कादम्बरी /109
This page has been fully proofread once and needs a second look.
मनवरतमुन्मुखस्य [^१]स्थूलस्थूलं [^२]श्वसतो धूलिधूसरस्य संसर्पतो [^३]मम समभून्मनसि– ' अतिक [^४]ष्टास्ववस्थास्वपि जीवितनिरपे [^५]क्षा न भवन्ति खलु जगति [^६]प्राणिनां [^७]प्रवृत्तयः । नास्ति जीवितादन्यदभिमततरमिह जगति [^८]सर्वजन्तूनाम्, [^९]एवमुपरतेऽपि सुगृहीतनाम्नि ताते यदहमविकलेन्द्रियः पुनरेव प्राणिमि । धिङ्मामकरुण- [^१०]मतिनिष्ठुरमकृतज्ञम् । अहो सोढ [^११]पितृमरणशोकदा-
रुणं येन मया जीव्यते, उपकृतमपि [^१२]नापेक्ष्यते, खलं हि खलु मे हृदयम् । [^१३]मया हि "लोकान्तरगतायामम्बायां नियम्य
शो [^१३]कवेगमा प्रसवदिवसात्परिणतवयसापि [^१६]सता तैस्तैरुपायैः संवर्धन [^१७]क्लेशमतिमहान्तमपि स्नेहवशाद- गणयता [^१८]यत्तातेन परिपालितस्तत्सर्वमेकपदे [^१९]विस्मृतम् । अतिकृपणाः खल्वमी [^२०]प्राणाः, यदुपकारिणमपि [^२१]तातं क्वापि गच्छन्तमद्यापि नानुगच्छन्ति, [^२२]सर्वथा न कंचि [^२३]न्न खलीकरोति जीविततृष्णा, [^२४]यदीदृगवस्थमपि [^२५]मामयमाया [^२६]सयति जला-
[ टि ]-- तदभाववशादेकमपि पदं चरणं दत्त्वा निवेश्यानवरतं बहुकालमुन्मुखस्योर्ध्वाननस्य स्थूलस्थूलं यथा स्यात्तथा
श्वसतः श्वासमोक्षणं कुर्वतः । एतेनैकपदस्थापनेति श्रमबाहुल्यं व्यज्यते । धूली रेणुस्तया धूसरस्य धूम्रवर्णस्य ।
किं कुर्वतः । संसर्पतः प्रचलतः । चिन्तां विवृणाति-ममेति । मम मनस्येवं समभूत् । तदेव दर्शयति ---
खल्विति । खलु निश्चयेन जगति लोकेऽतिकष्टमतिकृच्छ्रं यास्वैवेवंविधास्ववस्थासु दशासु प्राणिनां जीवानां प्रवृत्तयः
प्रवर्तनरूपाः क्रिया जीवितं प्राणितं तत्र निरपेक्षा गतस्पृहा न भवन्ति न स्युः । इह जगत्यस्मिमिंल्लोके सर्वजन्तूनामेव
सर्वप्राणिनामेव जीवितादभ्न्यत्किमप्यभिमततरं वाञ्छिततरं नास्ति । तत्रार्थे हेतुमाह - यदहमिति । यद्यस्मात्कार-
णारत्सुगृहीतं सर्वदा ग्रहणयोग्यं नाम यस्यैवंभूते ताते पितर्युपरतेऽपि मृतेऽप्यविकलानि विषयग्रहणसमर्थानीन्द्रियाणि
यस्यैवं भूतोऽहं पुनरेव सांप्रतमेव प्राणिमि जीवामि अतो मां धिगस्तु । अत्र धिग्योगे मानिति द्वितीया । मां
विशेषयन्नाह – अकरुणेति । अकरुणम् । निर्घृणमित्यर्थः । अतिनिष्ठुरमतिक्रूरम् । कृतं जानातीति कृतज्ञं न
कृतज्ञमकृतज्ञम् । अहो इति । अहो आश्चर्ये । सोढः क्षमितो यः पितृमरणशोकस्तेन दारुणं भीषणं यथा
स्यात्तथा मया जीव्यते तेन बहुकालमुपकृतं तदपि नापेक्ष्यते । तस्याप्यपेक्षा न क्रियत इति भावः । खल्विति ।
खलु निश्चयेन । मे मम हृदयं चित्तं खलं पिशुनम् । उपकारान- भिज्ञत्वादिति भावः । मयेति । हि निश्चितम् ।
मया तत्पूर्वोक्तं सर्वमखिलमेकपद एकदैव विस्मृतमित्यन्वयः । तत्किमित्यतंत आह - लोकान्तरेति । लोकान्तर
गतायां परलोकप्राप्तायामम्बायां जनन्यां शोकवेगं शोचनप्रवाहं नियम्य निरुध्य प्रसवदिवसान्मजन्म- दिनादारभ्य
परिणतं वयो यस्यैवंभूतेनापि सता तैस्तैरुपायैः क्षुधानिद्रापिपासोपशमार्थप्रतीकारैः । संवर्धनक्लेशमिति । स्नेह-
वशात्पुत्रप्रीतिमाहात्म्यात् अतिमहान्तमप्यत्यायतमपि मत्संवर्धन- क्लेशमगणयता क्लेशेषु तद्गणनामकुर्वता:। यदिति
हेत्वर्थे । तातेन पित्रा परि सामस्त्येंयेन पालितो वृद्धिं प्रापितः । खलुंलु निश्चयेन । अमी मे प्राणा अतिकृपणा अति-
छाशयेन जीवितलोलुपा अतितुच्छाः । यदिति द्वेहेतौ । उपकारिणमप्युपक्कृतिविधायकमपि तातं पितरं क्वाप्यनिर्दिष्ट स्थले
गच्छन्तं व्रजन्तमद्य'यापि सांप्रतमपि नानुगच्छन्ति नानुव्रजन्ति । सर्वथा जीविततृष्णा न कंचिन्न खलीकरोति । द्वौ
नौनञौ प्रकृतमर्थथं सूचयत इति सर्वमेव खलीकरोतीत्यर्थः । यदीह- दृगवस्थमपि शोकाकुलमपि मामयं जलाभिलाषः
पानीयग्रहणा- ध्यवसाय आयासयति खेदं जनयति । च पुनरर्थे । अहं मन्ये जाने । इयं मम सलिलपानबुद्धिर्जलपा-
पाठा० -
[^१]G. मुहुर्मुहुः स्थूलस्थूलम्.
