2023-10-26 14:35:14 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मपि सोपानैरिवायत्नेनैव पादपमा [^१]रुह्य ताननुपजातोत्पतन- शक्तीन्कांश्चिदल्पदिवसजातान्गर्भच्छविपाटलाञ्छा [^२]ल्मली- कुसुमशङ्कामुपजनयतः, कांश्चिदुद्भिद्यमानपक्षतया [^३]नलिन- संवर्तिकानुकारिणः, कांश्चिदर्कफलसदृशान्, कांचिल्लोहिता- यमानचञ्चुकोटीनीषद्विघटितदलपुटपाटलमुखानां कमल- मुकुलानां [^४]श्रियमुद्वहतः, कांश्चिदनवरतशिरःकम्पव्याजेन [^५]निवारयत इव [^६]प्रतीकारासमर्थानेकैकतया फलानीव तस्य वनस्पतेः [^७]शाखान्तरेभ्यश्च शुकशावकानग्रहीत् ।
अपगतासूंश्च कृत्वा क्षितावपातयत् ।
 
तातस्तु तं [^८]महान्तमकाण्ड एवं प्राणहरमप्रतीकारमुपप्लव- मुपनत [^९]मालोक्य द्विगुणतरोपजातवेपथुर्मरणभयादुद्भ्रान्त- तर [^१०]लता [^११]रको विषादशून्यामश्रुजलप्लुतां दृशमितस्ततो दिक्षु विक्षिपन्, उच्छुष्कतालुरात्मप्रतीकाराक्षमस्त्रासस्रस्तसंधि- शिथिलेन [^१२]पक्षसंपुटे [^१३]नाच्छाद्य मां तत्कालो-
 
[ टि ]-- न्वयः । इतः शुकशिशून्विशेषयन्नाह - अन्विति । अनुपजातानुत्पन्नोत्पतनशक्तिर्नभोगमनसामर्थ्यं येषां
ते तथा तान् । कांश्चिदिति । अल्पदिवसजातान्स्वल्पदिनप्रभवान् । गर्भैभेति । प्रत्यग्रोत्पन्नस्य गर्भस्य या
छवि: कान्तिस्तया पाटलाञ्श्वेतरक्तान् । किं कुर्वंतः । उपजनयत उत्पादयतः । काम् । शाल्मली वृक्षस्य
यानि कुसुमानि पुष्पाणि तेषां शङ्कामारे [^1]काम् । तत्कुसुमानामपि श्वेतरक्तत्वादेतेषां च तथात्वादुपमानोपमेय-
मा
भावः । कांश्चिदिति । उद्भिद्यमानाः प्रादुर्भूयमाना ये पक्षास्तेषां भावस्तत्ता तया नलिनानां कमलानां संव-
र्तिका नवदलम् । 'संवर्तिका नवदलम्' इति कोशः । अनेनातिनैर्मल्यं द्योत्यते । तदनुकारिण- स्तत्सादृश्य-
भाजः । कांश्चिदिति । अर्को मन्दारस्तस्य फलानि तैः सदृशांस्तत्तुल्यान् । कांश्चिदिति । लोहितायमाना
रक्तायमाना- श्चञ्चूमांनां त्रोटीनां कोट्यः अग्रभागा येषां ते तथा तान् । कांश्चिकिं कुर्वतः । श्रियं [^2]शोभामुद्हत
उत्प्राबल्येन धारयन्तः । केषाम् । कलमुकुलानां नलिनकुड्मलानाम् कीदृशानाम् । ईषत्किंचिद्विघटितं विक-
सितं यद्दलपुटं तेन पाटलं श्वेतरक्तं मुखं येषां तानि तथा तेषाम् । पुनः शिशूनिवन्विशिनष्टि - अनेति । अनव-
रतं निरन्तरं यः शिरःकम्पस्तस्य व्याजो मिषं तेन निवारयै [^3]यत इव 'वयं बालकाः, अस्मासु दया कर्तव्या,
मास्माञ्जहि' इति निवारणां कुर्वत इव । कीदृशान् । प्रतीकारो वधनिवृत्त्युपाय- स्तत्रासमर्थान्सामर्थ्यवर्जितान् ।
अपेति । अपगता असवः प्राणा येषामेवंविधांस्तान्कृत्वा विधाय क्षितौ भूमावपातदचिक्षिपत् ।
 
