कादम्बरी /103
This page has been fully proofread once and needs a second look.
विष [^१]दिग्धमुखा [^२]भुजंगा इव सायकाः, गीतमु- [^३]त्साहकारि मुग्धमृगाणाम् कलत्राणि [^४]बन्दीगृहीताः परयोषितः, क्रूरात्मभिः शार्दूलैः सहसंवासः, [^५]पशुरुधिरेण देवतार्चनम्, मांसेन बलिकर्म, चौर्येण [^६]जीवनम्, भूषणानि भुजंग [^७]मणयः, वन [^८]करिमदैरङ्गरागः, [^९]यस्मिन्नेव कानने निवसन्ति तदेवोत्खातमूलमशेषतः [^१०]कुर्वते' इति चिन्तयत्येव [^११]मयि [^१२]शबरसेनापतिरटवी [^१३]भ्रमण-
[^१४]समुद्भवं श्रममपनिनीषुरागत्य तस्यैव [^१५]शाल्मलीतरो-
रध [^१६]श्छायायामवतारितकोदण्डस्त्वरितपरि [^१७]जनोप-
नीतपल्लवासने समुपाविशत् । [^१८]अन्यतरस्तु शबरयुवा ससंभ्रममवतीर्य तस्मात्करयुगलपरिक्षोभिताम्भसः सरसो वैडूर्यद्रवानुकारि, प्रलयदिवसकरकिरणोपतापादम्बरैकदेशमिव
विलीनम्, इन्दुमण्डलादिव प्रस्यन्दितम्, [^१९]द्रुतमिव मुक्ता- फलनिकरम्, अत्यच्छतया स्पर्शानु-
[ टि ]-- स्वाभाविकम् । तेषामौपाधिकमिति भावः । गीतमिति । मुग्धा अनभिज्ञा ये मृगा हरिणास्तेषामुत्साहकारि
स्तब्धताविधायि गीतं गानम् । कलत्रेति । परयोषितोऽन्यस्त्रिय एव बन्दी ग्रहस्तद्रूपत्वेन गृहीताः स्वीकृताः
कलत्राणि खस्वपत्न्यः । क्रूरेति । क्रूरात्मभिर्दुष्टात्मभिः शार्दूलैश्चित्रकैः समं संवासः सहावस्थानम् । पश्चिति ।
विति । पशवो महिषास्तेषां रुधिरेण रक्तेन देवतार्चनं देवपूजनम् । मांसेनेति । मांसेन पिशितेन बलिर्हन्तकारस्तत्कर्म
तं तत्कृत्यम् । चौर्येणेति । चौर्येण परद्रव्यापहारेण जीवनं प्राणधारणम् । भूषणा- नीति । भूषणान्याभरणानि
भुजंगमणयः सर्परत्नानि । पर्वतवासि-
त्वात्तेषां ते सुलभा इति भावः । वनेति । वनकरिणामरण्य हस्तिनां मदैर्दान-
त्रावारिभिरङ्गरागो विलेपनम् । यस्मिन्निति । यस्मिन् अनिर्दिष्टनामनि कानने वने निवसन्ति निवासं कुर्वन्ति तदेव
काननमशेषतः समग्रत उत्खातमुत्पाटितं मूलं मध्यभागो यस्यैवंभूतं कुर्वते विदधत इति पूर्वोक्तप्रकारेण मयि
चिन्तयति ध्यायति सत्येव स शबरसेनापतिस्तस्यैव शाल्मलीतरोरधरछायायामागत्य । त्वरितेति । त्वरितं शीघ्रं
परिजनेन परिच्छदेनोपनीतमानीतं यत्पल्लवासनं किसलयासनं तस्मिन्समुपाविशत्तस्थिवान् । किं कर्तुमिच्छुः । अप-
निनीषुः अपनेतुं दूरीकर्तुमिच्छुः । कम् । श्रमं खेदम् । एतदेव विशेषयन्नाह – अटवीति । अटव्यां भ्रमणमित-
स्ततः पर्यटनं तस्मात्समुद्भवं समुत्पन्नम् । सेनापतिं विशेषयन्नाह–अवेति । अवतारितं अनधिज्यं कृतं कोदण्ड
डं धनुर्येन स तथा । तुः पुनरर्थे । अन्यतरः कश्चिदनिर्दिष्टनामा । शबरश्चासौ युवा चेति कर्मधारयः । न तु
शबराणां युवेति निर्धारणे षठ्या समासः । 'न निर्धारणे' इति षठ्या सह समासनिषेधात् । ससंभ्रमं सवेगमव-
तीर्य तदन्तः प्रविश्य तस्मात्पम्पाभिधानात्सरसः कासारात्कमलिनी नलिनी तस्याः पत्रपुटेनाम्भः पानीयं तथा
धौतः क्षालितः पङ्कः कर्दमो यासां ता अत एव निर्मला विशदा या मृणालिकाः कम- लिन्यस्ताश्च समुपाहरदानी-
नवानित्यन्वयः । 'सरो विशिनष्टि - करेति । करयुगलेन हस्तद्वयेन परिक्षोभितं विलोडितमम्भः पानीयं
तत्तथा तस्मात् । अथाम्भो विशेषयन्नाह
– वैडूर्येति । वैडूर्ययं वाल- [^1]वायजं तस्य द्रवः कल्करतदनुकारि तत्सदृ-
राशम् । अत्युज्ज्वल- वर्णत्वात्त [^2]त्तदुपमानम् । प्रलयेति । प्रलयस्य कल्पान्तस्य यो दिवसकरः सूर्यस्तरस्य किरणा
दीधितयस्तेषामुपतापादुष्णाद्विलीनं क्षरितमम्बरस्याकाशस्यैकदेशमिवैकप्रविभागमिव । इन्दुमण्ड- लाञ्चन्द्रबिम्बा-
त्प्रस्यन्दितं क्षरितमिव । तथा मुक्ताफलस्य रसोद्भवस्य निकरं समूहं द्रुतमिव द्रवोपयुक्तमिव । अत्यच्छतया
अंअतिस्वच्छतया तादृशभ्रमेऽपि शीतस्पर्शेनानुमेयमनुमातुं योग्यं हिमेन तुहिनेन जडं स्तब्धतां प्राषितम् ।
अरविन्दस्य कमलस्य यः कोशः कर्णिकाधारस्तस्य रजः परागस्तेन कषायं तुवरम् । कमलिनीर्विशेषयन्नाह -
टिप्प० -- [^1]F. हरितमणि रित्यर्थः ।
पाठा० -[^2]F. उष्णत्वात् ।
[^3]F. हिमवत् जडं शीतमित्यर्थो बोध्यः ।
[^१]G. दग्ध.
