कादम्बरी /107
This page has not been fully proofread.
७४
कादम्बरी ।
[ कथामुखे --
येने मे नौशीर्यन्त । यावचासौ तस्मात्तरुशिखरान्नावतरति तावदहमवशीर्णपत्रसवर्णत्वाद-
स्फुटोपलक्ष्यमाणमूर्तिः पितरमुपरतमुत्सृज्य नृशंस इव प्राणपरित्यागयोग्येऽपि काले बाल-
तथा कालान्तरभुवः नेहरसस्यानभिज्ञो जन्मसहभुवा भयेनैव केवलमभिभूयमानः किंचि-
दुपजाताभ्यां पक्षाभ्यामीपत्कृतावष्टम्भो लुठन्नितस्ततः कृतान्तमुख कुहरादिव विनिर्गतमात्मानं
मन्यमानो नातिदूरवर्तिनः शबरसुन्दरीकर्णपूररचनोपयुक्तपल्लवस्य संकर्षणपटनीलच्छाययोप-
हसत इव गदाधर देहच्छविम्, अच्छे: कालिन्दीजलच्छेदैरिव विरचितच्छदस्य, वनकरिमंदो-
पसिक्तकिसलयस्य, विन्ध्याटवी केशपाशश्रिय मुद्वहतः, दिवाप्यन्धकारितशा खान्तरस्य, अप्रवि-
ष्टसूर्य किरणम तिगह नमपरस्येव पितुरुत्सङ्गमतिमहतस्तमाल विटपिनो मूलदेशमविशम् ।
खमपश्यमद्राक्षम् । येनेति । येन पुण्येन, शुष्कपत्रराश्युपरिपातेन वा मे ममाङ्गानि नाशीर्यन्त न विगलितानि ।
यावच्चासौ शबरो यावता कालेन तस्मात् तरुशिखराक्षाग्रान्नावतरति नोत्तरति तावदहमवशीर्णानि विगलितानि
यानि पत्राणि तैः सवर्णः सदृशस्तस्य भावस्तत्त्वं तस्मादस्फुटमप्रकटमुपलक्ष्यमाणा दृश्यमाणा मूर्तिगक
तिर्यस्यैवंभूतोऽहमतिमहतोऽत्युच्चस्य तमालविटपिनस्तापिच्छस्य मृलदेशं बुध्रप्रदेशेमविशं प्रविष्टवानित्यन्वयः ।
उपेति । उपरतं व्यापनं पितरमुत्सृज्य त्यक्त्वा । क इव । नृशंस इव क्रूर इव प्राणपरित्यागे योग्य उचितम्त-
स्मिन्वृद्धपितुर्मरणे मरणमेवोचितमिति योग्यता तस्मिन्नपि काले समये सति बालतयार्भकत्वेन कालान्तरेऽप्र-
बुद्धवयोवस्थाविशेषे शयनासनभोजनादिषु यः स्नेहस्तद्विषयको रसस्तस्यानभिज्ञस्तदज्ञाता । किं क्रियमाणः ।
जन्मेति । जन्मसहभुवा उत्पत्तिसमयादारभ्य समुत्पन्नेन भयेनैव भियैव केवलं सर्वतोभिभूयमानः पीड्य-
मानः । पुनः कीदृक् । किंचिदिति । किंचिदीपदुपजाताभ्यां निष्पन्नाम्यां पक्षाभ्यां छदाभ्यामीपत्कृतोऽव-
ष्टम्भ आधार आश्रयो यस्य स । किं कुर्वन् । उठन्नितस्ततो भूमौ पतन् । कृतान्तेति । कृतान्तो
यमस्तस्य मुखमिव मुखं यस्यैवंभूतात्कुहरात्सुषिराद्विनिर्गतं निःसृतमात्मानं स्वं मन्यमानो ज्ञायमानः । अथ तमालं
विशेषयन्नाह - नातीति । न प्रतिषेधे । अतिदूरवर्ती दविष्ठप्रदेशस्थायी तस्य । शबरेति । शवराणां
भिल्लानां सुन्दर्यः स्त्रियस्तासां कर्णपूराणि कर्णाभरणानि तेषां रचना विनिर्मितिस्तत्रोपयुक्ताः सोपयोगिनः पल्लवा
यस्य स तथा तस्य । संकर्षणेति । संकर्षणो बलभद्रः । 'संकर्षणः प्रियमधुर्बलरौहिणेयौ' इति कोशः । तस्य
पटो वस्त्रं तस्यै नीला छाया कान्तिस्तया, गदाधरो विष्णुस्तस्य देहच्छवि शरीरदीप्तिमुपहसत इवोपहासं
कुर्वत इव । अच्छेरिति । अच्छैर्निर्मलैः कालिन्दी यमुना तस्या जलं पानीयं तस्य छेदाः खण्डानि तैरिव
विरचितानि निर्मितानि छदानि पत्राणि यस्य स तथा तस्य । वनेति । वनकरिणामरण्यहस्तिनां मदा दानानि
तैरुपसितानि सिञ्चितानि किसलयानि यस्य स तथा तस्य । विन्ध्येति । विन्ध्याटवी दण्डकारण्यं तस्याः
केशपाशः केशकलापस्तस्य श्रियं शोभामुत्प्राबल्येन वहतो दधतः । दिवापीति । दिवापि दिवसेऽपि
अन्धकारितं जातान्धकारं शाखान्तरं शालान्तरं यस्य स तथा तस्य । कीदृशं मूलदेशम् । अप्रविष्टेति ।
अप्रविष्टा नान्तर्गताः सूर्यस्य रवेः किरणा यस्मिन्स तम् । अतीति । अतिशयेन गहनमपर्याप्तावकाशम् ।
कस्येव । अपरस्येव भिन्नस्येव पितुरभयदातुरुत्सङ्गं क्रोडम् ।
1
टिप्प0 - 1 कालान्तरे शैशवं विहाय अन्यसिन् यौवनादिषु भवति तादृशस्य स्नेहरसस्य । स्नेहो हि
सुखदुःखानुभवोत्तरं बाल्यात्परमेवोद्भवति, न बाल्ये इत्याशयः । टीका तु भ्रमिकैव । 2 जानन्नित्यर्थः ।
3 तद्वत् नीला या छाया तया, इत्यर्थ उचितः ।
पाठा० -१ मे येन. २ नावाशीर्यन्त. ३ पर्ण. ४ बालकतया. ५ कृतगमनावष्टम्भः. ६ नील-
च्छायम्; नीलदलच्छायया; नीलया छायया. ७ गदाधरच्छविम्. ८ मदस लिलैरिवोपसिक्त; मदसलिलैरिव संसिक्त,
९ उद्वहन्तः.