कादम्बरी /102
This page has not been fully proofread.
शबरचरित्रालोचनम् ]
पूर्वभागः ।
प्यसुदर्शनम्, स्वच्छन्दचारमपि दुर्गैकशरणम्, क्षितिभृत्पादानुवर्तिनमपि राजसेवानभिज्ञम्,
अपत्यमिव विन्ध्याचलस्य, अंशकावतारमिव कृतान्तस्य, सहोदरमिव पापस्य, सारमिव
क़लिकालस्य, भीषणमपि महासत्त्वतया गम्भीरमिवोपलक्ष्यमाणम्, अभिर्भवनीयाकृविं
मातङ्गनामानं शबरसेनापतिमपश्यम् । अभिधानं तु पश्चात्तस्याहमश्रौषम् ।
आसीच मे मनसि — 'अहो, मोहप्रायमेतेषां'" जीवितं साधुजनगर्हितं च चरितम् ।
तथा हि — पुरुषपिशितोपहारे धर्मबुद्धिः आहारः साधुजनगर्हितो मधुमांसादिः, श्रमो
मृगया, शौखं शिवारुतम्, समुपदेष्टारः सदसतां कौशिकाः, प्रज्ञा शकुनिज्ञानम्, परिचिताः
श्वानः, राज्यं शून्यास्वटवीषु, आपानकमुत्सवः, मित्राणि क्रूरकर्मसाधनौनि धनूंषि, सहाया
कृष्णेति । कृष्णं विष्णुमपि सुदर्शनेन रहितमिति विरोधः । परिहारपक्षे कृष्णं श्यामवर्णमत एवासुदर्शनं भीम-
दर्शनम् । भयोत्पादकत्वादिति भावः । स्वच्छन्देति । खच्छन्देन स्वेच्छतया चारश्चरणं यस्यैवंभूतमपि दुर्ग
कोट्टमेकमद्वितीयं शरणमाश्रयो यस्येति विरोधः । परिहारपक्षे दुर्गा भवान्येकं शरणं यस्येति विग्रहः । क्षिति-
भृदिति । क्षितिभृद्राजा तस्य पादाश्चरणास्तदनुवर्तिनमपि तत्समीपस्थायिनमपि राजसेवा नृपसपर्या तस्या
अनभिज्ञमकुशलमिति विरोधः । तत्परिहारपक्षे क्षितिभृत्पर्वतस्तस्य पादाः पर्यन्तपर्वतास्तदनुवर्तिनं तत्र स्थायिन-
मिति विग्रहः । अपत्येति । विन्ध्याचलस्य जलबालकाद्रेरपत्यमिव प्रसूतिमिव । अंशेति । कृतान्तस्य यमस्यां-
शावतारमिवैकदेशावतारमिव । सहोदरेति । पापस्यैनसः सहोदरमिव सोदरमिव । सारेति । कलिकालस्य
कलियुगस्य सारमिव सर्वस्वमिव । भीषणेति । भीषणमपि भयजनकमपि महञ्च तत्सत्त्वं च महासत्त्वं तस्य
भावस्तत्ता तया गम्भीरमिव गाम्भीर्यगुणयुक्तमिवोपलक्ष्यमाणं परिदृश्यमानम् । परैरिति शेषः । अभीति ।
अभिभवनीया तिरस्करणीयाकृतिराकारो यस्येति स तम् । अन्वयस्तु प्रागेवोक्तः । अभिधानं तु पश्चात्तस्याहमश्रौष
तस्य सेनापतेरभिधानं नामाहं पश्चात्तद्दर्शनानन्तरमश्रौषमाकर्णयम् । अनुचरमुखादिति शेषः ।
आसीञ्चेति । मे मम मनसि चित्त आसीद्वभूव । खेद इति शेषः । तदेव दर्शयति - अहो इत्यादिना ।
अहो इत्याश्चर्येति । एतेषां भिल्लानां जीवितं प्राणितं मोहोऽज्ञानं प्रायः प्रचुरं यत्र तादृशम् । चः पुनरर्थे । चरि-
तमाचरणं साधुजनैः सज्जनजनैर्गर्हितं निन्दितम् । तदेव विशेषतो दर्शयति- तथा हीति । पुरुषेति । पुरुषस्य
पुंसो यत्पिशितं मांसं तस्य य उपहारो भगवत्यै नैवेद्यदर्शनं तस्मिन्धर्मबुद्धिः श्रेयोधीः । आहार इति । आहारः
प्रत्यवैसानं साधुजनैर्गहि॑ितो निन्दितो मधुमांसादिर्मधु मद्यं माक्षिकं वा । मांसं प्रतीतम् । ते आदौ यस्येति बहु-
व्रीहिः । आदिशब्दात्कन्दादिपरिग्रहः । श्रम इति । श्रमः शक्तिसाधनायासः मृगयाऽऽखेटकः । शास्त्रमिति ।
शिवा शृगाली तस्या रुतं शब्दितं शास्त्रमुच्चस्वरवेदपाठः । प्रबोधजनकत्वसाम्यात्तदुपमानम् । सदिति । सदसतां
शुभाशुभानां समुपदेष्टारो बोधकाः कौशिका उलूकाः । प्रज्ञेति । शकुनयः पतत्रिणस्तेषां स्थूलमहत्त्वादिना ज्ञानं
तदेव प्रज्ञा विवेकबुद्धिः । परीति । श्वानः सारमेयाः परिचिता विश्वासपात्राणि । राज्यमिति । शून्यासु जन
रहितासु अंटवीषु विन्ध्याटवीषु राज्यं स्वामित्वम् । आपानकेति । उत्सवः संतुष्टिकार्यं तदेवापानमेवापानकम् ।
स्वार्थे कः । पानगोष्ठिका । मित्राणीति । क्रूरं यत्कर्म तत्साधनानि तद्धेतुभूतानि धनूंष्येव चापान्येव मित्राणि
सुहृदः । हितचिन्तकानीति यावत् । सहाया इति । विषेण दिग्धं लिप्तं मुखमाननं येषामेवंविधाः सायका
बाणास्त एव सहाया इष्टकार्यकर्तृत्वात्साहाय्यकारिणः । क इव । भुजंगाः सर्पा इव । एतेषां विषदिग्धमुखत्वं
टिप्प० - 1 अनभिभवनीयाकृतिम् दृढगात्रतया अपराजय्यमूर्तिम् । इत्येव पाठो व्याख्या चोचिता ।
2 भोजनमित्यर्थः ।
पाठा० - १ प्रचार. २ विन्ध्यस्यः ३ सारथिम् ४ अनभिभव. ५ मातङ्गक. ६ सर्वशबर ७ तस्य पश्चात्.
८ घोर. ९ प्राज्य. १० एषाम्. ११ निर्वाहितम्. १२ निन्दितः; विगर्हितः. १३ शाले. १४ उपदेष्टारः.
१५ शून्याटवीषु. १६ क्रूरकर्माणि, १७ धनं धनूंषि.