कादम्बरी /110
This page has not been fully proofread.
शुकस्य स्वदशावर्णनम् ]
पूर्वभागः ।
.
भिलाषः । मन्ये चागणितपितृमरणशोकस्य निर्घृणतैव केवलमियं मम सलिलपानबुद्धिः ।
अद्यापि दूर एव सँरस्तीरम् । तथा हि – जलदेवतानपुरबानुकारि दूरेऽयापि कलहंसवि-
रुँतम् । अँस्फुटानि श्रूयन्ते सारसरसितानि । अयं च विप्रेकर्षादाशा मुखबिसर्पण बिरलः संच-
रति नलिनीखण्डपरिमलः । दिवसस्य चेयं केष्टा दशा वर्तते । तथा हि-रविरम्बरतलमध्य-
वर्ती स्फुरन्तभातपमनवरतमनलधूलिनिकर मिव विकिरति करैः, अधिकामुपजनयति तृषम् ।
संतप्तपांसुपटलदुर्गमा भूः । अतिप्रबलपिपासावसज्ञानि गन्तुमल्पमपि मे नालमङ्गकानि ।
अप्रभुरस्म्यात्मनः । सीदति मे हृदयम् । अन्धकारतामुपयाति चक्षुः । अपि नाम खलो
विधिरनिच्छतोSपि मे मरणमैंद्यैवोपपादयेत् ।
एवं चिन्तयलेष मयि तस्मात्सरलो नातिदूरवर्तिनि तपोवने जाबालिर्नाम महातपा मुनिः
-
-
मधीः केवलं निर्घृणतैवाननुकम्पितैन । कीदृशस्य मम । अगणितेति । अगणितो न गणनविषयीकृतः पितृमरण-
शोको येन स तथा तस्य । आद्यापीयतागतेनापि सरस्तीरं कासारतटं दूर एव । तदेव दर्शयति - तथा हीति ।
जलेति । जलदेवतानां जलाधिष्ठात्रीणां नूपुराणां पादकटकानां यो रवः शब्दस्तदनुकारि तत्सादृश्यभाज्यद्यापि
कलहंसविरुतं कादम्बकूजितमेत हूरे । तथा सारसरसितानि लक्ष्मणकूजितान्यस्फुटान्यव्यक्तानि श्रूयन्त आकर्ण्यन्ते ।
विप्रकर्षादिति । विप्रकर्षाद्दूरादाशामुखेषु दिग्बदनेषु विसर्पणं प्रसरणं तेन विरलो न्यूनो नलिनीखण्डपरिमलः
कमलबनामोदः संचरतीतस्ततः प्रसरति । कदाचिद्दारुणधर्माभावे मार्गसौलभ्याहूरेऽपि गन्तुं शक्यत इत्यत आह -
दिवलेति । दिवसस्य वासरस्येयं प्रत्यक्षोपलभ्यमाना कष्टा दशा मध्यावस्था वर्तते । तदेव दर्शयति - तथा
हीति । रविः सूर्योऽम्बरतलमध्यवर्ती व्योममध्यगामी । अनवरतेति । अनवरतमविच्छिन्नं स्फुरन्तं दीप्यमान -
मातपं प्रकाशमनल धूलिनिकरमिव बहिकणिका समूहमिव करैः किरणैर्विकिरति क्षिपति । अधिकां तृषां पिपासामुप-
जनयति निष्पादयति । संतप्तमुष्णं यत्पांसुपटलं धूलिसमूहस्तेन दुर्गमा दुःखेन गन्तुं शक्या भूः पृथ्वी । अतीति ।
अतिप्रबलाsत्यधिका या पिपासोदन्या तयावसन्नानि खिन्नानि मे ममाङ्गकानि शरीरावयवा अल्पमपि स्वल्पमपि
गन्तुं नालं न समर्थानि । किं बहुनात्मनो देहेन्द्रियसंघातस्याप्यप्रभुरसमर्थोऽस्मि । 'अस भुवि' धातुः । लडुत्तमैक-
वचनम् । देहेन्द्रियादिकमपि स्वाधीनं मे नास्तीति भावः । मे मम हृदयं सीदत्यवशीर्यते । चक्षुरपि नेत्रमप्यन्ध-
कारतां तिमिरैतामुपयाति प्राप्नोति । अन्धकाराकुलं भवतीत्यर्थः । नामेति कोमलामन्त्रणे । अथेत्यानन्तर्ये । खलः
अशुभकरणाद्दुर्जनो विधिर्विधाता निच्छतोऽप्यसमीहमानस्यापि मे मम मरणं मृत्युमुपपादयेत्कुर्यात् ।
।
इत्येवं पूर्वोकप्रकारेण मयि चिन्तयत्येव विचारयत्येव यदभूत्तदाह - तस्मादिति । तस्मात्पूर्वोक्कात्सरसोऽदूर-
टिप्प० - 1 टीकाकारेण प्रायः स्थाने स्थान एव तादृशाः पाठाः परिगृहीता ये हि ग्रन्थगुम्फनसर-
गितः सर्वथा विपरीताः । एतैर्हि बाणसहशस्य महाकवेर्वाणी पहिलेव भवति । अत एव मूल-टीकयोर्षि
संवाद मनुचितमबगच्छन्नपि ग्रन्थगौरवं मा नशदिति परिवर्तितवानस्मि । व्याकरणादिममादाः शोषिता
अध्यनशिष्यन्त एवेति क्षम्यतां विवेकिभिरिति टिप्पणीकृत् । 2 धन्धं करोति इति अन्धकारस्तसाम्
( जम्धताजनकत्वम् ) उपयातीत्याशयः । 3 अपि नाम मृत्युमुपपादयेत् ? इति मूलधुतपाठानुसारं
खेडगशाम्भनलेब प्रभः ।
पाठा०-१ निर्घृणतयैव. २ दूरतः ३ सर:: ४ नूपुरानुकारि ५ विरुतमेतम् ६ एतानि चारफुटानि.
७ विप्रकर्षात्. ८ चेयम्. ९ अतिकष्टा दशा; कष्टा च. १० तुषम्. ११ आतपस्पर्शसंतप्त. १२ च भूमिः
१३ अलमप्रभुरस्मि. १४ अथ. १५ एब. १६ अतिदूर.