कादम्बरी /104
This page has not been fully proofread.
शबरचरचनम ]
पूर्वभागः ।
,
मेयं हिमंजडम्, अरविन्दकोशरजः कषायमम्भः कमलिनीपत्रपुंटेन प्रत्यत्रोद्धृताच धौतपङ्क-
निर्मला मृणालिकाः समुपाहरत् । आपीतसलिलञ्च सेनापतिस्ता मृणालिका: शशिकला इव
सैहिकेय: क्रमेणादशत् । अपगतश्रमश्रोत्थाय परिपीताम्भसा सकलेन तेन शबरसैन्येनानु-
गम्यमानः शनैः शनैरभिमतं दिगन्तरमयासीत् ।
ऐकतमस्तु जरच्छबरस्तस्मात्पुलिन्दवृन्दादनासादितहरिणपिशितः पिशिताशन इव विकृ-
तँदर्शनः पिशितार्थी तस्मिन्नेव तैरुतले मुहूर्तमिव व्यलम्बत । अन्तरिते च शबरसेनापतौ
स जीर्णशबरः पिबन्निवास्माकमायूंषि रुधिरबिन्दुपाटलया कपिलभ्रूलतापरिवेषभीषणया
दृष्ट्या गणयन्निव शुककुलकुलायस्थानानि श्येन इव विहेगामिषखादलालसः सुचिरमारुरु-
क्षुस्तं वनस्पतिमा मूलादपश्यत् । उत्क्रान्तमिव तस्मिन्क्षणे तदालोकनभीतानां शुककुला-
नामसुभि: । किमिव हि दुष्करमकरुणानाम् । यतः स तमनेकतालतुङ्गमभ्रंकषशाखाशिखर-
प्रत्यग्रेति । प्रत्यग्रं तत्कालमुद्धृता उत्खाताः । आपीतेति । आपीतं पानविषयीकृतं सलिलं येनैवंभूतः
सेनापतिः सैन्यनायकः । क्रमेण जलपानानन्तरं ता मृणालिका अदशदभक्षयत् । कः कामिव । सैहिकेयो राहुः
स यथा शशिकलाश्चन्द्रकला अश्नाति । अपेति । अपगतो दूरीभूतः श्रमः खेदो यस्य स उत्थायोत्थानं
कृत्वा परिपीताम्भसा कृतजलपानेन सकलेन समग्रेण तेन पूर्वोक्तेन शबरसैन्येन भिल्लबलेनानुगम्यमानः
शनैः शनैः कृताखेटकवृत्तित्वेन त्वराभावादभिमतं समीहितम् । एकस्या दिशः सकाशादन्या दिशो दिगन्तर-
मयासीदगमत् । 'या प्रापणे' इत्यस्य लुङि रूपम् ।
एकतमस्त्विति । तु पुनरर्थे । एकतमः कश्चिज्जरच्छबरः स्थविरभिल्लस्तस्मात्पुलिन्दनृन्दाच्छबरसमुदायाद-
नासादितमप्राप्तं हरिणपिशितं मृगमांसं येनैवंभूतः पिशितार्थी मांसार्थी । पिशितेति । पिशितमश्नातीति
पिशिताशनो व्याघ्रस्तद्वदिव विकृतं दर्शनं यस्य स तस्मिन्नेव तरुतले पूर्वोक्तवृक्षाध एकमुहूर्तमिव घटिकाद्व-
यमिव व्यलम्बत तद्गमनानन्तरं विलम्बं चकार । तथा शबरसेनापतौ भिल्लनायकेऽन्तरिते वृक्षादिना व्यवहितें
सति स पूर्वोक्तो जीर्णशबरोऽस्माकं पक्षिणामायूंषि जीवितानि पिबन्निव पानं कुर्वन्निव शुकानां कीराणां यानि
कुलानि तेषां कुलाया नीडानि तेषां स्थानानि स्थलविशेषाणि गणयन्निव तत्संख्यां कुर्वन्निव । कया । दृष्ट्या ।
इतो दृष्टि विशेषयन्नाह – रुधिरेति । रुधिरस्य रक्तस्य यो बिन्दुः पृषत्तद्वत्पाटलया श्वेतरक्तया । कपिलेति ।
कपिला पिङ्गला या भ्रूलता तस्याः परिवेषः परिधिस्तन भीषणया भयकारिण्या । पुनः प्रकारान्तरेण तमेवं
विशेषयन्नाह -श्येनेति । श्येन इव शशादन इव विहगानां पतन्त्रिणां यदामिषं मांसं तस्यास्वादो भक्षणं तत्र
लालसो लम्पटस्तं वनस्पतिं शाल्मलीवृक्षमा रुरुक्षुरारोढुमिच्छुः सुचिरं चिरकालं यावत् । आ मूलान्मूलं मर्या-
दीकृत्यामूलं तस्मात्प्रान्तपर्यन्तमपश्यद्यलोकयत । उत्क्रान्तमिवेति । तस्मिन्क्षणे तस्मिन्प्रस्तावे तस्य
यदालोकनं वीक्षणं तेन भीतानां भयप्राप्तानां शुककुलानामसुभिः प्राणैरुत्क्रान्तमिव निर्गतमिव । हीति ।
हि यस्मात्कारणादकरुणानां निर्दयानां किमिव दुष्करम् । न किमपीत्यर्थः । सर्वमेवाकृत्यं कुर्वन्तीति भावः ।
यतः स भिल्लस्तं पादपमनेके ताला वृक्षविशेषास्तद्वत्तुङ्गमुञ्चम् । अभ्रमिति । अभ्रंकषमभ्रंलिहं शाखानां
शिखरं प्रान्तो यस्यैवंभूतमप्ययत्नेनैव प्रयासव्यतिरेकेणैव सोपानैरिवारोहणैरिवारुह्यारोहणं कृत्वा तस्य वनस्पतेः
शाखान्तरेभ्यश्च शुकशावकानेकैकं प्रत्येकं तस्य भावस्तत्ता तया फलानीव सस्यानीव तानग्रहीदादत्तेत्य-
टिप्प० - 1 पिशिताशन इव राक्षस इवेत्युचितोऽर्थः ।
पाठा -१ जलशिशिरम् २ संपुटेन. ३ निर्मल ४ सलिल: सेनापतिः; सलिलश्च शबरसेनापति: ५ एकतर:.
६ अतिविकृतदर्शनस्तस्मिन्नेव. ७ तरुमूले. ८ च तस्मिन्, ९ ध्रुवा परिवेष. १० शुककुलाय. ११ विहङ्गा..
१९ सुरुचिर. १३ आलोकभीतानाम्.