाधिष्ठा- त्रीणां नूपुराणां पादकटकानां यो रवः शब्दस्तदनुकारि तत्सादृश्यभाज्यद्यापि
कलहंसविरुतं कादम्बकूजितमेत हूद्दूरे । तथा सारसरसितानि लक्ष्मणकूजितान्यस्फुटान्यव्यक्तानि श्रूयन्त आकर्ण्यन्ते ।
विप्रकर्षादिति । विप्रकर्षाद्दूरादाशामुखेषु दिग्व- दनेषु विसर्पणं प्रसरणं तेन विरलो न्यूनो नलिनीखण्डपरिमलः

कमलनामोदः संचरतीतस्ततः प्रसरति । कदाचिद्दारुणधर्माभावे मार्गसौलभ्याहूद्दूरेऽपि गन्तुं शक्यत इत्यत आह -
दिवलेसेति । दिवसस्य वासरस्येयं प्रत्यक्षोपलभ्यमाना कष्टा दशा मध्यावस्था वर्तते । तदेव दर्शयति - तथा
हीति । रविः सूर्योऽम्बरतलमध्यवर्ती व्योममध्यगामी । अनवरतेति । अनवरतमविच्छिन्नं स्फुरन्तं दीप्यमान -
मातपं प्रकाशमनल धूलिनिकरमिव बहिवह्निकणिका- समूहमिव करैः किरणैर्विकिरति क्षिपति । अधिकां [^1]तृषां पिपासामुप-
जनयति निष्पादयति । संतप्तमुष्णं यत्पांसुपटलं धूलिसमूहस्तेन दुर्गमा दुःखेन गन्तुं शक्या भूः पृथ्वी । अतीति ।

अतिप्रबलाsत्यधिका या पिपासोदन्या तयावसन्नानि खिन्नानि मे ममाङ्गकानि शरीरावयवा अल्पमपि स्वल्पमपि
गन्तुं नालं न समर्थानि । किं बहुनात्मनो देहेन्द्रियसंघातस्याप्यप्रभुरसमर्थोऽस्मि । 'अस भुवि' धातुः । लडुत्तमैक-
वचनम् । देहेन्द्रियादिकमपि स्वाधीनं मे नास्तीति भावः । मे मम हृदयं सीदत्यवशीर्यते । चक्षुरपि नेत्रमप्यन्ध-
कारतां तिमिरै [^2]रतामुपयाति प्राप्नोति । अन्धकाराकुलं भवतीत्यर्थः । नामेति कोमलामन्त्रणे । अथेत्यानन्तर्ये । खलः
अशुभकरणाद्दुर्जनो विधिर्विधाता- निच्छतोऽप्यसमीहमानस्यापि मे मम मरणं मृत्युमुप- [^3]पादयेत्कुर्यात् ।
 

 

 
इत्येवं पूर्वोक्तप्रकारेण मयि चिन्तयत्येव विचारयत्येव यदभूत्तदाह - तस्मादिति । तस्मात्पूर्वोक्कात्तात्सरसोऽदूर-
टिप्प० -

 
 
[^
1]F. टीकाकारेण प्रायः स्थाने स्थान एव तादृशाः पाठाः परिगृहीता ये हि ग्रन्थगुम्फनसर-
गि
णितः सर्वथा विपरीताः । एतैर्हि बाणसदृशस्य महाकवेर्वाणी पहिङ्किलेव भवति । अत एव मूल-टीकयोर्षि
विसंवाद मनुचितमगच्छन्नपि ग्रन्थगौरवं मा नशदिति परिवर्तितवानस्मि । व्याकरणादिप्रमादाः शोषिता
अध्यन

अप्यव
शिष्यन्त एवेति क्षम्यतां विवेकिभिरिति टिप्पणीकृत् ।
[^
2]F. अन्धं करोति इति अन्धकारस्तसात्ताम्
( जम्अन्धताजनकत्वम् ) उपयातीत्याशयः ।
[^
3]F. अपि नाम मृत्युमुपपादयेत् ? इति मूलधुधृतपाठानुसारं

खेडगदवशाम्भनलेब प्रभः ।
 
पाठा०-
न्मनस्येव प्रश्न: ।
 
[^
]G. निर्घृणतयैव.
[^
]G. दूरतः .
[^
]G. सर:: .
[^
]G. नूपुरानुकारि .
[^
]G. विरुतमेतम् .
[^
]G. एतानि चास्फुटानि.

[^
]G. विप्रकर्षात्.
[^
]G. चेयम्.
[^
]G. अतिकष्टा दशा; कष्टा च.
[^
१० तु]G. तृषम्.
[^
११]G. आतपस्पर्शसंतप्त.
[^
१२]G. च भूमिः
.
[^
१३]G. अलमप्रभुरस्मि.
[^
१४]G. अथ.
[^
१५]G.ब. व.
[^
१६]G. अतिदूर.