कादम्बरी /101
This page has not been fully proofread.
कादम्बरी ।
[ कथामुखे
ष्णम्, विद्याधरमिव मानसवेगम्, पाराशरमिव योजनगन्धानुसारिणम्, घटोत्कचमिव भी-
मरूपधारिणम्, अचलराजकन्यका केशपाशमिव नीलकण्ठचन्द्रकाभरणम्, हिरण्याक्षदानव-
मिव महावराहवंष्ट्राविभिन्नवक्षःस्थलम्, अतिरागिणमिव कृतबहुबन्दीपरिग्रहम्, पिशिताशन-
मिवक्तलुब्धकम्, गीतकैलाविन्यासमिव निषादानुगतम्, अम्बिकात्रिशूलमिव महिषरुधिरा
कायम्, अभिनवयौवनमपि क्षपितबहुवयसम्, कृतसारमेयसंग्रह मपि फलमूलाशनम्, कृष्णम-
मिव दिनमिव । उभयोः साम्यमाह -सततेति । सततं निरन्तरं वनादाविर्भूता प्रकटीभूता ये मृगा हरि-
णास्तेषु तृष्णा हननेच्छा यस्य स तम् । पक्ष आविर्भूता प्रकटिता मृगतृष्णा मरीचिका येष्विति विग्रहः ।
विद्येति । विद्याधरो व्योमगस्तद्वदिव । उभयोः साम्यार्थमाह – मानसेति । मानेनाहंकारेण सवेगः सर्वदा
तीव्रगतिः । पक्षे मानसे मानसाभिधाने सरसि गतिर्गमनं यस्येति विग्रहः । पारेति । पाराशरो व्यासस्तमिव ।
उभयोः सादृश्यमाह - योजनेति । योजनं गन्धो विद्यते यस्मिन्नित्यर्शआदित्वादच्प्रत्ययः । योजनगग्धः
कस्तूरीमृगस्तमनुसरतीत्येवंशीलः स तम् । योजनगन्धा शीतं तमनुसारिणमिति वा । पक्षे 'व्यासमातरि .
कस्तूरीशीतयोश्च' इति कोशः । घटेति । घटोत्कचो हिडिम्बासुतस्तमिव । उभयोः सादृश्यमाह - भीमेति ।
भीमं भयकारि यद्रूपं तद्धारिणम् । पक्षे भीमस्य वृकोदरस्य रूपमाकृतिस्तद्धारिणम् । तत्पुत्रत्वात् । अचलेति ।
अचलराजो हिमाचलस्तस्य कन्यका पार्वती तस्याः केशपाशः केशकलापस्तमिव । उभयोस्तुल्यतामाह-
नीलेति । नीलकण्ठो मयूरस्तस्य चन्द्रका मेचैकास्तेषामा समन्ताद्भरणं धारणं यस्मिन्स तथा तम् । पक्षे नील-
कण्ठो महादेवस्तस्य यश्चन्द्र एव चन्द्रकस्तदेवाभरणं यस्मिन् । अर्धनारीत्वादिति भावः । हिरण्येति । हिर-
ण्याख्यो हिरण्यकशिपुः दानवः दैत्यस्तमिव । उभयोः साम्यं दर्शयन्नाह - महेति । महावराहा वनसूकरा-
स्तेषां दंष्ट्रा दाढास्ताभिर्विभिनं विहितक्षतं वक्षःस्थलं भुजान्तरं यस्य स तथा तम् । द्वितीयपक्षे भगवता
कृष्णेन महावराहरूपमाधाय हिरण्याक्षस्य वक्षःस्थलं विदारितमिति प्रसिद्धिः । अतीति । अतिरागिणमतिरा-
गाभिभूतमतियशोभिलाषुकं तमिव । उभयोस्तुल्यतामाह- कृतेति । कृतो विहितो बहुबन्दीनां प्रहाणां परि
सामस्त्येन ग्रहो येन स तम् । पक्षे कृतो बहुबन्दिनां वैतालिकानां परिग्रहः स्वीकारो येनेति विग्रहः ।
'श्लेषे स्वरो न गण्यते' इति हस्वदीर्घार्थः श्लेषः । पिशितेति । पिशिताशनो मांसभक्षकस्तद्वदिव । उभ-
योस्तुल्यत्वमाह – रक्तेति । रक्ता अनुरक्ता लुब्धका व्याधा यस्मिन्स तथा तम् । पक्षे रक्ते रुधिरे लुब्ध
एव लुब्धकः । सस्पृह इत्यर्थः । गीतेति । गीतकला गेयविज्ञानं तस्या विन्यासो रचना तमिव । उभयोः
साम्यमाह - निषादेति । निषादा भिल्लास्तैरनुगतं पश्चागतम् । पक्षे निषादस्तन्त्रीकण्ठोद्भवः खरः । 'निषा-
दर्षभगान्धार -' इति कोशः । तेनानुगतं सहितम् । अम्बिकेति । अम्बिका भवानी तस्यास्त्रिशूलं शस्त्रविशे-
षस्तद्वदिव । उभयोः सादृश्यमाह - महिषेति । महिषो रक्ताक्षस्तस्य रुधिरं रक्तं तेनाद्रः स्विन्नः कायो
देहो यस्य स तम् । तदपि तादृशामित्यभङ्गश्लेषः । अभिनवेति । अभिनवं मनोहारि प्रत्यग्रं वा यौवनं
तारुण्यं यस्यैवंभूतमपि क्षपितानि बहूनि वयांसि येनेति विरोधः । परिहारपक्षे क्षपिता बहवो वयसः पक्षिणो
येनेति विग्रहः । कृतेति । कृतो विहितः सारस्य धनस्य मेयस्य मातुं योग्यस्यान्नादेः संग्रहः स्वीकारो येनैवंभू-
तमपि फलमूलान्येवाशनं भक्षणं यस्येति विरोधः । परिहारपक्षे कृतः सारमेयाणां कुक्कुराणां संग्रहो येनैवंभूतम् ।
टिप्पo - 1 योजनगन्धानाहीं दाशकन्यामनुसरति स इत्यर्थः । 2 पिच्छप्रान्तभागे चन्द्राकाराः
शिखण्डका इत्यर्थः । 3 अतिरागिणम् अत्यन्तविषयासक्तं धनिनमिव कृतो बहूनां बन्दीनां प्रसभापहृत-
स्त्रीणां संग्रहो येन इत्यर्थ उचितः । टीकाटतव्याख्या तु विचारणीया । 4 सिव इत्याशयः ।
पाठा० -१ पराशरम्. २ हिरण्याख्य ३ बन्दि ४ बहुरक्त ५ कलाविलास; कलाभिलाष, ६ क्षयितवयस्कम्.
७ फलाशिनम्.