[^२]G. भुजंगमाः.
: गज. ९ यस्मिन्नेव च. १० कुर्वन्ति.
१५ शाल्मलि, १६ छायाम्. १७ उपनीते
2 उष्णत्वात् । 3 हिमवत् जडं शीतमित्यर्थो बोध्यः ।
[^३]G. उत्साद.
[^४]G. बन्दि.
[^५]G. पशुरुधिरेणैव .
[^६]G. जीवितम्.
[^७]G. फणामयः.
[^८]G. गज.
[^९]G. यस्मिन्नेव च.
[^१०]G. कुर्वन्ति.
[^११]G. मयि सः.
[^१२]G. शबरसेनापतिश्च .
[^१३]G. परिभ्रमण.
[^१४]G. समुद्भव.
[^१५]G. शाल्मलि.
[^१६]G. छायाम्.
[^१७]G. उपनीते.
[^१८]G. अन्यतमः, म.
[^१९]G. हृतम्..
[^१४]समुद्भवं श्रममपनिनीषुरागत्य तस्यैव [^१५]शाल्मलीतरो-
रध [^१६]श्छायायामवतारितकोदण्डस्त्वरितपरि [^१७]जनोप-
नीतपल्लवासने समुपाविशत् । [^१८]अन्यतरस्तु शबरयुवा ससंभ्रममवतीर्य तस्मात्करयुगलपरिक्षोभिताम्भसः सरसो वैडूर्यद्रवानुकारि, प्रलयदिवसकरकिरणोपतापादम्बरैकदेशमिव
विलीनम्, इन्दुमण्डलादिव प्रस्यन्दितम्, [^१९]द्रुतमिव मुक्ता- फलनिकरम्, अत्यच्छतया स्पर्शानु-
[ टि ]-- स्वाभाविकम् । तेषामौपाधिकमिति भावः । गीतमिति । मुग्धा अनभिज्ञा ये मृगा हरिणास्तेषामुत्साहकारि
तं
त्वात्तेषां ते सुलभा इति भावः । वनेति । वनकरिणामरण्य
त्रा
काननमशेषतः समग्रत उत्खातमुत्पाटितं मूलं मध्यभागो यस्यैवंभूतं कुर्वते विदधत इति पूर्वोक्तप्रकारेण मयि
स्ततः पर्यटनं तस्मात्समुद्भवं समुत्पन्नम् । सेनापतिं विशेषयन्नाह–अवेति । अवतारितं अनधिज्यं कृतं कोदण्
तीर्य तदन्तः प्रविश्य तस्मात्पम्पाभिधानात्सरसः कासारात्कमलिनी नलिनी तस्याः पत्रपुटेनाम्भः पानीयं तथा
तत्तथा तस्मात् । अथाम्भो विशेषयन्नाह
रा
पाठा० -
[^3]F. हिमवत् जडं शीतमित्यर्थो बोध्यः ।
[^१]G. दग्ध.
[^२]G. भुजंगमाः.
१५ शाल्मलि, १६ छायाम्. १७ उपनीते
2 उष्णत्वात् । 3 हिमवत् जडं शीतमित्यर्थो बोध्यः ।
[^४]G. बन्दि.
[^५]G. पशुरुधिरेणैव
[^६]G. जीवितम्.
[^७]G. फणामयः.
[^८]G. गज.
[^९]G. यस्मिन्नेव च.
[^१०]G. कुर्वन्ति.
[^११]G. मयि सः.
[^१२]G. शबरसेनापतिश्च
[^१३]G. परिभ्रमण.
[^१४]G. समुद्भव.
[^१५]G. शाल्मलि.
[^१६]G. छायाम्.
[^१७]G. उपनीते.
[^१८]G. अन्यत
[^१९]G. हृतम्.