This page has not been fully proofread.

कादम्बरी ।
 
[ कथामुखे-
.9
 
विषदिग्धमुखा भुजंगा इवं सायकाः, गीतमुत्साहकारि मुग्धमृगाणाम् कलत्राणि बॅन्दीगृ-
हीताः परयोषितः, क्रूरात्मभिः शार्दूलैः सहसंवासः, पैशुरुधिरेण देवतार्चनम्, मांसेन ब
लिकर्म, चौर्येण जीवनम्, भूषणानि भुजंगमणयः, वनकरिमदैरङ्गरागः, येस्मिन्नेव कानने
निवसन्ति तदेवोत्खातमूलमशेषतः कुँर्वते' इति चिन्तयत्येव मैयि शबरसेनापतिरटवी भ्रमण-
समुद्भवं श्रममपनिनीषुरागत्य तस्यैव शाल्मलीतरोरध३छायायामवतारित कोदण्डस्त्वरितपरि-
ज़ैनोपनीतपल्लवासने समुपाविशत् । अन्यतरस्तु शबरयुवा ससंक्रममवतीर्य तस्मात्करयुगल-
परिक्षोभिताम्भसः सरसो वैडूर्यद्रवानुकारि, प्रलयदिवसकर किरणोपतापादम्बरैकदेशमिव
विलीनम्, इन्दुमण्डलादिव प्रस्यन्दितम्, द्रुतमिव मुक्ताफलनिकरम्, अत्यच्छतया स्पर्शानु-
स्वाभाविकम् । तेषामौपाधिकमिति भावः । गीतमिति । मुग्धा अनभिज्ञा ये मृगा हरिणास्तेषामुत्साहकारि
स्तब्धताविधायि गीतं गानम् । कलत्रेति । परयोषितोऽन्यस्त्रिय एव बन्दी ग्रहस्तद्रूपत्वेन गृहीताः स्वीकृताः
कलत्राणि खपत्न्यः । क्रूरेति । क्रूरात्मभिर्दुष्टात्मभिः शार्दूलैश्चित्रकैः समं संवासः सहावस्थानम् । पश्चिति ।
पशवो महिषास्तेषां रुधिरेण रक्तेन देवतार्चनं देवपूजनम् । मांसेनेति । मांसेन पिशितेन बलिर्हन्तकारस्तत्कर्म
तंत्कृत्यम् । चौर्येणेति । चौर्येण परद्रव्यापहारेण जीवनं प्राणधारणम् । भूषणानीति । भूषणान्याभरणानि
भुजंगमणयः सर्परत्नानि । पर्वतवासित्वात्तेषां ते सुलभा इति भावः । वनेति । वनकरिणामरण्य हस्तिनां मर्दान-
त्रारिभिरङ्गरागो विलेपनम् । यस्मिन्निति । यस्मिन् अनिर्दिष्टनामनि कानने वने निवसन्ति निवासं कुर्वन्ति तदेव
काननमशेषतः समग्रत उत्खातमुत्पाटितं मूलं मध्यभागो यस्यैवंभूतं कुर्वते विदधत इति पूर्वोक्तप्रकारेण मयि
चिन्तयति ध्यायति सत्येव स शबरसेनापतिस्तस्यैव शाल्मलीतरोरधरछायायामागत्य । त्वरितेति । त्वरितं शीघ्रं
परिजनेन परिच्छदेनोपनीतमानीतं यत्पल्लवासनं किसलयासनं तस्मिन्समुपाविशत्तस्थिवान् । किं कर्तुमिच्छुः । अप-
निनीषुः अपनेतुं दूरीकर्तुमिच्छुः । कम् । श्रमं खेदम् । एतदेव विशेषयन्नाह – अटवीति । अटव्यां भ्रमणमित-
स्ततः पर्यटनं तस्मात्समुद्भवं समुत्पन्नम् । सेनापतिं विशेषयन्नाह–अवेति । अवतारितं अनधिज्यं कृतं कोदण्ड
धनुर्येन स तथा । तुः पुनरर्थे । अन्यतरः कश्चिदनिर्दिष्टनामा । शबरश्चासौ युवा चेति कर्मधारयः । न तु
शबराणां युवेति निर्धारणे षठ्या समासः । 'न निर्धारणे' इति षठ्या सह समासनिषेधात् । ससंभ्रमं सवेगमव-
तीर्य तदन्तः प्रविश्य तस्मात्पम्पाभिधानात्सरसः कासारात्कमलिनी नलिनी तस्याः पत्रपुटेनाम्भः पानीयं तथा
धौतः क्षालितः पङ्कः कर्दमो यासां ता अत एव निर्मला विशदा या मृणालिकाः कमलिन्यस्ताश्च समुपाहरदानी-
नवानित्यन्वयः । 'सरो विशिनष्टि - करेति । करयुगलेन हस्तद्वयेन परिक्षोभितं विलोडितमम्भः पानीयं
तत्तथा तस्मात् । अथाम्भो विशेषयन्नाह
– वैडूर्येति । वैडूर्य वालवायजं तस्य द्रवः कल्करतदनुकारि तत्सदृ-
राम् । अत्युज्वलवर्णत्वात्तपमानम् । प्रलयेति । प्रलयस्य कल्पान्तस्य यो दिवसकरः सूर्यस्तरय किरणा
दीधितयस्तेषामुपतापादुष्णाद्विलीनं क्षरितमम्बरस्याकाशस्यैकदेशमिवैकप्रविभागमिव । इन्दुमण्डलाञ्चन्द्रबिम्बा-
प्रस्यन्दितं क्षरितमिव । तथा मुक्ताफलस्य रसोद्भवस्य निकरं समूहं द्रुतमिव द्रवोपयुक्तमिव । अत्यच्छतया
अंतिस्वच्छतया तादृशभ्रमेऽपि शीतस्पर्शेनानुमेयमनुमातुं योग्यं हिमेन तुहिनेन जडं स्तब्धतां प्राषितम् ।
अरविन्दस्य कमलस्य यः कोशः कर्णिकाधारस्तस्य रजः परागस्तेन कषायं तुवरम् । कमलिनीर्विशेषयन्नाह -
 
टिप्प० -- 1 हरितमणि रित्यर्थः ।
 
पाठा० - १ दग्ध. २ भुजंगमाः.
: गज. ९ यस्मिन्नेव च. १० कुर्वन्ति.
१५ शाल्मलि, १६ छायाम्. १७ उपनीते
 
2 उष्णत्वात् । 3 हिमवत् जडं शीतमित्यर्थो बोध्यः ।
 
३ उत्साद. ४ बन्दि. ५ पशुरुधिरेणैव ६ जीवितम्. ७ फणामयः.
११ मयि सः. १२ शबरसेनापतिश्च १३ परिभ्रमण. १४ समुद्भव.
१८ अन्यतमः, १९ हृतम्..