2023-09-03 07:38:33 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.


 
कादम्बरी ।
 
वशाच्च ततोप्यधोमुखः पतति येन निष्केशतया चमत्कुर्वन्मस्तकमस्य चूर्णीभवति ], ...जरद्द्रविडधा-
केणाधिष्ठितां चण्डिकामपश्यत् ।' (पृ. ४६१-६३)
 
यस्मादियं किंवदन्ती
( 'दण्डिनः पदलालित्यम्' ) लोके प्राचरत्, मूलप्रस्रवणभूतस्य तस्य पद्यस्
योपर्यपि किञ्चिदालोचनादृग् दीयते । पद्यं हि - 'उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पद
लालित्यं माघे सन्ति त्रयो गुणाः ॥' इति । अवश्यं महाकवेः कालिदासस्य विषये यदुच्येत तन्न्यूनम् । सि-
सारस्वतवैभवो महाकविचूडामणिः कालिदासो ह्यनिर्वचनीयेन काव्यगुणगौरवेण गरिष्ठः । अर्थगा
म्भीर्यं,पदलालित्यं प्रौढिरित्यादिः सर्वोप्यभिनन्दनीयः काव्यगुणगणस्तस्मिन्वर्तत इत्युपमापि तस्याऽन्य कविभ्यो

तिशायिनीति न कस्यचिद्विमतिः । प्रतिपदमुपलभ्यते हि तादृशमेवोपमासामञ्जस्यम् । भारवेरथेगौरवमा
म् 'स्यादेतत्' इति भङ्ग्या तावत्स्वीकुर्मः । समयान्तरेऽस्य विचारः प्रस्तूयेत । किन्तु 'माघे सन्ति त्र
यो गुणाः' इति यच्चतुर्थं चरणं तत्र मन्ये बहूनामेव मार्मिकाणां विचारः प्रसज्येत ।
 

 
माघस्य सुन्दरं शिशुपालवधम् । 'नवसर्गे गते माघे नवशब्दो न विद्यते' इति किंवदन्त्यनुसारम
--शब्दगुम्फे प्रौढाऽस्य लेखनी । अलंकारादिविन्यासेन शब्दार्थयोश्चमत्कारोऽपि स्थाने स्थानेऽभिनन्दनी
या एव । किन्तु कालिदासस्य पाटवमेकदेशि, यतो हि स उपमाप्रयोगे एव सिद्धहस्तः । भारविरर्थगाम्भीर्य-
गवेषणायामेव, दण्डी पदलालित्य एव, इति सर्वेप्ये कैकदेशिकाव्यसौष्ठवे पटिष्ठाः । परं माघः सर्वैर
प्येतैर्गुणैर्युक्त इति सार्वदेशिक काव्य सौन्दर्येणाभिनन्दनीय इति यदि पद्यस्यास्य तात्पर्यं तर्हि मन्ये स्पष्ट मे
तत्सर्वेषां प्रतीयेत यन्माघस्यातिभक्तिसूचकः प्ररोचनापरोऽयमर्थवाद एव । यतो हि कालिदासतुलमानाया
म्--सर्वथोत्कृष्टो माघः ? यतो हि यदर्थं कालिदासस्य प्रशंसा कविसमाजे प्रसक्ता तदेतत् उपमाप्रयोगपा
टवम्, तत्वस्त्येव माघे । तदधिको गुणस्त्वयं यत्कालिदासः केवलमुपमापटिष्ठ एव, अयं तु अर्थगा
म्भीर्य-पदलालित्यादिगुणैरप्यभ्यर्हितः । एवं सति कालिदासापेक्षयापि काव्यसौष्ठवसामग्रीसमृद्धत्वं माघ
स्य मार्मिक विचारसापेक्षं सिध्येत्
 
1
 

 
बहवः किल संगिरन्ते यन्माघः केवलं 'शब्दकविः' । यथाकथा शब्दगुम्फ एवायं पटुः । अर्थ गा
म्भीर्यस्य का कथा, सामान्यत औचित्यमपि तत्र मृग्यमेव । नारदमुनेः कुथ ('झूल') धारिणा न केव
लं हस्तिना, अपि तु पर्वतानां राज्ञा' हिमालयेन साहइदृश्यं कियदौचित्यमावहति ? मुनेरागमने शान्तिम
यी चित्तवृत्तिर्भवेत्, दिव्यप्रभावपूर्णं च सर्वतो वातावरणं स्यादित्येव हि मुनिसमागमवर्णनस्य सौन्दर्यं नाम

 
यथा भारवे:- 'मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैः ।
 
तु
 
परितः पटु विभ्रदेनसां दहनं धाम विलोकनक्षमम् ॥ १ ॥

प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन ।

प्रसह्य चेतःसु समासजन्तमसंस्तुतानामपि भावमार्द्रम् ॥ २ ॥
 
'
 
अत्र तु सुमुनेरागमने भूमिः कम्पते – ('धृते कथंचित्फणिनां गणैरधः' ) । कुलाचला दोलायन्ते, इत्यादि
खण्डप्रलयस्येव समयः समुपस्थितो भवति । कुतो वा न स्यात्, स्वयं कविः कृष्णनारदयोर्र्णने आह-
'तुषाराञ्जनपर्वतावि !' यत्र हि द्वयोः काल-धवलयोः पर्वतयोः संघर्ष उपतिष्ठति त्र का वा प्रलये
न्यू
नता ? भगवतो रामस्य ( बलभद्रस्य ) यत्स्वरूपं चित्रितं तद्भयंकरं मद्यपायिनमप्यतिशेते । अस्य सभामध्ये
भा
गमन एव घोरेण मद्यगन्धेन व्याप्तोऽभूत्सर्वोपि स्थानोद्देशः । अस्तु एवं माघस्य वर्णनापाटवमालोचना-
चक्रे वक्रेण दृष्टिकोणेन चेत्परीक्ष्यते तर्हि 'माघे सन्ति त्रयो गुणाः' इत्येष प्रस्तावो न किल सर्वसंमत्या स्त्री-
वीकर्तव्यः सिध्येत्ततश्च तत्पद्यगता अन्येष्प्यंशा विचारणीया एवेत्यलमन्यत्र विचारणीयेन प्रसक्तानुप्रसक्तेन
 

 
उपर्युक्तेन प्रघट्टकेन बाणरचनायां पदमाधुर्यं त्वसाधारणं सिद्धमेव, किन्तु तत्तद्रसानुकूलं गद्यनिबन्ध-
नचातुर्य मध्मप्यसामान्यं सिध्यति । एतदादिकमेव सर्वमालोच्य प्रोक्तं जयदेवेन- 'हृदयवसतिः पञ्चबाणस्तु
बाणः' इति । अर्थात् सर्वासामपि कविताका मिनीनां हृदयदत्तस्थानतया सर्वा अपि कविगिरो बाणमाद-