तातस्तु मत्पिता तु मां क्रोडविभागेनोत्सङ्गप्रदेशेनावष्टभ्या- लम्बनीकृत्य तस्थौ तस्थिवानित्यन्वयः । तथा
महान्तं महीयांसमकाण्ड एवाप्रस्ताव एव प्राणहरं जीवितनाशकृतं अप्रतीकारम चिकित्स्यमुपप्लवमुपद्रवमुपनतं
प्राप्तमालोक्य निरीक्ष्य । अथ तत्पितरं विशेषयन्नाह - द्विगुणतरेति । द्विगुणतरः पूर्वस्माद्विगुणित उपजातः
समुत्पन्नो वेपथुः कम्पो यस्य स तथा । मरणेति । मरणभयान्मृत्युत्रासादुद्भ्रान्ता अतिशयेन भ्रमितास्तरलाश्च -
ञ्चलस्तारकाः कनीनिका यस्य सः । किं कुर्वन् । दृशं दृष्टिमितस्ततः समन्ततो दिक्षु ककुप्सु विक्षिपन्विस्तारयन् ।
दृशं विशिनष्टि - विषादेति । विषादेन शोकेन शून्यां निस्तेजसम् । अश्रिवर्विति । अश्रुजलेन नेत्राम्बुना प्लुतां
प्लाविताम् । उदिति । उत्प्राबल्येन शुष्कमनार्दं तालु काकुदं यस्य स तथा । आत्मनः स्वस्य यः प्रतीकारो दुःख-
निवृत्त्युपायस्तत्राक्षमोऽसमर्थः । किं कृत्वा । पक्षपुटेन छदपुटेन मामाच्छाद्य तिरोधाय । किं कुर्वाणः । मन्यमानो
जानानः । किं । तत्कालोचितं तत्समययोग्यम् । इममेव प्रतीकारमुपायम् । पक्षसंपुटं विशेषयन्नाह - त्रासेति ।
 

 
टिप्प० –
[^1]F. शङ्काम् । भ्रान्तिमानलंकारः ।
[^
2]F. उपमानधर्मस्य ( श्रियः ) उपमेये आरोपात्पदार्थ-
निदर्शना ।
[^
3]F. स्वाभाविककम्पे निवारणस्य संभावनास्त्क्रियावस्तूत्प्रेक्षा । व्याजेनेस्युक्त्या सापह्नवा ।
[^4]F. अनवसरे एवेत्यर्थः ।
[^
5]F. उद्भ्रान्ते तरले, चञ्चले अथवा अधिकविस्फारणेन भास्वरे ('तरलो भास्वरे
चले' इति हैमः ) कनीनिके यस्येत्युचितम् ।
 
पाठा
 
-
[^]G. अधिरुह्य .
[^
]G. शाल्मलि .
[^
]G. नलिनी .
[^
]G. उद्वहन्ता .
[^
]G. निवारयन्तः .
[^
]G. प्रतीकारानेकैकशः .
[^
]G. शाखा-
संघिधिभ्यः कोटरान्तरेभ्यश्च; शाखान्तरेभ्यः कोटरान्तरेभ्यश्च .
[^
]G. अतिमहान्तमकाण्ड इव.
[^
]G. अवलोक्य.
[^
१०]G. तरलतर.
[^११]G. तारकान्; तारकाम्.
[^
१२]G. पक्षपुटेन, .
[^
१३]G. आच्छाद्य तत्कालोचितम्.