This page has not been fully proofread.


 
कादम्बरी ।
 
वशाच्च ततोप्यधोमुखः पतति येन निष्केशतया चमत्कुर्वन्मस्तकमस्य चूर्णीभवति ], ...जरगविडधा-
केणाधिष्ठितां चण्डिकामपश्यत् ।' (पृ. ४६१-६३)
 
यस्मादियं किंवदन्ती ( 'दण्डिनः पदलालित्यम्' ) लोके प्राचरत्, मूलप्रस्रवणभूतस्य तस्य पद्यस्य
यपि किञ्चिदालोचनादृग् दीयते । पद्यं हि - 'उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदल
लियं माघे सन्ति त्रयो गुणाः ॥' इति । अवश्यं महाकवेः कालिदासस्य विषये यदुच्येत तयूनम् । सि-
सारस्वतवैभवो महाकविचूडामणिः कालिदासो ह्यनिर्वचनीयेन काव्यगुणगौरवेण गरिष्ठः । अर्थगाभ
पदलालित्यं प्रौढिरित्यादिः सर्वोप्यभिनन्दनीयः काव्यगुणगणस्तस्मिन्वर्तत इत्युपमापि तस्याऽन्य कविभ्यो
तिशायिनीति न कस्यचिद्विमतिः । प्रतिपदमुपलभ्यते हि तादृशमेवोपमासामञ्जस्यम् । भारवेरथेगौरवमा
'स्यादेतत्' इति भङ्ग्या तावत्स्वीकुर्मः । समयान्तरेऽस्य विचारः प्रस्तूयेत । किन्तु 'माघे सन्ति त्र
गुणाः' इति यच्चतुर्थ चरणं तत्र मन्ये बहूनामेव मार्मिकाणां विचारः प्रसज्येत ।
 
माघस्य सुन्दरं शिशुपालवधम् । 'नवसर्गे गते माघे नवशब्दो न विद्यते' इति किंवदन्त्यनुसारम
शब्दगुम्फे प्रौढाऽस्य लेखनी । अलंकारादिविन्यासेन शब्दार्थयोश्चमत्कारोऽपि स्थाने स्थानेऽभिनन्दनी
एव । किन्तु कालिदासस्य पाटवमेकदेशि, यतो हि स उपमाप्रयोगे एव सिद्धहस्तः । भारविरर्थगाम्भी-
गवेषणायामेव, दण्डी पदलालित्य एव, इति सर्वेप्ये कैकदेशिकाव्यसौष्ठवे पटिष्ठाः । परं माघः सर्वैर
तैर्गुणैर्युक्त इति सार्वदेशिक काव्य सौन्दर्येणाभिनन्दनीय इति यदि पद्यस्यास्य तात्पर्य तर्हि मन्ये स्पष्ट मे
सर्वेषां प्रतीयेत यन्माघस्यातिभक्तिसूचकः प्ररोचनापरोऽयमर्थवाद एव । यतो हि कालिदासतुलमायाम
सर्वथोत्कृष्टो माघः ? यतो हि यदर्थ कालिदासस्य प्रशंसा कविसमाजे प्रसक्ता तदेतत् उपमाप्रयोगपान
बम्, तत्वस्त्येव माघे । तदधिको गुणस्त्वयं यत्कालिदासः केवलमुपमापटिष्ठ एव, अयं तु अर्थगा
पदलालित्यादिगुणैरप्यभ्यर्हितः । एवं सति कालिदासापेक्षयापि काव्यसौष्ठवसामग्रीसमृद्धत्वं माघ
मार्मिक विचारसापेक्षं सिध्येत् ।
 
1
 
बहवः किल संगिरन्ते यन्माघः केवलं 'शब्दकविः' । यथाकथा शब्दगुम्फ एवायं पटुः । अर्थ गाभ
र्यस्य का कथा, सामान्यत औचित्यमपि तत्र मृग्यमेव । नारदमुनेः कुथ ('झूल') धारिणा न केवट
हस्तिना, अपि तु पर्वतानां राज्ञा' हिमालयेन साहइयं कियदौचित्यमावहति ? मुनेरागमने शान्तिम
चित्तवृत्तिर्भवेत्, दिव्यप्रभावपूर्ण च सर्वतो वातावरण स्यादित्येव हि मुनिसमागमवर्णनस्य सौन्दर्य नाम
यथा भारवे:- 'मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैः ।
 
तु
 
परितः पटु विनदेनसां दहनं धाम विलोकनक्षमम् ॥ १ ॥
प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन ।
प्रसह्य चेतःसु समासजन्तमसंस्तुतानामपि भावमाईम् ॥ २ ॥
 
अत्र तु सुनेरागमने भूमिः कम्पते – ('धृते कथंचित्फणिनां गणैरधः' ) । कुलाचला दोलायन्ते, इत्यादि
खण्डप्रलयस्येव समयः समुपस्थितो भवति । कुतो वा न स्यात, स्वयं कविः कृष्णनारदयोर्षर्णने आह-
'तुषाराअनपर्वताविच !' यत्र हि द्वयोः काल-धवलयोः पर्वतयोः संघर्ष उपतिष्ठति सत्र का वा प्रलये न्यू
नता ? भगवतो रामस्य ( बलभद्रस्य ) यत्स्वरूपं चित्रितं तद्भयंकरं मद्यपायिनमप्यतिशेते । अस्य सभामध्ये
भागमन एव घोरेण मद्यगन्धेन व्याप्तोऽभूत्सर्वोपि स्थानोदेशः । अस्तु एवं माघस्य वर्णनापाटवमालोचना-
चक्रे वक्रेण दृष्टिकोणेन चेत्परीक्ष्यते तर्हि 'माघे सन्ति त्रयो गुणाः' इत्येष प्रस्तावो न किल सर्वसंमत्या स्त्री-
कर्तव्यः सिध्येसतश्च तत्पद्यगता अन्येष्यंशा विचारणीया एवेयलमन्यत्र विचारणीयेन प्रसक्तानुप्रसक्तेन
 
उपर्युक्तेन प्रघट्टकेन बाणरचनायां पदमाधुर्य त्वसाधारणं सिद्धमेव, किन्तु तत्तद्रसानुकूलं गधनिबन्ध-
नचातुर्य मध्यसामान्य सिध्यति । एतदादिकमेव सर्वमालोच्य प्रोक्तं जयदेवेन- 'हृदयवसतिः पञ्चबाणस्तु
बाणः' इति । अर्थात् सर्वासामपि कविताका मिनीनां हृदयदत्तस्थानतया सर्वा अपि कविगिरो बाणमाद-