2023-10-26 09:41:06 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथामुखे-
७२
 
मपि सोपानैरिवायत्नेनैव पादपमा [^१]रुह्य ताननुपजातोत्पतन- शक्तीन्कांश्चिदस्ल्पदिवसजातान्गर्भ
च्छविपाटलाञ्छा [^२]ल्मली- कुसुमशङ्कामुपजनयतः, कांश्चिदुविद्भिद्यमानपक्षतया नै[^३]नलिन- संवर्तिकानु-
कारिणः, कांश्चिदर्कफलसदृशान्, कांचिल्लोहिता- यमानच खुञ्चुकोटीनीष द्विघटितदलपुटपाटलमु-
खानां कमल- मुकुलानां [^४]श्रियमुद्वहतः, कांश्चिदनवरतशिरः कम्पव्याजेन [^५]निवारयत इव [^६]प्रती-
कारासमर्थानेकैकतया फलानीव तस्य वनस्पतेः शौ[^७]शाखान्तरेभ्यश्च शुकशावकानग्रहीत् ।

अपगतासूसूंश्च कृत्वा क्षितावपातयत् ।
 
.
 

 
तातस्तु तं [^८]महान्तमकाण्ड एवं प्राणहरमप्रतीकारमुपप्लव- मुपनत [^९]मालोक्य द्विगुणतरोपजा-
वेपथुर्मरणभयादुद्धान्ततरभ्रान्त- तर [^१०]लतारै [^११]रको विषादशून्यामश्रुजलपुप्लुतां दृशमितस्ततो दिक्षु विक्षिपन्,
उच्छुष्कतालुरात्मप्रतीकाराक्षमखास्त्रात्स्रस्तसंधि- शिथिलेन [^१२]पक्षसंपुढेनटे [^१३]नाच्छाद्य मां तत्कालो-

 
[ टि ]--
न्वयः । इतः शुकशिशूविशेषयन्नाह - अन्विति । अनुपजातानुत्पन्नोत्पतनशक्तिर्नभोगमनसामर्थ्य येषां

ते तथा तान् । कांश्चिदिति । अल्पदिवसजातान्खल्पदिनप्रभवान् । गर्भैति । प्रत्यग्रोत्पन्नस्य गर्भस्य या

छवि: कान्तिस्तया पाटलाञ्श्वेतरतान् । किं कुर्वंतः । उपजनयत उत्पादयतः । काम् । शाल्मली वृक्षस्य

यानि कुसुमानि पुष्पाणि तेषां शङ्कामारेकाम् । तत्कुसुमानामपि श्वेतरक्तत्वादेतेषां च तथात्वादुपमानोपमेय-

मावः । कांश्चिदिति । उद्भिद्यमानाः प्रादुर्भूयमाना ये पक्षास्तेषां भावस्तत्ता तया नलिनानां कमलानां संव-

तिका नवदलम् । 'संवर्तिका नवदलम्' इति कोशः । अनेनातिनैर्मल्यं द्योत्यते । तदनुकारिणस्तत्सादृश्य-

भाजः । कांश्चिदिति । अर्को मन्दारस्तस्य फलानि तैः सदृशांस्तत्तुल्यान् । कांश्चिदिति । लोहितायमाना

रक्तायमानाश्चञ्चूमां त्रोटीनां कोट्यः अग्रभागा येषां ते तथा तान् । कांश्चिक कुर्वतः । श्रियं शोभामुद्रहत

उत्प्राबल्येन धारयन्तः । केषाम् । कसलमुकुलानां नलिनकुमलानाम् कीदृशानाम् । ईषत्किंचिद्विघटितं विक-

सितं यद्दलपुटं तेन पाटलं श्वेतरक्त मुखं येषां तानि तथा तेषाम् । पुनः शिशूनिवशिनष्टि - अनेति । अनव-

रतं निरन्तरं यः शिरःकम्पस्तस्य व्याजो मिषं तेन निवारयैत इव 'वयं बालकाः, अस्मासु दया कर्तव्या,

मास्माजहि' इति निवारणां कुर्वत इव । कीदृशान् । प्रतीकारो वधनिवृत्त्युपायस्तत्रासमर्थान्सामर्थ्यवर्जितान् ।

अपेति । अपगता असवः प्राणा येषामेवंविधांस्तान्कृत्वा विधाय क्षितौ भूमावपातजदचिक्षिपत् ।
 

 
तातस्तु मत्पिता तु मां क्रोडविभागेनोत्सङ्गप्रदेशेनावष्टभ्यालम्बनीकृत्य तस्थौ तस्थिवानित्यन्वयः । तथा

महान्त महीयांसमकाण्ड एवाप्रस्ताव एव प्राणहरं जीवितनाशकृतं अप्रतीकारम चिकित्स्यमुपलवमुपद्रवमुपनतं

प्राप्तमालोक्य निरीक्ष्य । अथ तत्पितरं विशेषयन्नाह - द्विगुणतरेति । द्विगुणतरः पूर्वस्माद्विगुणित उपजातः

समुत्पन्नो वेपथुः कम्पो यस्य स तथा । मरणेति । मरणभयान्मृत्युत्रासादुद्भ्रान्ता अतिशयेन भ्रमितास्तरलाश्च -

ञ्चलस्तारकाः कनीनिका यस्य सः । किं कुर्वन् । दृशं दृष्टिमितस्ततः समन्ततो दिक्षु ककुप्सु विक्षिपन्विस्तारयन् ।

दृशं विशिनष्टि - विषादेति । विषादेन शोकेन शून्यां निस्तेजसम् । अश्रिवति । अश्रुजलेन नेत्राम्बुना लुतां

लाविताम् । उदिति । उत्प्राबल्येन शुष्कमनाई तालु काकुदं यस्य स तथा । आत्मनः स्वस्य यः प्रतीकारो दुःख-

निवृत्त्युपायस्तत्राक्षमोऽसमर्थः । किं कृत्वा । पक्षपुटेन छदपुटेन मामाच्छाद्य तिरोधाय । किं कुर्वाणः । मन्यमानो

जानानः । किं । तत्कालोचितं तत्समययोग्यम् । इममेव प्रतीकारमुपायम् । पक्षसंपुटं विशेषयन्नाह - त्रासेति ।
 

 

 

 
टिप्प० – 1 शङ्काम् । भ्रान्तिमानलंकारः । 2 उपमानधर्मस्य ( श्रियः ) उपमेये आरोपात्पदार्थ-

निदर्शना । 3 स्वाभाविककम्पे निवारणस्य संभावनास्क्रियावस्तूत्प्रेक्षा । व्याजेनेस्युक्त्या सापह्नवा ।

4 अनवसरे एवेत्यर्थः । 5 उद्भ्रान्ते तरले, चञ्चले अथवा अधिकविस्फारणेन भास्वरे ('तरलो भास्वरे

चले' इति हैमः ) कनीनिके यस्येत्युचितम् ।
 

 
पाठा
 

 
-१ अधिरुह्य २ शाल्मलि ३ नलिनी ४ उद्वहन्ता ५ निवारयन्तः ६ प्रतीकारानेकैकशः ७ शाखा-

संघिभ्यः कोटरान्तरेभ्यश्च; शाखान्तरेभ्यः कोटरान्तरेभ्यश्च ८ अतिमहान्तमकाण्ड इव. ९ अवलोक्य. १० तरलतर.

११ तारकान्; तारकाम्. १२ पक्षपुटेन, १३ आच्छाद्य तरकालोचितम्.