कादम्बरी /109
This page has been fully proofread once and needs a second look.
[कथामुखे-
"
93
मनन
ढ
रुणं येन मया जीव्यते, उपकृतमपि [^१२]नापेक्ष्यते, खलं हि खलु मे हृदयम् ।
शो
१
तदभाववशादेकमपि पदं चरणं दत्त्वा निवेश्यानवरतं बहुकालमुन्मुखस्योर्ध्वाननस्य स्थूलस्थूलं यथा स्यात्तथा
श्वसतः श्वासमोक्षणं कुर्वतः । एतेनैकपदस्थापनेति श्रमबाहुल्यं व्यज्यते । धूली रेणुस्तया धूसरस्य धूम्रवर्णस्य ।
किं कुर्वतः । संसर्पतः प्रचलतः । चिन्तां विवृणाति-ममेति । मम मनस्येवं समभूत् । तदेव दर्शयति ---
खल्विति । खलु निश्चयेन जगति लोकेऽतिकष्टमतिकृच्छ्रं यास्वैवंविधास्ववस्थासु दशासु प्राणिनां जीवानां प्रवृत्तयः
प्रवर्तनरूपाः क्रिया जीवितं प्राणितं तत्र निरपेक्षा गतस्पृहा न भवन्ति न स्युः । इह जगत्यस्मिल्लोके सर्वजन्तूनामेव
सर्वप्राणिनामेव जीवितादभ्यत्किमप्यभिमततरं वाञ्छिततरं नास्ति । तत्रार्थे हेतुमाह - यदहमिति । यद्यस्मात्कार-
णारसुगृहीतं सर्वदा ग्रहणयोग्यं नाम यस्यैवंभूते ताते पितर्युपरतेऽपि मृतेऽप्यविकलानि विषयग्रहणसमर्थानीन्द्रियाणि
यस्यैवं भूतोऽहं पुनरेव सांप्रतमेव प्राणिमि जीवामि अतो मां धिगस्तु । अत्र धिग्योगे मानिति द्वितीया । मां
विशेषयन्नाह – अकरुणेति । अकरुणम् । निर्घृणमित्यर्थः । अतिनिष्ठुरमतिक्रूरम् । कृतं जानातीति कृतज्ञं न
कृतज्ञमकृतज्ञम् । अहो इति । अहो आश्चर्ये । सोढः क्षमितो यः पितृमरणशोकस्तेन दारुणं भीषणं यथा
स्यात्तथा मया जीव्यते तेन बहुकालमुपकृतं तदपि नापेक्ष्यते । तस्याप्यपेक्षा न क्रियत इति भावः । खल्विति ।
खलु निश्चयेन । मे मम हृदयं चित्तं खलं पिशुनम् । उपकारानभिज्ञत्वादिति भावः । मयेति । हि निश्चितम् ।
मया तत्पूर्वोक्तं सर्वमखिलमेकपद एकदैव विस्मृतमित्यन्वयः । तत्किमित्यतं आह - लोकान्तरेति । लोकान्तर
गतायां परलोकप्राप्तायामम्बायां जनन्यां शोकवेगं शोचनप्रवाहं नियम्य निरुध्य प्रसवदिवसान्मजन्मदिनादारभ्य
परिणतं वयो यस्यैवंभूतेनापि सता तैस्तैरुपायैः क्षुधानिद्रापिपासोपशमार्थप्रतीकारैः । संवर्धनक्लेशमिति । स्नेह-
वशात्पुत्रप्रीतिमाहात्म्यात् अतिमहान्तमप्यत्यायतमपि मत्संवर्धन क्लेशमगणयता क्लेशेषु तद्गणनामकुर्वता : यदिति
हेत्वर्थे । तातेन पित्रा परि सामस्त्येंन पालितो वृद्धिं प्रापितः । खलुं निश्चयेन । अमी मे प्राणा अतिकृपणा अति-
छायेन जीवितलोलुपा अतितुच्छाः । यदिति द्वेतौ । उपकारिणमप्युपक्कृतिविधायकमपि तातं पितरं क्वाप्यनिर्दिष्ट स्थले
गच्छन्तं व्रजन्तमद्य'पि सांप्रतमपि नानुगच्छन्ति नानुव्रजन्ति । सर्वथा जीविततृष्णा न कंचिन्न खलीकरोति । द्वौ
नौ प्रकृतमर्थ सूचयत इति सर्वमेव खलीकरोतीत्यर्थः । यदीहगवस्थमपि शोकाकुलमपि मामयं जलाभिलाषः
पानीयग्रहणाध्यवसाय आयासयति खेदं जनयति । च पुनरर्थे । अहं मन्ये जाने । इयं मम सलिलपानबुद्धिर्जलपा-
पाठा० - १ मुहुर्मुहुः स्थूलस्थूलम्. २ निश्वसतः ३ ममाभूत् ४ अव्यवस्थासु. ५ वजीवित ६ सर्वप्राणिनाम्.
७ वृत्तय: ८ जन्तूनामेव. ९ उपरते सुगृहीत. १० अतिनिष्ठरं विसोढ. ११ मरणम्. १२ नापेक्षते. १३ अहम्.
१४ लोकान्तरमुपगतायाभू. १५ शोकावेग. १६ सता तातेन तैस्तै ः १७ महान्त. १८ यत्परिपालितः १९ विस्मृत-
मिति. १० मे प्राणाः; मम प्राणा: २१ तातमद्यापि गच्छन्तम्; तातमद्यापि कापि गच्छन्तम् ; तातमद्य कापि यान्तम्.
२२ सर्वथा कंचित्र. २३ कंचन. २४ यदीदृशावस्थम्. २५ मामावासयति. २६ अभिलाषयति.