कादम्बरी /108
This page has not been fully proofread.
पूर्वभागः ।
अंवतीर्य च स तेन समयेन क्षितितलविकीर्णान्संहत्य शुकशिशूने कलतापाशसंयताना-
बध्य पर्णपुढेऽतित्वरितगमनः सेनापतिगतेनैव वर्त्मना तामेव दिशमगच्छत् । मां तु लब्धजी-
विताशं प्रत्यमपितृमरणशोकशुष्क हृदय मतिदूरपातीदायासितशरीरं संत्रासजाता सर्वाङ्गोपता--
पिनी बलवती पिपासा परवशमकरोत् । अनया च कालकलया सुदूरमतिक्रान्तः स पापकृ-
दिति परिकलथ्य किंचिदुन्नमितकन्धरो भयचकितया दृशा दिशोऽवेलोक्य तृणेऽपि चलति
पुनः प्रतिनिवृत्त इति तमेव पदे पदे पापकारिणमुत्प्रेक्षमाणो निष्क्रम्य तस्मात्तमालतरु-
मूलात्सलिलसमीपं सतुं प्रयत्नमकरवम् ।
अजातपक्षतया नातिस्थिरैतरचरणसंचारस्य मुहुर्मुहुर्मुखेर्नै पततो मुहुस्तिर्थङिपतन्तमात्मान-
मेकया पक्षपाल्या संधारयतः क्षितितलसंसर्पण त्रैमातुरस्यानभ्यासवशादेकमपि दवा पद-
शुकस्य स्वदशावर्णनम् ।
]
७५
अवेति । अवतीर्योत्तीर्य स शबरस्तेन समयेनेति तत्कालेन क्षितितले पृथ्वीतले विप्रकीर्णानितस्ततः पर्यस्ता-
शुक शिशु कीरपाका संहृत्यैकीकृत्य । कीदृशान् । एकाद्वितीया या लता वल्ली तल्लक्षणो यः पाशो बन्धनरज्जुस्तेन
संयतान्बद्धानेवभूतान्पर्णपुट आबध्य बन्धनं कृत्वातित्वरितमतिशीघ्रं गमनं यस्य स तथा । सेनेति । येन सेना-
पतिर्गतस्तेनैव वर्त्मना मार्गेण तामेव दिशं सेनापतिगृहीतामेव ककुभमगच्छदगमत् । मां त्विति । तु पुनरर्थे ।
मां पिपासा वृद् परवशं परायत्तमकरोदित्यन्वयः । इतो मां विशेषयन्नाह - लब्धेति । तद्गमनादेव लब्धा प्राप्ता
जीविताशा प्राणधारणरांभावना येन स तम् । प्रत्ययेति । प्रत्यग्रो नवीनो यः पितृमरणशोको जनकमृत्युविषाद-
तेन शुष्क मनाई संकुचितं वा हृदयं चित्तं यस्य स तम् । अतीति । अतिदूरपाताद्दविष्ठतरप्रदेशपतनात् । तद्वृ -
क्षादिति शेषः । आयासितं परिश्रमितं शरीरं यस्य स तम् । तृषं विशेषयन्नाह -- संत्रासेति । संत्रासेन भयेन
जाता समुत्पन्ना । सर्वेति । सर्वाणि समग्राण्यङ्गानि हस्तप्रभृतीन्युपतापयति पीडयतीत्येवंशीला बलवती बलोप-
युक्ता । अनयेति । अनया कालकलया घटिकया स पापकृद्धिलः सुदूरं दूरदेशमतिकान्तो गत इति परिकलय्य
चेतसि परिकलनां कृत्वा । किंचिदिति । किंचिदीषदुन्नमितोवकृता कन्धरा ग्रीवा येन स तथा । भयेति ।
भयेन भीत्या चकिता त्रस्ता या दृक्तया दिशोऽवलोक्य निरीक्ष्य तृणेऽपि यवसेऽपि चलति कम्पति सति पुनः
प्रतिनिवृत्तः प्रत्यागत इति तमेव शबरमेव पदे पदे पापकारिणं कल्मषकारिणमुत्प्रेक्षमाण उत्पश्यमानो निष्क्रम्य
बहिर्निर्गत्य । कस्मात् । तस्मात्तमालतरुतलमूलात्तापिच्छवृक्षाधः स्थलात्सलिलसमीपं जलोपान्तं सर्वं गन्तुं प्रयत्नं
प्रयासमकरवमकार्षम् ।
i
अथ च मम मनस्येवमभूदित्यन्वयः । तं विशेषयन्नाह - अजातेति । भजातावनुत्पन्नौ यौ पक्षौ छदौ
तयोर्भावस्तत्ता तया न विद्यतेऽतिस्थिरतरश्चरणयोः क्रमयोः संचार: स्थापनयोग्यता यस्य स तथा । तस्य किं
कुर्वतः । मुहुर्मुहुर्वारंवार मुखेनाननेन पततः पतनं कुर्वतः । मुहुर्वारंवारं तिर्यक्तिरश्चीनं निपतन्तं श्यन्त -
मात्मानमेकया केवलया पक्षपाल्या छदसंहत्या संधारयतः पतनाद्रक्षां विदधतः । क्षितीति । क्षितितले
संसर्पण गमनं तस्मायो भ्रमो भ्रान्तिस्तेनातुरस्य पीडितस्य । अभ्यासेति । अभ्यासः पुनः पुनः करणं
F
टिप्प० - 1 कम्पमाने इत्यर्थः । 2 बाराहावशात्पश्यनित्यर्थः । वस्तुत:-संसर्पणश्रमातुरस्येत्येव
पाठ उचितः ।
पाठा०-
-१ अवतीर्य स: ० २ विकीर्णान्. ३ ताम्शुक. ४ आविध्य ५ अन्वगच्छत् ६ पातायासित ७ जात-
बेपथुम् ; जातसर्वाङ्ग. ८ आक्रान्तः . ९ विलोक्य. १० तरुतलमूलात्. ११ उपसर्तुम्. १३ अजातपक्षया च; अनुपजात
पक्षतया. १३ स्थिरचरण. १४ अधोमुखेनापततः १५ श्रमा.