[^२]G. निश्वसतः .
[^३]G. ममाभूत् .
[^४]G. अव्प्यवस्थासु.
[^५ ]G. स्वजीवित .
[^६]G. सर्वप्राणिनाम्.
[^७]G. वृत्तय: .
[^८]G. जन्तूनामेव.
[^९]G. उपरते सुगृहीत.
[^१०]G. अतिनिष्ठठुरं विसोढ.
[^११]G. मरणम्.
[^१२]G. नापेक्षते.
[^१३]G. अहम्.
[^१४]G. लोकान्तरमुपगतायाभू. म्.
[^१५]G. शोकावेग.
[^१६ ]G.सता तातेन तैस्तै ः :.
[^१७]G. महान्त.
[^१८]G. यत्परिपालितः
[^१९]G. विस्मृत-
मिति. १
[^२०]G. मे प्राणाः; मम प्राणा:
[^२१]G. तातमद्यापि गच्छन्तम्; तातमद्यापि कापि गच्छन्तम् ; तातमद्यकाक्वापि यान्तम्.
[^२२]G. सर्वथा कंचित्र. न्न.
[^२३]G. कंचन.
[^२४]G. यदीदृशावस्थम्.
[^२५]G. मामावासयति.
[^२६]G. अभिलाषयति.
रुणं येन मया जीव्यते, उपकृतमपि [^१२]नापेक्ष्यते, खलं हि खलु मे हृदयम् । [^१३]मया हि "लोकान्तरगतायामम्बायां नियम्य
शो [^१३]कवेगमा प्रसवदिवसात्परिणतवयसापि [^१६]सता तैस्तैरुपायैः संवर्धन [^१७]क्लेशमतिमहान्तमपि स्नेहवशाद- गणयता [^१८]यत्तातेन परिपालितस्तत्सर्वमेकपदे [^१९]विस्मृतम् । अतिकृपणाः खल्वमी [^२०]प्राणाः, यदुपकारिणमपि [^२१]तातं क्वापि गच्छन्तमद्यापि नानुगच्छन्ति, [^२२]सर्वथा न कंचि [^२३]न्न खलीकरोति जीविततृष्णा, [^२४]यदीदृगवस्थमपि [^२५]मामयमाया [^२६]सयति जला-
[ टि ]-- तदभाववशादेकमपि पदं चरणं दत्त्वा निवेश्यानवरतं बहुकालमुन्मुखस्योर्ध्वाननस्य स्थूलस्थूलं यथा स्यात्तथा
श्वसतः श्वासमोक्षणं कुर्वतः । एतेनैकपदस्थापनेति श्रमबाहुल्यं व्यज्यते । धूली रेणुस्तया धूसरस्य धूम्रवर्णस्य ।
सर्वप्राणिनामेव जीविताद
खलु निश्चयेन । मे मम हृदयं चित्तं खलं पिशुनम् । उपकारान- भिज्ञत्वादिति भावः । मयेति । हि निश्चितम् ।
वशात्पुत्रप्रीतिमाहात्म्यात् अतिमहान्तमप्यत्यायतमपि मत्संवर्धन- क्लेशमगणयता क्लेशेषु तद्गणनामकुर्वता
छा
[^१]G. मुहुर्मुहुः स्थूलस्थूलम्.
[^२]G. निश्वसतः
[^३]G. ममाभूत्
[^४]G. अ
[^५
[^६]G. सर्वप्राणिनाम्.
[^७]G. वृत्तय:
[^८]G. जन्तूनामेव.
[^९]G. उपरते सुगृहीत.
[^१०]G. अतिनिष्
[^११]G. मरणम्.
[^१२]G. नापेक्षते.
[^१३]G. अहम्.
[^१४]G. लोकान्तरमुपगताया
[^१५]G. शोकावेग.
[^१६ ]G.सता तातेन तैस्तै
[^१७]G. महान्त.
[^१८]G. यत्परिपालितः
[^१९]G. विस्मृत
[^२०]G. मे प्राणाः; मम प्राणा:
[^२१]G. तातमद्यापि गच्छन्तम्; तातमद्यापि कापि गच्छन्तम् ; तातमद्य
[^२२]G. सर्वथा कंचि
[^२३]G. कंचन.
[^२४]G. यदीदृशावस्थम्.
[^२५]G. मामावासयति.
[^२६]G. अभिलाषयति.