2023-10-24 15:16:44 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शबरचरित्रालोचनम् ]
 
पूर्वभागः ।
 
प्यसुदर्शनम्, स्वच्छन्द [^१]चारमपि दुर्गैकशरणम्, क्षितिभृत्पादा- नुवर्तिनमपि राजसेवानभिज्ञम्,
अपत्यमिव [^२]विन्ध्याचलस्य, अंशकावतारमिव कृतान्तस्य, सहोदरमिव पापस्य, [^३]सारमिव
क़

लिकालस्य, भीषणमपि महासत्त्वतया गम्भीरमिवोपलक्ष्यमाणम्, [^४]अभिर् [^1]भवनीयाकृविं
तिं [^५]मातङ्गनामानं शबरसेना- पतिमपश्यम् । अभिधानं तु [^७]पश्चात्तस्याहमश्रौषम् ।
 

 
आसीच्च मे मनसि — 'अहो, [^८]मोह [^९]प्राय [^१०]मेतेषां'" जीवितं साधुजन [^११]गर्हितं च चरितम् ।
तथा हि — पुरुषपिशितोपहारे धर्मबुद्धिः, आहारः साधुजन [^१२]गर्हितो मधुमांसादिः, श्रमो
मृगया, शौखं[^१३]शास्त्रं शिवारुतम्, [^१४]समुपदेष्टारः सदसतां कौशिकाः, प्रज्ञा शकुनिज्ञानम्, परिचिताः
श्वानः, राज्यं [^१५]शून्यास्वटवीषु, आपानकमुत्सवः, मित्राणि [^१६]क्रूरकर्मसाधनौ [^१७]नानि धनूंषि, सहाया
 

 
[ टि ]--
कृष्णेति । कृष्णं विष्णुमपि सुदर्शनेन रहितमिति विरोधः । परिहारपक्षे कृष्णं श्यामवर्णमत एवासुदर्शनं भीम-
दर्शनम् । भयोत्पादकत्वादिति भावः । स्वच्छन्देति । स्वच्छन्देन स्वेच्छतया चारश्चरणं यस्यैवंभूतमपि दुर्
गं कोट्टमेकमद्वितीयं शरणमाश्रयो यस्येति विरोधः । परिहारपक्षे दुर्गा भवान्येकं शरणं यस्येति विग्रहः । क्षिति-
भृदिति । क्षितिभृद्राजा तस्य पादाश्चरणास्तदनुवर्तिनमपि तत्समीपस्थायिनमपि राजसेवा नृपसपर्या तस्या
अनभिज्ञमकुशल- मिति विरोधः । तत्परिहारपक्षे क्षितिभृत्पर्वतस्तस्य पादाः पर्यन्तपर्वतास्तदनुवर्तिनं तत्र स्थायिन-
मिति विग्रहः । अपत्येति । विन्ध्याचलस्य जलबालकाद्रेरपत्यमिव प्रसूतिमिव । अंशेति । कृतान्तस्य यमस्यां-
शावतारमिवैकदेशावतारमिव । सहोदरेति । पापस्यैनसः सहोदरमिव सोदरमिव । सारेति । कलिकालस्य

कलियुगस्य सारमिव सर्वस्वमिव । भीषणेति । भीषणमपि भयजनकमपि महञ्च्च तत्सत्त्वं च महासत्त्वं तस्य
भावस्तत्ता तया गम्भीरमिव गाम्भीर्यगुणयुक्तमिवोपलक्ष्यमाणं परिदृश्यमानम् । परैरिति शेषः । अभीति ।
अभिभवनीया तिरस्करणीयाकृतिरा- कारो यस्येति स तम् । अन्वयस्तु प्रागेवोक्तः । अभिधानं तु पश्चात्तस्याहमश्रौ
षं तस्य सेनापतेरभिधानं नामाहं पश्चात्तद्दर्शना- नन्तरमश्रौषमाकर्णयम् । अनुचरमुखादिति शेषः ।
 

 
आसीञ्च्चेति । मे मम मनसि चित्त आसीद्भूव । खेद इति शेषः । तदेव दर्शयति - अहो इत्यादिना ।
अहो इत्याश्चर्येति । एतेषां भिल्लानां जीवितं प्राणितं मोहोऽज्ञानं प्रायः प्रचुरं यत्र तादृशम् । चः पुनरर्थे । चरि-
तमाचरणं साधुजनैः सज्जनजनैर्गर्हितं निन्दितम् । तदेव विशेषतो दर्शयति- तथा हीति । पुरुषेति । पुरुषस्य

पुंसो यत्पिशितं मांसं तस्य य उपहारो भगवत्यै नैवेद्यदर्शनं तस्मिन्धर्मबुद्धिः श्रेयोधीः । आहार इति । आहारः
प्रत्यवै [^2]वसानं साधुजनैर्गहि॑िहितो निन्दितो मधुमांसादिर्मधु मद्यं माक्षिकं वा । मांसं प्रतीतम् । ते आदौ यस्येति बहु-
व्रीहिःआदिशब्दात्कन्दादिपरिग्रहः । श्रम इति । श्रमः शक्तिसाधनायासः मृगयाऽऽखेटकः । शास्त्रमिति ।
शिवा शृगाली तस्या रुतं शब्दितं शास्त्रमुच्च- स्वरवेदपाठः । प्रबोधजनकत्वसाम्यात्तदुपमानम् । सदिति । सदसतां
शुभाशुभानां समुपदेष्टारो बोधकाः कौशिका उलूकाः । प्रज्ञेति । शकुनयः पतत्रिणस्तेषां स्थूलमहत्त्वादिना ज्ञानं

तदेव प्रज्ञा विवेकबुद्धिः । परीति । श्वानः सारमेयाः परिचिता विश्वासपात्राणि । राज्यमिति । शून्यासु जन
रहितासु अंटवीषु विन्ध्याटवीषु राज्यं स्वामित्वम् । आपानकेति । उत्सवः संतुष्टिकार्यं तदेवापानमेवापानकम् ।
स्वार्थे कः । पानगोष्ठिका । मित्राणीति । क्रूरं यत्कर्म तत्साधनानि तद्धेतुभूतानि धनूंष्येव चापान्येव मित्राणि

सुहृदः । हितचिन्तकानीति यावत् । सहाया इति । विषेण दिग्धं लिप्तं मुखमाननं येषामेवंविधाः सायका
बाणास्त एव सहाया इष्टकार्यकर्तृत्वात्साहाय्यकारिणः । क इव । भुजंगाः सर्पा इव । एतेषां विषदिग्धमुखत्वं
टिप्प० -

 
[^
1]F. अनभिभवनीयाकृतिम् दृढगात्रतया अपराजय्यमूर्तिम् । इत्येव पाठो व्याख्या चोचिता ।

[^
2]F. भोजनमित्यर्थः ।
 
पाठा० -

 
[^
]G. प्रचार.
[^
]G. विन्ध्यस्यः .
[^
]G. सारथिम् .
[^
]G. अनभिभव.
[^
]G. मातङ्गक.
[^
]G. सर्वशबर .
[^
]G. तस्य पश्चात्.

[^
]G. घोर.
[^
]G. प्राज्य.
[^
१०]G. एषाम्.
[^
११]G. निर्वाहितम्.
[^
१२]G. निन्दितः; विगर्हितः.
[^
१३]G. शाले. स्त्रे.
[^
१४]G. उपदेष्टारः.

[^
१५]G. शून्याटवीषु.
[^
१६]G. क्रूरकर्माणि, .
[^
१७]G. धनं धनूंषि.